Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 7.25

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 7.25.1

स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतः स उत्तरतः स एवेदँ सर्वमित्यथातोऽहङ्कारादेश एवाहमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं दक्षिणतोऽहमुत्तरतोऽहमेवेदँ सर्वमिति ॥ ७.२५.१ ॥

他确实在下,在上,在后,在前,在南,在北;他确实就是这一切。接着是关于“我”的教导:我确实在下,我在上,我在后,我在前,我在南,我在北;我确实就是这一切。

Chāndogya 7.25.2

अथात आत्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदँ सर्वमिति । स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवति । अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति तेषाँ सर्वेषु लोकेष्वकामचारो भवति ॥ ७.२५.२ ॥

现在是关于自我(ātman)的教导:自我确实在下,在上,在后,在前,在南,在北;自我确实就是这一切。见如是、思如是、知如是、乐于自我、游戏于自我、与自我相合、以自我为喜乐的人,成为自主者,在一切世界中随意游行。而不如此认识的人是其他的国王;他们的世界是会坏灭的,在一切世界中没有随意游行的自由。