Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 10.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

10.2.1

केन पार्ष्णी आभृते पूरुषस्य केन मांसं संभृतं केन गुल्फौ ।
केनाङ्गुलीः पेशनीः केन खानि केनोच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम् ॥ १०.२.१ ॥

人之脚跟以何固定?以何聚合血肉,以何踝骨;以何手指、柔软之体,以何孔窍,以何两处隆起,又是谁在中间安放了根基?

10.2.2

कस्मान् नु गुल्फावधरावकृण्वन्न् अष्ठीवन्तावुत्तरौ पूरुषस्य ।
जङ्घे निर्ऋत्य न्यदधुः क्व स्विज्जानुनोः संधी क उ तच्चिकेत ॥ १०.२.२ ॥

他们以何造人的下踝与上膝?从尼罗底取出胫骨安放;膝关节在何处?谁知道这个?

10.2.3

चतुष्टयं युजते संहितान्तं जानुभ्यामूर्ध्वं शिथिरं कबन्धम् ।
श्रोणी यदूरू क उ तज्जजान याभ्यां कुसिन्धं सुदृढं बभूव ॥ १०.२.३ ॥

四者相连,以一联结收束;自膝而上为松散的躯干。谁生出了髋与大腿?以何物使库辛陀(骨盆之架)极其坚固?

10.2.4

कति देवाः कतमे त आसन् य उरो ग्रीवाश्चिक्युः पुरुषस्य ।
कति स्तनौ व्यदधुः कः कफोदौ कति स्कन्धान् कति पृष्टीरचिन्वन् ॥ १०.२.४ ॥

设置人之胸与颈的诸神有多少,他们又是谁?安置了几对乳房,谁安放了肩胛?排列了几肩、几肋?

10.2.5

को अस्य बाहू समभरद्वीर्यां करवादिति ।
अंसौ को अस्य तद्देवः कुसिन्धे अध्या दधौ ॥ १०.२.५ ॥

谁托起他的双臂,心想:"我当以力成之"?哪位神取其双肩,置于库辛陀之上?

10.2.6

कः सप्त खानि वि ततर्द शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम् ।
येषां पुरुत्रा विजयस्य मह्ननि चतुष्पादो द्विपदो यन्ति यामम् ॥ १०.२.६ ॥

谁在头部凿出了七个孔:两只耳朵、这两个鼻孔、两只眼睛和口?凭着谁伟大的胜利之业,四足与两足的生灵在众多处所行走于自己的路上?他是谁?

10.2.7

हन्वोर्हि जिह्वामदधात्पुरूचीमधा महीमधि शिश्राय वाचम् ।
स आ वरीवर्ति भुवनेष्वन्तरपो वसानः क उ तच्चिकेत ॥ १०.२.७ ॥

他在两颚之中安置了多方运动的舌头,又在那伟大的言语之上安住。身披诸水,他在诸世界之间回旋。谁真正知道这一点?

10.2.8

मस्तिष्कमस्य यतमो ललाटं ककाटिकां प्रथमो यः कपालम् ।
चित्वा चित्यं हन्वोः पूरुषस्य दिवं रुरोह कतमः स देवः ॥ १०.२.८ ॥

谁造了他的脑、额、后颈,以及最先的头盖骨?那位在补鲁沙的两颚上垒起祭火坛(citya)、升上天界的神是谁?

10.2.9

प्रियाप्रियाणि बहुला स्वप्नं संबाधतन्द्र्यः ।
आनन्दान् उग्रो नन्दांश्च कस्माद्वहति पूरुषः ॥ १०.२.९ ॥

许多可爱与不可爱之事,梦,以及压迫的昏沉——欢乐与喜悦:猛烈的补鲁沙从何处承载它们?

10.2.10

आर्तिरवर्तिर्निर्ऋतिः कुतो नु पुरुषेऽमतिः ।
राद्धिः समृद्धिरव्यृद्धिर्मतिरुदितयः कुतः ॥ १०.२.१० ॥

痛苦、背离、毁灭——这些从何处在补鲁沙中生起?愚昧、成功、兴盛、不衰的增长、智慧与升起——这些从何而来?

