Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 10.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

10.1.1

यां कल्पयन्ति वहतौ वधूमिव विश्वरूपां हस्तकृतां चिकित्सवः ।
सारादेत्वप नुदाम एनाम् ॥ १०.१.१ ॥

那被医者如新娘般在婚礼行列中装扮、形态万千、人工所造者——愿她离开精髓;我们驱逐她。

10.1.2

शीर्षण्वती नस्वती कर्णिणी कृत्याकृता संभृता विश्वरूपा ।
सारादेत्वप नुदाम एनाम् ॥ १०.१.२ ॥

有头、有鼻、有耳,以咒术所造,聚集而成,形态万千——愿她离开精髓;我们驱逐她。

10.1.3

शूद्रकृता राजकृता स्त्रीकृता ब्रह्मभिः कृता ।
जाया पत्या नुत्तेव कर्तारं बन्ध्वृच्छतु ॥ १०.१.३ ॥

由首陀罗所作,由国王所作,由女人所作,由婆罗门咒语所作——如被丈夫驱逐的妻子,愿它返回施术者那里。

10.1.4

अनयाहमोषध्या सर्वाः कृत्या अदूदुषम् ।
यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु ॥ १०.१.४ ॥

我以此药草使一切咒术失效——无论他们在田间、牲畜中或人群中所施。

10.1.5

अघमस्त्वघकृते शपथः शपथीयते ।
प्रत्यक्प्रतिप्रहिण्मो यथा कृत्याकृतं हनत् ॥ १०.१.५ ॥

愿恶报归于作恶者;愿咒诅回到诅咒者身上。我们将其送回,使作咒术者自己受到打击。

10.1.6

प्रतीचीन आङ्गिरसोऽध्यक्षो नः पुरोहितः ।
प्रतीचीः कृत्या आकृत्यामून् कृत्याकृतो जहि ॥ १०.१.६ ॥

愿我们的监督与家祭司安吉罗娑,击倒被反转的咒术——那些施咒之人。

10.1.7

यस्त्वोवाच परेहीति प्रतिकूलमुदाय्यम् ।
तं कृत्येऽभिनिवर्तस्व मास्मान् इछो अनागसः ॥ १०.१.७ ॥

对你说「前行吧」而怀有敌意的人,啊,克利底亚,你就回到他那里去;不要针对我们这些无辜者。

10.1.8

यस्ते परूंषि संदधौ रथस्येव र्भुर्धिया ।
तं गच्छ तत्र तेऽयनमज्ञातस्तेऽयं जनः ॥ १०.१.८ ॥

那用智慧把你的关节拼合如车架的人,去他那里吧;那里是你的道路;这个人对你是陌生的。

10.1.9

ये त्वा कृत्वालेभिरे विद्वला अभिचारिणः ।
शंभ्विदं कृत्यादूषणं प्रतिवर्त्म पुनःसरं तेन त्वा स्नपयामसि ॥ १०.१.९ ॥

那些创造并抓住你的熟练巫师——这善良的克利底亚解毒剂是返回之路;我们用它为你沐浴。

10.1.10

यद्दुर्भगां प्रस्नपितां मृतवत्सामुपेयिम ।
अपैतु सर्वं मत्पापं द्रविणं मोप तिष्ठतु ॥ १०.१.१० ॥

若我们接近了那不幸的、被沐浴过的、子嗣夭折的女子,愿一切罪恶离开我;愿财富不在我身边停留。

10.1.11

यत्ते पितृभ्यो ददतो यज्ञे वा नाम जगृहुः ।
संदेश्यात्सर्वस्मात्पापादिमा मुञ्चन्तु त्वौषधीः ॥ १०.१.११ ॥

若你在供奉祖先时或在祭祀中取用了他们的名字,愿这些草药使你从一切约束之罪(saṃdeśya)中解脱。

10.1.12

देवैनसात्पित्र्यान् नामग्राहात्संदेश्यादभिनिष्कृतात् ।
मुञ्चन्तु त्वा वीरुधो वीर्येण ब्रह्मणा ऋग्भिः पयसा ऋषीणाम् ॥ १०.१.१२ ॥

