Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 10.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

10.3.1

अयं मे वरणो मणिः सपत्नक्षयणो वृषा ।
तेना रभस्व त्वं शत्रून् प्र मृणीहि दुरस्यतः ॥ १०.३.१ ॥

这是我的婆罗那宝珠,能摧毁敌人,强大有力。以它开始吧;击杀敌人,消灭恶毒的仇敌。

10.3.2

प्रैणान् छृणीहि प्र मृणा रभस्व मणिस्ते अस्तु पुरएता पुरस्तात् ।
अवारयन्त वरणेन देवा अभ्याचारमसुराणां श्वःश्वः ॥ १०.३.२ ॥

斩断他们,击杀他们,开始吧;愿你的宝珠成为走在前面的引领者。诸神借婆罗那日复一日地挡住阿修罗的咒术。

10.3.3

अयं मणिर्वरणो विश्वभेषजः सहस्राक्षो हरितो हिरण्ययः ।
स ते शत्रून् अधरान् पादयाति पूर्वस्तान् दभ्नुहि ये त्वा द्विषन्ति ॥ १०.३.३ ॥

这婆罗那宝珠是万病之药,有千只眼,呈绿色与金色。它使你的敌人低下;先击杀那些憎恨你的人。

10.3.4

अयं ते कृत्यां विततां पौरुषेयादयं भयात् ।
अयं त्वा सर्वस्मात्पापाद्वरणो वारयिष्यते ॥ १०.३.४ ॥

这将使广布的咒术远离你,远离人为的恐惧;这将保护你免于一切罪恶。这婆罗那宝珠将挡住它。

10.3.5

वरणो वारयाता अयं देवो वनस्पतिः ।
यक्ष्मो यो अस्मिन्न् आविष्टस्तमु देवा अवीवरन् ॥ १०.३.५ ॥

愿这婆罗那,神灵伐那斯帕提,将其挡开。进入他体内的消耗病,诸神确实驱逐了它。

10.3.6

स्वप्नं सुप्त्वा यदि पश्यासि पापं मृगः सृतिं यति धावादजुष्टाम् ।
परिक्षवाच्छकुनेः पापवादादयं मणिर्वरणो वारयिष्यते ॥ १०.३.६ ॥

若你入睡后在梦中见到凶兆,或鹿奔走于不吉之路,这婆罗那宝珠将挡开啼叫之鸟的恶兆与恶言。

10.3.7

अरात्यास्त्वा निर्ऋत्या अभिचारादथो भयात् ।
मृत्योरोजीयसो वधाद्वरणो वारयिष्यते ॥ १०.३.७ ॥

无论敌意、毁灭、咒术、恐惧,还是更强大的死亡之击,伐那护符都将为你挡开。

10.3.8

यन् मे माता यन् मे पिता भ्रातरो यच्च मे स्वा यदेनश्चकृमा वयम् ।
ततो नो वारयिष्यतेऽयं देवो वनस्पतिः ॥ १०.३.८ ॥

无论来自我的母亲、父亲、兄弟和亲属的过失,还是我们所犯的罪,这位神主树木都将为我们挡开。

10.3.9

वरणेन प्रव्यथिता भ्रातृव्या मे सबन्धवः ।
असूर्तं रजो अप्यगुस्ते यन्त्वधमं तमः ॥ १०.३.९ ॥

愿我的敌人及其亲属因伐那护符而深受折磨;愿他们坠入不可见的幽暗之界,堕入最低的黑暗。

10.3.10

अरिष्टोऽहमरिष्टगुरायुष्मान्त्सर्वपूरुषः ।
तं मायं वरणो मणिः परि पातु दिशोदिशः ॥ १०.३.१० ॥

我无伤无害,行于无害之路,长寿且全身完备;愿这伐那护符从每一方向护卫我。

10.3.11

अयं मे वरण उरसि राजा देवो वनस्पतिः ।
स मे शत्रून् वि बाधतामिन्द्रो दस्यून् इवासुरान् ॥ १०.३.११ ॥

我胸前的这伐那,是王,神主树木;愿他击溃我的敌人,如因陀罗击溃达萨与阿修罗。

10.3.12

इमं बिभर्मि वरणमायुष्मान् छतशारदः ।
स मे राष्ट्रं च क्षत्रं च पशून् ओजश्च मे दधत् ॥ १०.३.१२ ॥

我佩戴这伐那护符,以求活满百个秋天、长命百岁;愿它赐予我国土、王权、牲畜与活力。

10.3.13

यथा वातो वनस्पतीन् वृक्षान् भनक्त्योजसा ।
एवा सपत्नान् मे भङ्ग्धि पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥ १०.३.१३ ॥