10.2.11

को अस्मिन्न् आपो व्यदधात्विषूवृतः पुरूवृतः सिन्धुसृत्याय जाताः ।
तीव्रा अरुणा लोहिनीस्ताम्रधूम्रा ऊर्ध्वा अवाचीः पुरुषे तिरश्चीः ॥ १०.२.११ ॥

谁在此补鲁莎中安置了水?它们如箭杆般缠绕,层层环绕,为河流奔流而生。锐利、赤红、猩红、铜烟色,向上、向下、横贯补鲁莎而行。

10.2.12

को अस्मिन् रूपमदधात्को मह्मानं च नाम च ।
गातुं को अस्मिन् कः केतुं कश्चरित्रानि पूरुषे ॥ १०.२.१२ ॥

谁在此补鲁莎中安置了形相,又安置了威德与名号?谁在其中安置了道路,谁安置了标记,谁在补鲁莎中安置了行为的动态?

10.2.13

को अस्मिन् प्राणमवयत्को अपानं व्यानमु ।
समानमस्मिन् को देवोऽधि शिश्राय पूरुषे ॥ १०.२.१३ ॥

谁在此补鲁莎中编织了气息?谁编织了下行气与遍行气?又有哪位神在补鲁莎之上安住为平衡气?

10.2.14

को अस्मिन् यज्ञमदधादेको देवोऽधि पूरुषे ।
को अस्मिन्त्सत्यं कोऽनृतं कुतो मृत्युः कुतोऽमृतम् ॥ १०.२.१४ ॥

谁在此补鲁莎中安置了祭祀?一位神在补鲁莎之上。谁在其中安置了真实,谁安置了虚妄?死亡从何而来,不死从何而来?

10.2.15

को अस्मै वासः पर्यदधात्को अस्यायुरकल्पयत् ।
बलं को अस्मै प्रायच्छत्को अस्याकल्पयज्जवम् ॥ १०.२.१५ ॥

谁为他披上衣裳?谁定下了他的寿命?谁赐给他力量?谁造就了他的迅速?

10.2.16

केनापो अन्वतनुत केनाहरकरोद्रुचे ।
उषसं केनान्वैन्द्ध केन सायंभवं ददे ॥ १०.२.१६ ॥

以何者使水流展开?以何者使白昼为光明而成?以何者点燃了黎明?以何者执取了晚生者?

10.2.17

को अस्मिन् रेतो न्यदधात्तन्तुरा तायतामिति ।
मेधां को अस्मिन्न् अध्यौहत्को बाणं को नृतो दधौ ॥ १०.२.१७ ॥

谁在此中置入种子,使丝线得以伸展?谁从中引出智慧?谁持住箭,谁持住舞者?

10.2.18

केनेमां भूमिमौर्णोत्केन पर्यभवद्दिवम् ।
केनाभि मह्ना पर्वतान् केन कर्माणि पुरुषः ॥ १०.२.१८ ॥

他以何遮蔽此地,以何超越天空?以何凭其威力覆盖山岳,以何成就诸业——原人?

10.2.19

केन पर्जन्यमन्वेति केन सोमं विचक्षणम् ।
केन यज्ञं च श्रद्धां च केनास्मिन् निहितं मनः ॥ १०.२.१९ ॥

以何随从云雨之神帕尔贾尼亚,以何随从全见的苏摩?以何为祭与信,以何此中安置了心意?

10.2.20

केन श्रोत्रियमाप्नोति केनेमं परमेष्ठिनम् ।
केनेममग्निं पूरुषः केन संवत्सरं ममे ॥ १०.२.२० ॥

以何得学通的祭司,以何得此至上主?原人以何度量此火,以何度量年岁?