愿藤蔓以力量、梵咒、颂歌和仙人的乳汁,使你脱离对诸神的罪、取用祖先之名之罪、约束之罪(saṃdeśya)以及违逆所作之罪。

10.1.13

यथा वातश्च्यावयति भूम्या रेणुमन्तरिक्षाच्चाभ्रम् ।
एवा मत्सर्वं दुर्भूतं ब्रह्मनुत्तमपायति ॥ १०.१.१३ ॥

如同风把尘土从大地、把云从虚空吹走,那被梵(圣言)驱动者,也从我身上驱除一切不祥所生之物(durbhūta)。

10.1.14

अप क्राम नानदती विनद्धा गर्दभीव ।
कर्तॄन् नक्षस्वेतो नुत्ता ब्रह्मणा वीर्यावता ॥ १०.१.१४ ॥

你这被捆缚、如母驴般嘶叫的(咒术)啊,快快离去!被梵(圣言)的强大力量从此处驱赶,去到施行者那里吧。

10.1.15

अयं पन्थाः कृत्येति त्वा नयामोऽभिप्रहितां प्रति त्वा प्र हिण्मः ।
तेनाभि याहि भञ्जत्यनस्वतीव वाहिनी विश्वरूपा कुरूतिनी ॥ १०.१.१५ ॥

啊,咒女(kṛtyā)!这就是路;我们沿此路引导你。被派来的你,我们把你送回到你自己那里。沿着同一条路来吧,像无车之军一样冲破一切,你这形态万千、散播毁灭者。

10.1.16

पराक्ते ज्योतिरपथं ते अर्वागन्यत्रास्मदयना कृणुष्व ।
परेणेहि नवतिं नाव्या अति दुर्गाः स्रोत्या मा क्षणिष्ठाः परेहि ॥ १०.१.१६ ॥

你的光远在彼处,你的路不在这里。远离我们,去别处另开你的道路。乘九十只船渡过险恶的河流,远远离去,不要跌倒。

10.1.17

वात इव वृक्षान् नि मृणीहि पादय मा गामश्वं पुरुषमुच्छिष एषाम् ।
कर्तॄन् निवृत्येतः कृत्येऽप्रजास्त्वाय बोधय ॥ १०.१.१७ ॥

如风吹倒树木一般,将他们碾碎推倒。不要留下他们的牛、马或人,让他们无一存留。啊,咒女(kṛtyā)!从此折返,让施行者们知道自己已无子嗣!

10.1.18

यां ते बर्हिषि यां श्मशाने क्षेत्रे कृत्यां वलगं वा निचख्नुः ।
अग्नौ वा त्वा गार्हपत्येऽभिचेरुः पाकं सन्तं धीरतरा अनागसम् ॥ १०.१.१८ ॥

为你埋在圣草上、墓地或田中的咒术(kṛtyā),名为valaga的罗网,或在家主火中对你施行的咒诅(abhicāra)——智者们以此对付你这无辜成熟的人,意在毁灭你。

10.1.19

उपाहृतमनुबुद्धं निखातं वैरं त्सार्यन्वविदाम कर्त्रम् ।
तदेतु यत आभृतं तत्राश्व इव वि वर्ततां हन्तु कृत्याकृतः प्रजाम् ॥ १०.१.१९ ॥

那被带来、被发现、被埋下的敌意咒语——我们重新找到的那把割刀——愿它回到被带来的地方;如马回转一般,愿它击中施行咒术者的子孙。

10.1.20

स्वायसा असयः सन्ति नो गृहे विद्मा ते कृत्ये यतिधा परूंषि ।
उत्तिष्ठैव परेहीतोऽज्ञाते किमिहेच्छसि ॥ १०.१.२० ॥

我家里有良铁的利剑;咒术啊,我们知道你的关节可以用多少种方式斩断。起来,离开这里,远去吧——无人知晓的你,你在此想要什么?

