阿闼婆吠陀 · 颂诗(Sūkta) 10.10
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
10.10.1
नमस्ते जायमानायै जाताया उत ते नमः ।
बालेभ्यः शफेभ्यो रूपायाघ्न्ये ते नमः ॥ १०.१०.१ ॥
向正在出生的你致敬,向已经出生的你致敬。向小牛、蹄子、形貌致敬;向你致敬,阿格尼娅,不可杀者。
10.10.2
यो विद्यात्सप्त प्रवतः सप्त विद्यात्परावतः ।
शिरो यज्ञस्य यो विद्यात्स वशां प्रति गृह्णीयात् ॥ १०.१०.२ ॥
知晓七个近处与七个远处(世界),知晓祭祀之首者,应当以之换取母牛(Vaśā)。
10.10.3
वेदाहं सप्त प्रवतः सप्त वेद परावतः ।
शिरो यज्ञस्याहं वेद सोमं चास्यां विचक्षणम् ॥ १०.१०.३ ॥
我知道七个近处与七个远处(世界);我知道祭祀之首;我也知道她之中那闪耀的苏摩。
10.10.4
यया द्यौर्यया पृथिवी ययापो गुपिता इमाः ।
वशां सहस्रधारां ब्रह्मणाच्छावदामसि ॥ १०.१०.४ ॥
凭借她,天空、大地、这些水流得以护佑——我们以梵咒祝祷那千流的牝牛(Vaśā)。
10.10.5
शतं कंसाः शतं दोग्धारः शतं गोप्तारो अधि पृष्ठे अस्याः ।
ये देवास्तस्यां प्राणन्ति ते वशां विदुरेकधा ॥ १०.१०.५ ॥
在她的背上有百个器皿、百个挤奶者、百个守护者。在她之中呼吸的诸神,以一体的方式认识牝牛(Vaśā)。
10.10.6
यज्ञपदीराक्षीरा स्वधाप्राणा महीलुका ।
वशा पर्जन्यपत्नी देवाँ अप्येति ब्रह्मणा ॥ १०.१०.६ ॥
祭祀是她的足,斯瓦陀是她的气息;摩希卢迦——牝牛(Vaśā),因陀罗之妻(实为帕尔贾尼亚之妻)——凭梵咒抵达诸神。
10.10.7
अनु त्वाग्निः प्राविशदनु सोमो वशे त्वा ।
ऊधस्ते भद्रे पर्जन्यो विद्युतस्ते स्तना वशे ॥ १०.१०.७ ॥
阿耆尼跟随你而入,婆沙啊,苏摩也跟随你。吉祥者啊,帕尔加尼亚是你的乳房;闪电是你的乳头,婆沙啊。
10.10.8
अपस्त्वं धुक्षे प्रथमा उर्वरा अपरा वशे ।
तृतीयं राष्ट्रं धुक्षेऽन्नं क्षीरं वशे त्वम् ॥ १०.१०.८ ॥
婆沙啊,你先挤出水,挤出肥沃的土地,再挤出第二者。第三,你挤出王国;你挤出食物与乳汁,婆沙啊,是你。
10.10.9
यदादित्यैर्हूयमानोपातिष्ठ ऋतवरि ।
इन्द्रः सहस्रं पात्रान्त्सोमं त्वापाययद्वशे ॥ १०.१०.९ ॥
当你被阿底提耶们召唤而来时,有律者啊,因陀罗以千个器皿让你饮用苏摩,婆沙啊。
10.10.10
यदनूचीन्द्रमैरात्त्वा ऋषभोऽह्वयत् ।
तस्मात्ते वृत्रहा पयः क्षीरं क्रुद्धोऽहरद्वशे ॥ १०.१०.१० ॥
当跟随的母牛走向因陀罗时,公牛呼唤了你;因此杀弗栗多者愤怒地夺走了你的乳汁与奶油,婆沙啊。
10.10.11
यत्ते क्रुद्धो धनपतिरा क्षीरमहरद्वशे ।
इदं तदद्य नाकस्त्रिषु पात्रेषु रक्षति ॥ १०.१०.११ ॥