如风以其力折断林中的树木与大树,你也要折断我的敌人,无论先生者还是后生者。愿婆罗那护卫你。

10.3.14

यथा वातश्चाग्निश्च वृक्षान् प्सातो वनस्पतीन् ।
एवा सपत्नान् मे प्साहि पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥ १०.३.१४ ॥

如风与火烧灼并制服树木与林中之王,你也要烧灼并制服我的敌人,无论先生者还是后生者。愿婆罗那护卫你。

10.3.15

यथा वातेन प्रक्षीणा वृक्षाः शेरे न्यर्पिताः ।
एवा सपत्नांस्त्वं मम प्र क्षिणीहि न्यर्पय ।
पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥ १०.३.१५ ॥

如被风吹倒的树木横卧在地,你也要毁灭并打倒我的敌人,无论先生者还是后生者。愿婆罗那护卫你。

10.3.16

तांस्त्वं प्र छिन्द्धि वरण पुरा दिष्टात्पुरायुषः ।
य एनं पशुषु दिप्सन्ति ये चास्य राष्ट्रदिप्सवः ॥ १०.३.१६ ॥

哦婆罗那,在他们注定的时限到来之前,在他们寿命耗尽之前,将他们斩断:那些想要伤害他的牲畜的人,以及那些想要伤害他国家的人。

10.3.17

यथा सूर्यो अतिभाति यथास्मिन् तेज आहितम् ।
एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।
तेजसा मा समुक्षतु यशसा समनक्तु मा ॥ १०.३.१७ ॥

如太阳焕然闪耀,如光辉已安置于其中,愿婆罗那的宝珠赐予我名声与福祉。愿它以光辉洒我,以荣耀涂我。

10.3.18

यथा यशश्चन्द्रमस्यादित्ये च नृचक्षसि ।
एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।
तेजसा मा समुक्षतु यशसा समनक्तु मा ॥ १०.३.१८ ॥

犹如光荣在月亮、太阳以及明察世人的神中,愿护身符婆罗那赐我名声与福祉。愿以光辉洒我,愿以荣耀涂我。

10.3.19

यथा यशः पृथिव्यां यथास्मिन् जातवेदसि ।
एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।
तेजसा मा समुक्षतु यशसा समनक्तु मा ॥ १०.३.१९ ॥

犹如光荣在大地中,在这位知晓一切生灵的火神中,愿护身符婆罗那赐我名声与福祉。愿以光辉洒我,愿以荣耀涂我。

10.3.20

यथा यशः कन्यायां यथास्मिन्त्संभृते रथे ।
एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।
तेजसा मा समुक्षतु यशसा समनक्तु मा ॥ १०.३.२० ॥

犹如光荣在少女中,在这辆备好的战车中,愿护身符婆罗那赐我名声与福祉。愿以光辉洒我,愿以荣耀涂我。

10.3.21

यथा यशः सोमपीथे मधुपर्के यथा यशः ।
एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।
तेजसा मा समुक्षतु यशसा समनक्तु मा ॥ १०.३.२१ ॥

犹如光荣在饮用苏摩中,在蜜酒供品中,愿护身符婆罗那赐我名声与福祉。愿以光辉洒我,愿以荣耀涂我。

10.3.22

यथा यशोऽग्निहोत्रे वषट्कारे यथा यशः ।
एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।
तेजसा मा समुक्षतु यशसा समनक्तु मा ॥ १०.३.२२ ॥

犹如光荣在火祭之中,在“瓦沙特”呼声之中,愿护身符婆罗那赐我名声与福祉。愿以光辉洒我,愿以荣耀涂我。

10.3.23

यथा यशो यजमाने यथास्मिन् यज्ञ आहितम् ।
एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।
तेजसा मा समुक्षतु यशसा समनक्तु मा ॥ १०.३.२३ ॥

如同荣耀在施祭者身上,如同荣耀确立于此祭中,愿婆罗那宝珠赐予我名声与福祉。愿它以光辉洒我,以荣耀涂我。

10.3.24

यथा यशः प्रजापतौ यथास्मिन् परमेष्ठिनि ।
एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।
तेजसा मा समुक्षतु यशसा समनक्तु मा ॥ १०.३.२४ ॥

如同荣耀在生主(Prajāpati)中,如同荣耀在此至尊者中,愿婆罗那宝珠赐予我名声与福祉。愿它以光辉洒我,以荣耀涂我。

10.3.25

यथा देवेष्वमृतं यथैषु सत्यमाहितम् ।
एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।
तेजसा मा समुक्षतु यशसा समनक्तु मा ॥ १०.३.२५ ॥

如同不死在诸神之中,如同真理确立于他们之中,愿婆罗那宝珠赐予我名声与福祉。愿它以光辉洒我,以荣耀涂我。