10.1.21

ग्रीवास्ते कृत्ये पादौ चापि कर्त्स्यामि निर्द्रव ।
इन्द्राग्नी अस्मान् रक्षतां यौ प्रजानां प्रजावती ॥ १०.१.२१ ॥

咒术啊,我也要斩断你的脖子和双脚;快逃吧。愿使众民子嗣昌盛的因陀罗与火神保护我们。

10.1.22

सोमो राजाधिपा मृडिता च भूतस्य नः पतयो मृडयन्तु ॥ १०.१.२२ ॥

君王苏摩,主宰而仁慈;我们众生的主人们——愿他们怜悯我们。

10.1.23

भवाशर्वावस्यतां पापकृते कृत्याकृते ।
दुष्कृते विद्युतं देवहेतिम् ॥ १०.१.२३ ॥

愿婆婆(Bhava)与湿婆(Śarva)瞄准作恶者与施行咒术者;愿他们向作恶者投掷雷电与诸神之器。

10.1.24

यद्येयथ द्विपदी चतुष्पदी कृत्याकृता संभृता विश्वरूपा ।
सेतोऽष्टापदी भूत्वा पुनः परेहि दुछुने ॥ १०.१.२४ ॥

若你是两足或四足,被作为咒术仪式(kṛtyā)造成并以各种形态聚合,那么就被束缚成为八足之物,再回去吧,哦不祥者。

10.1.25

अभ्यक्ताक्ता स्वरंकृता सर्वं भरन्ती दुरितं परेहि ।
जानीहि कृत्ये कर्तारं दुहितेव पितरं स्वम् ॥ १०.१.२५ ॥

涂抹而成、以声响制作、背负一切凶险的你,去吧。哦咒术(kṛtyā),认出造你之人,如女儿认出自己的父亲。

10.1.26

परेहि कृत्ये मा तिष्ठो विद्धस्येव पदं नय ।
मृगः स मृगयुस्त्वं न त्वा निकर्तुमर्हति ॥ १०.१.२६ ॥

哦咒术(kṛtyā),去吧,不要停留在此。像受伤者的足迹那样走你的路。他是鹿,你是猎人;他不能将你斩杀。

10.1.27

उत हन्ति पूर्वासिनं प्रत्यादायापर इष्वा ।
उत पूर्वस्य निघ्नतो नि हन्त्यपरः प्रति ॥ १०.१.२७ ॥

另一人收回箭矢,击中先前坐着的那人。另一人转而对付先击之人,将其击倒。

10.1.28

एतद्धि शृणु मे वचोऽथेहि यत एयथ ।
यस्त्वा चकार तं प्रति ॥ १०.१.२८ ॥

因此请听我此言,然后回到你来的地方,回到造你之人那里去。

10.1.29

अनागोहत्या वै भीमा कृत्ये मा नो गामश्वं पुरुषं वधीः ।
यत्रयत्रासि निहिता ततस्त्वोत्थापयामसि पर्णाल्लघीयसी भव ॥ १०.१.२९ ॥

哦可怖的咒术(kṛtyā),杀害无辜确是大事;不要击杀我们的牛、马或人。无论你被置于何处,我们都将你从那里撤去;变得比树叶更轻吧。

10.1.30

यदि स्थ तमसावृता जालेनभिहिता इव ।
सर्वाः संलुप्येतः कृत्याः पुनः कर्त्रे प्र हिण्मसि ॥ १०.१.३० ॥

若你们被黑暗笼罩,如同被罗网所缚,那么,诸魔法女灵啊,愿你们都从此处被斩断;我们将你们送回给造作你们的人。

10.1.31

कृत्याकृतो वलगिनोऽभिनिष्कारिणः प्रजाम् ।
मृणीहि कृत्ये मोच्छिषोऽमून् कृत्याकृतो जहि ॥ १०.१.३१ ॥

造作魔法女灵者皆邪曲;他们侵袭并毁灭人民。啊,魔法女灵,放过他们,不要留下任何东西;击杀那些造作魔法女灵的人。

10.1.32

यथा सूर्यो मुच्यते तमसस्परि रात्रिं जहात्युषसश्च केतून् ।
एवाहं सर्वं दुर्भूतं कर्त्रं कृत्याकृता कृतं हस्तीव रजो दुरितं जहामि ॥ १०.१.३२ ॥

如同太阳从黑暗中脱离,抛下夜晚与黎明的光线,我也抛弃由魔法女灵所造的一切恶生之物、作者之业与厄运,如同大象抖落尘土一般将它们抖落。