アタルヴァ・ヴェーダ · スークタ 1.29
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.29.1
अभीवर्तेन मणिना येनेन्द्रो अभिवावृधे ।
तेनास्मान् ब्रह्मणस्पतेऽभि राष्ट्राय वर्धय ॥ १.२९.१ ॥
敵を退ける護符によってインドラが増大し勝利したその護符で、ブラフマナスパティよ、王国のために我らを敵に勝って増大させたまえ。
1.29.2
अभिवृत्य सपत्नान् अभि या नो अरातयः ।
अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति ॥ १.२९.२ ॥
我らに敵対する敵を退けて、戦いを望む者に立ち向かい、我らに害を与える者にも立ち向かえ。
1.29.3
अभि त्वा देवः सविताभि षोमो अवीवृधत् ।
अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥ १.२९.३ ॥
神サヴィトリがあなたを高め、ソーマがあなたを増大させた。すべての存在があなたの上にありますように、敵を退ける護符よ、そのようになるために。
1.29.4
अभीवर्तो अभिभवः सपत्नक्षयणो मणिः ।
राष्ट्राय मह्यं बध्यतां सपत्नेभ्यः पराभुवे ॥ १.२९.४ ॥
敵を退ける護符、制圧する護符、敵を滅ぼす護符——王国のため、敵を打ち破るために、私に結ばれますように。
1.29.5
उदसौ सूर्यो अगादुदिदं मामकं वचः ।
यथाहं शत्रुहोऽसान्यसपत्नः सपत्नहा ॥ १.२९.५ ॥
あの太陽が昇った。私のこの言葉も立ち上がった。私が敵を倒す者、敵なき者、敵を殺す者となるように。
1.29.6
सपत्नक्षयणो वृषाभिरष्ट्रो विषासहिः ।
यथाहमेषां वीराणां विराजानि जनस्य च ॥ १.२९.६ ॥
敵を滅ぼす者、力強い牡牛、王国の主、すべてを征服する者——私がこれらの英雄と民の上に君として輝くために。