Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 7.5

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 7.5.1

चित्तं वाव सङ्कल्पाद्भूयो यदा वै चेतयतेऽथ सङ्कल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ ७.५.१ ॥

心(citta)比意愿更大。当人有所觉知时,便生起意愿;然后思考;然后发出言语。这言语宣说名称;在名称中,咒语合为一体;在咒语中,诸行为(合为一体)。

Chāndogya 7.5.2

तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि तस्माद्यद्यपि बहुविदचित्तो भवति नायमस्तीत्येवैनमाहुर्यदयं वेद यद्वा अयं विद्वान्नेत्थमचित्तः स्यादित्यथ यद्यल्पविच्चित्तवान्भवति तस्मा एवोत शुश्रूषन्ते चित्तँह्येवैषामेकायनं चित्तमात्मा चित्तं प्रतिष्ठा चित्तमुपास्स्वेति ॥ ७.५.२ ॥

这一切都以心(citta)为唯一归宿,以心为自性,并安立于心之中。因此,即使有人博学却无心,人们说:「他没有(智慧)」,因为这个知道的人,或这位博学者若无心便不会如此。若一个少知者却有心,人们甚至侍奉他;因为心是这一切唯一的归宿,心是自我(ātman),心是根基。当观想心。

Chāndogya 7.5.3

स यश्चित्तं ब्रह्मेत्युपास्ते चित्तान्वै स लोकान्ध्रुवान्ध्रुवः प्रतिष्ठितान्प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति यावच्चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश्चित्तं ब्रह्मेत्युपास्तेऽस्ति भगवश्चित्ताद्भूय इति चित्ताद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.५.३ ॥

凡以心为梵而修习者,在稳固的世界中成为稳固者,在安立的世界中成为安立者,在不动摇的世界中成为不动摇者,而得成就。凡心所至之处,他便可随意游行。“尊者,心之上是否还有更高者?”“有,心之上还有更高者。”“那么愿尊者告诉我。”