当你那愤怒的财富之主夺走你的乳汁时,婆沙啊,今天天界将它保存在三个器皿中。
10.10.12
त्रिषु पात्रेषु तं सोममा देव्यहरद्वशा ।
अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये ॥ १०.१०.१२ ॥
在三个器皿中,女神婆沙夺走了那苏摩,就在阿阇婆(阿闼婆)受戒、坐于金色圣草之处。
10.10.13
सं हि सोमेनागत समु सर्वेण पद्वता ।
वशा समुद्रमध्यष्ठद्गन्धर्वैः कलिभिः सह ॥ १०.१०.१३ ॥
她确实与苏摩一同而来,携带她所有的足。婆沙站在大海之上,与乾闼婆和迦利同在。
10.10.14
सं हि वातेनागत समु सर्वैः पतत्रिभिः ।
वशा समुद्रे प्रानृत्यदृचः सामानि बिभ्रती ॥ १०.१०.१४ ॥
她确实与风一同而来,与所有飞鸟同在。婆沙在大海中起舞,承载着梨俱与娑摩。
10.10.15
सं हि सूर्येणागत समु सर्वेण चक्षुषा ।
वशा समुद्रमत्यख्यद्भद्रा ज्योतींषि बिभ्रती ॥ १०.१०.१५ ॥
她确实与太阳一同而来,带着她全部的目光。婆沙望向大海之外,承载着吉祥的光芒。
10.10.16
अभीवृता हिरण्येन यदतिष्ठ ऋतावरि ।
अश्वः समुद्रो भूत्वाध्यस्कन्दद्वशे त्वा ॥ १०.१०.१६ ॥
啊,秩序(ṛta)的女主人,当你被黄金环绕而立时,大海化为一匹马,跃向你,婆沙啊。
10.10.17
तद्भद्राः समगच्छन्त वशा देष्ट्र्यथो स्वधा ।
अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये ॥ १०.१०.१७ ॥
于是吉祥者们聚集——施予者婆沙,还有斯瓦达——在阿他婆受戒而坐于金色圣草之处。
10.10.18
वशा माता राजन्यस्य वशा माता स्वधे तव ।
वशाया यज्ञ आयुधं ततश्चित्तमजायत ॥ १०.१०.१८ ॥
婆沙是刹帝利的母亲;婆沙也是你的母亲,斯瓦达啊。婆沙的祭祀即是武器,由此生出了心识。
10.10.19
ऊर्ध्वो बिन्दुरुदचरद्ब्रह्मणः ककुदादधि ।
ततस्त्वं जज्ञिषे वशे ततो होताजायत ॥ १०.१०.१९ ॥
从梵的隆起处向上升起一滴。由此,哦婆沙,你诞生了;由此,祭司荷塔生出。
10.10.20
आस्नस्ते गाथा अभवन्न् उष्णिहाभ्यो बलं वशे ।
पाजस्याज्जज्ञे यज्ञ स्तनेभ्यो रश्मयस्तव ॥ १०.१०.२० ॥
从你的口中生出颂歌;从乌什尼哈诗律中,哦婆沙,生出力量。从帕加斯耶生出祭祀;从你的乳房生出光线。
10.10.21
ईर्माभ्यामयनं जातं सक्थिभ्यां च वशे तव ।
आन्त्रेभ्यो जज्ञिरे अत्रा उदरादधि वीरुधः ॥ १०.१०.२१ ॥
从你的两胁生出道路,哦婆沙,也从你的大腿生出。从肠子生出阿特拉;从腹中生出草药。
10.10.22
यदुदरं वरुणस्यानुप्राविशथा वशे ।
ततस्त्वा ब्रह्मोदह्वयत्स हि नेत्रमवेत्तव ॥ १०.१०.२२ ॥
哦婆沙,当你进入伐楼那之腹时,梵呼唤了你;他确实知道你的引导者。
10.10.23
सर्वे गर्भादवेपन्त जायमानादसूस्वः ।
