Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 1.11

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.11.1

वषट्ते पूषन्न् अस्मिन्त्सूतावर्यमा होता कृणोतु वेधाः ।
सिस्रतां नार्यृतप्रजाता वि पर्वाणि जिहतां सूतवा उ ॥ १.११.१ ॥

噢普善,愿此次分娩向你献上 vaṣaṭ!愿呼唤者阿利耶曼与韦达斯成就此事。愿依 ṛta 而生育的女子之束缚松开,她的关节为分娩而舒展。

1.11.2

चतस्रो दिवः प्रदिशश्चतस्रो भूम्या उत ।
देवा गर्भं समैरयन् तं व्यूर्णुवन्तु सूतवे ॥ १.११.२ ॥

天之四方、四隅,以及地之四方:诸神推动了胎儿;愿他们为分娩而打开它。

1.11.3

सूषा व्यूर्णोतु वि योनिं हापयामसि ।
श्रथया सूषणे त्वमव त्वं बिष्कले सृज ॥ १.११.३ ॥

愿苏沙打开;我们松开产道。噢苏沙那,你松开束缚;你,向比什卡拉方向,放开(脐带)。

1.11.4

नेव मांसे न पीवसि नेव मज्जस्वाहतम् ।
अवैतु पृश्नि शेवलं शुने जराय्वत्तवेऽव जरायु पद्यताम् ॥ १.११.४ ॥

既不在肌肉中,也不在脂肪中,也不如卡在骨髓中一般。愿斑纹苔藓下降;愿胎盘落下,供狗食用——愿胎盘落下。

1.11.5

वि ते भिनद्मि मेहनं वि योनिं वि गवीनिके ।
वि मातरं च पुत्रं च वि कुमारं जरायुणाव जरायु पद्यताम् ॥ १.११.५ ॥

我分开你的阴茎,分开产道;噢哥维尼卡,我分开你。我分开母亲与儿子,分开婴儿——随胎盘一同向下,愿胎盘落下。

1.11.6

यथा वातो यथा मनो यथा पतन्ति पक्षिणः ।
एवा त्वं दशमास्य साकं जरायुणा पताव जरायु पद्यताम् ॥ १.११.६ ॥

如风,如心念,如鸟飞翔,你亦如此,噢十月者,与胎盘一同落下——愿胎盘落下。