10.2.21

ब्रह्म श्रोत्रियमाप्नोति ब्रह्मेमं परमेष्ठिनम् ।
ब्रह्मेममग्निं पूरुषो ब्रह्म संवत्सरं ममे ॥ १०.२.२१ ॥

以梵得学通的祭司,以梵得此至上主。原人以梵度量此火,以梵度量年岁。

10.2.22

केन देवामनु क्षियति केन दैवजनीर्विशः ।
केनेदमन्यन् नक्षत्रं केन सत्क्षत्रमुच्यते ॥ १०.२.२२ ॥

以何居于诸天神之中,以何统御天神族的诸民?以何此另一星,以何称为真正的刹帝利权力?

10.2.23

ब्रह्म देवामनु क्षियति ब्रह्म दैवजनीर्विशः ।
ब्रह्मेदमन्यन् नक्षत्रं ब्रह्म सत्क्षत्रमुच्यते ॥ १०.२.२३ ॥

梵住于诸神之中,梵住于天神族群的众民之中。梵在此另一星辰之中;梵被称为真正的王权。

10.2.24

केनेयं भूमिर्विहिता केन द्यौरुत्तरा हिता ।
केनेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम् ॥ १०.२.२४ ॥

此大地由何而立?上方之天由何而固定?向上与横向延展的此虚空,由何而广布安置?

10.2.25

ब्रह्मणा भूमिर्विहिता ब्रह्म द्यौरुत्तरा हिता ।
ब्रह्मेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम् ॥ १०.२.२५ ॥

此大地由梵而立;上方之天由梵而固定。正是由梵,此向上与横向延展的虚空被广布安置。

10.2.26

मूर्धानमस्य संसीव्याथर्वा हृदयं च यत् ।
मस्तिष्कादूर्ध्वः प्रैरयत्पवमानोऽधि शीर्षतः ॥ १०.२.२६ ॥

阿闼婆缝合了此人的头部,也缝合了心脏;从脑中向上,从头顶之上,净风将气息向前推动。

10.2.27

तद्वा अथर्वणः शिरो देवकोशः समुब्जितः ।
तत्प्राणो अभि रक्षति शिरो अन्नमथो मनः ॥ १०.२.२७ ॥

此乃阿闼婆之头,诸天神之宝库,已被完全封闭。气息环绕守护它——守护头部、食物与心意。

10.2.28

ऊर्ध्वो नु सृष्टा३ तिर्यङ्नु सृष्टा३ सर्वा दिशः पुरुष आ बभूवा३ ।
पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥ १०.२.२८ ॥

向上所造,横向所造——于一切方位,普鲁沙已然成就。知梵之城者;其城被称为普鲁沙。

10.2.29

यो वै तां ब्रह्मणो वेदामृतेनावृतां पुरम् ।
तस्मै ब्रह्म च ब्राह्माश्च चक्षुः प्राणं प्रजां ददुः ॥ १०.२.२९ ॥

知晓这座被不死所环绕的梵之城者,诸神便赐予他梵、婆罗门、视力、气息与子嗣。

10.2.30

न वै तं चक्षुर्जहाति न प्राणो जरसः पुरा ।
पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥ १०.२.३० ॥

在衰老之前,视力不离开他,气息也不离开他。知晓那被称为补鲁莎的梵之城者。

10.2.31

अष्टाचक्रा नवद्वारा देवानां पूरयोध्या ।
तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः ॥ १०.२.३१ ॥

诸神不可攻克之城,有八轮九门;其中有金色的鞘,是被光明包裹的天界。

10.2.32

तस्मिन् हिरण्यये कोशे त्र्यरे त्रिप्रतिष्ठिते ।
तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥ १०.२.३२ ॥

在那金色的鞘中,有三辐,建立于三根支柱之上,其中有具足自我(ātman)的夜叉,梵智者知之。

10.2.33

प्रभ्राजमानां हरिणीं यशसा संपरीवृताम् ।
पुरं हिरण्ययीं ब्रह्मा विवेशापराजिताम् ॥ १०.२.३३ ॥

光辉灿烂、如鹿般金黄、全为荣耀所包裹、由金色构成的不可征服之城——梵进入了其中。