ससूव हि तामाहु वशेति ब्रह्मभिः कॢप्तः स ह्यस्या बन्धुः ॥ १०.१०.२३ ॥
当从胎中出生时,众皆颤动;她生下了它。她被称为婆沙,由梵志们如此确定;他确是她的亲属。
10.10.24
युध एकः सं सृजति यो अस्या एक इद्वशी ।
तरांसि यज्ञा अभवन् तरसां चक्षुरभवद्वशा ॥ १०.१०.२४ ॥
在战斗中,唯有一者派遣她;她的唯一主宰者也是他。迅捷者成为祭祀;迅捷者的眼睛成为婆沙。
10.10.25
वशा यज्ञं प्रत्यगृह्णाद्वशा सूर्यमधारयत् ।
वशायामन्तरविशदोदनो ब्रह्मणा सह ॥ १०.१०.२५ ॥
婆沙接受了祭祀,婆沙支撑着太阳。奥檀那与梵一同进入婆沙之中。
10.10.26
वशामेवामृतमाहुर्वशां मृत्युमुपासते ।
वशेदं सर्वमभवद्देवा मनुष्या असुराः पितर ऋषयः ॥ १०.१०.२६ ॥
人们称婆沙即是不死,死亡也侍奉婆沙。此一切皆由婆沙而生:诸天、人类、阿修罗、祖灵与仙人。
10.10.27
य एवं विद्यात्स वशां प्रति गृह्णीयात् ।
तथा हि यज्ञः सर्वपाद्दुहे दात्रेऽनपस्फुरन् ॥ १०.१०.२७ ॥
知此者当受婆沙。祭祀亦如此,护持一切,为施者挤出乳汁,不会失足。
10.10.28
तिस्रो जिह्वा वरुणस्यान्तर्दीद्यत्यासनि ।
तासां या मध्ये राजति सा वशा दुष्प्रतिग्रहा ॥ १०.१०.२८ ॥
伐楼那的三条舌头在口中闪耀;居于其中央放光者即婆沙,难以接受。
10.10.29
चतुर्धा रेतो अभवद्वशायाः ।
आपस्तुरीयममृतं तुरीयं यज्ञस्तुरीयं पशवस्तुरीयम् ॥ १०.१०.२९ ॥
婆沙之精分为四份:一份为水,一份为不死,一份为祭祀,一份为牲畜。
10.10.30
वशा द्यौर्वशा पृथिवी वशा विष्णुः प्रजापतिः ।
वशाया दुग्धमपिबन्त्साध्या वसवश्च ये ॥ १०.१०.३० ॥
婆沙即天,婆沙即地;婆沙即毗湿奴与生主。婆沙之乳,萨地亚与婆苏饮之,凡在者亦皆饮之。
10.10.31
वशाया दुग्धं पीत्वा साध्या वसवश्च ये ।
ते वै ब्रध्नस्य विष्टपि पयो अस्या उपासते ॥ १०.१०.३१ ॥
饮过不育母牛乳汁的萨地耶神与婆苏神,在布拉布那的至高界中供奉的正是此牛之乳。
10.10.32
सोममेनामेके दुह्रे घृतमेक उपासते ।
य एवं विदुषे वशां ददुस्ते गतास्त्रिदिवं दिवः ॥ १०.१०.३२ ॥
有人从她那里挤出苏摩,有人供奉酥油。如此知晓而将母牛施予智者的人,已升往天界的三重天(特里地瓦)。
10.10.33
ब्राह्मणेभ्यो वशां दत्त्वा सर्वांल्लोकान्त्समश्नुते ।
ऋतं ह्यस्यामार्पितमपि ब्रह्माथो तपः ॥ १०.१०.३३ ॥
将母牛施予婆罗门者,可得一切世界;因为在她之中也确立了真理(ṛta)、梵咒与苦行(tapas)。
10.10.34
वशां देवा उप जीवन्ति वशां मनुष्या उत ।
वशेदं सर्वमभवद्यावत्सूर्यो विपश्यति ॥ १०.१०.३४ ॥
诸神因母牛而生存,人类亦然。一切皆由母牛而生,只要太阳照临之时。