阿闼婆吠陀 · 颂诗(Sūkta) 10.4
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
10.4.1
इन्द्रस्य प्रथमो रथो देवानामपरो रथो वरुणस्य तृतीय इत् ।
अहीनामपमा रथ स्थानुमारदथार्षत् ॥ १०.४.१ ॥
第一辆车属于因陀罗,第二辆属于诸神,第三辆属于婆楼那。战车啊,驱赶蛇类;击碎那根柱子!
10.4.2
दर्भः शोचिस्तरूणकमश्वस्य वारः परुषस्य वारः ।
रथस्य बन्धुरम् ॥ १०.४.२ ॥
吉祥草是光辉,是马的小草,是斑点者的毛发,是战车的束缚。
10.4.3
अव श्वेत पदा जहि पूर्वेण चापरेण च ।
उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥ १०.४.३ ॥
白色者啊,以前脚和后脚向下击打;如木蛇之毒浮起,无汁而可怖。
10.4.4
अरंघुषो निमज्योन्मज पुनरब्रवीत् ।
उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥ १०.४.४ ॥
不嘶鸣者沉下又浮起,再次说道:如木蛇之毒浮起,无汁而可怖。
10.4.5
पैद्वो हन्ति कसर्णीलं पैद्वः श्वित्रमुतासितम् ।
पैद्वो रथर्व्याः शिरः सं बिभेद पृदाक्वाः ॥ १०.४.५ ॥
巴伊德瓦杀死卡萨尔尼拉;巴伊德瓦杀死白癜风,也杀死黑色的病;巴伊德瓦劈开了拉塔尔维的头,斑点蛇的头。
10.4.6
पैद्व प्रेहि प्रथमोऽनु त्वा वयमेमसि ।
अहीन् व्यस्यतात्पथो येन स्मा वयमेमसि ॥ १०.४.६ ॥
巴伊德瓦啊,先行;我们跟随你。愿他驱散蛇的道路,使我们得以前行。
10.4.7
इदं पैद्वो अजायतेदमस्य परायणम् ।
इमान्यर्वतः पदाहिघ्न्यो वाजिनीवतः ॥ १०.४.७ ॥
此物生于白德瓦,此乃其庇护所。这些是迅捷骏马的、杀蛇的蹄迹。
10.4.8
संयतं न वि ष्परद्व्यात्तं न सं यमत् ।
अस्मिन् क्षेत्रे द्वावही स्त्री च पुमांश्च तावुभावरसा ॥ १०.४.८ ॥
所缚者不可散开,所张者无人可松。此处有两条蛇,雌与雄;愿二者皆无毒。
10.4.9
अरसास इहाहयो ये अन्ति ये च दूरके ।
घनेन हन्मि वृश्चिकमहिं दण्डेनागतम् ॥ १०.४.९ ॥
此处无毒之蛇,近者与远者;我以棒击打蝎子,以杖击打那来到的蛇。
10.4.10
अघाश्वस्येदं भेषजमुभयो स्वजस्य च ।
इन्द्रो मेऽहिमघायन्तमहिं पैद्वो अरन्धयत् ॥ १०.४.१० ॥
此乃阿伽什婆及二自生者之药。因陀罗为我降伏了欲害我的蛇;白德瓦降伏了那蛇。
10.4.11
पैद्वस्य मन्महे वयं स्थिरस्य स्थिरधाम्नः ।
इमे पश्चा पृदाकवः प्रदीध्यत आसते ॥ १०.४.११ ॥
我们颂扬白德瓦,那坚定而居所坚固者。这些斑纹之蛇在后面闪耀着坐着。
10.4.12
नष्टासवो नष्टविषा हता इन्द्रेण वज्रिणा ।
जघानेन्द्रो जघ्निमा वयम् ॥ १०.४.१२ ॥
气息已灭,毒性已尽,被持金刚的因陀罗所杀。因陀罗击杀了当杀者;我们在此。
10.4.13
हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ।
दर्विं करिक्रतं श्वित्रं दर्भेष्वसितं जहि ॥ १०.४.१३ ॥
斜纹之蛇已被杀死,斑点之蛇已被压碎。木钻者、爬行者、白者——在吉祥草中击杀他们;也击杀那黑者。
10.4.14
कैरातिका कुमारिका सका खनति भेषजम् ।
हिरण्ययीभिरभ्रिभिर्गिरीनामुप सानुषु ॥ १०.४.१४ ॥
那少女,凯拉提卡,用金色的铲子在群山的斜坡上挖掘药草。
10.4.15
आयमगन् युवा भिषक्पृश्निहापराजितः ।
स वै स्वजस्य जम्भन उभयोर्वृश्चिकस्य च ॥ १०.४.१५ ॥
年轻的医者已经来到,他是斑点之蛇的克星,不可战胜。他确实能治愈斯瓦贾的咬伤,以及二者——蝎子的咬伤。
10.4.16
इन्द्रो मेऽहिमरन्धयन् मित्रश्च वरुणश्च ।
वातापर्जन्योभा ॥ १०.४.१६ ॥
因陀罗为我降伏了蛇;密特拉与伐楼那亦然;风神与云神,二者皆然。
10.4.17
इन्द्रो मेऽहिमरन्धयत्पृदाकुं च पृदाक्वम् ।
स्वजं तिरश्चिराजिं कसर्णीलं दशोनसिम् ॥ १०.४.१७ ॥
因陀罗为我降伏了蛇——斑蛇与斑蛇雌者亦然;斯瓦贾、斜纹者、卡萨尔尼拉、十鼻者。
10.4.18
इन्द्रो जघान प्रथमं जनितारमहे तव ।
तेषामु तृह्यमाणानां कः स्वित्तेषामसद्रसः ॥ १०.४.१८ ॥
因陀罗首先击杀了你的始祖蛇。在那些被碾碎者之中,他们的精华将属于谁呢?
10.4.19
सं हि शीर्षाण्यग्रभं पौञ्जिष्ठ इव कर्वरम् ।
सिन्धोर्मध्यं परेत्य व्यनिजमहेर्विषम् ॥ १०.४.१९ ॥
我像洗工抓住花斑之物那样,抓住了蛇的头。走到河中央,我洗去了蛇的毒。
10.4.20
अहीनां सर्वेषां विषं परा वहन्तु सिन्धवः ।
हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ॥ १०.४.२० ॥
愿河流把一切蛇的毒带走。曲行的蛇已被打倒;鲍达矩蛇已被碾碎。
10.4.21
ओषधीनामहं वृण उर्वरीरिव साधुया ।
नयाम्यर्वतीरिवाहे निरैतु विषम् ॥ १०.४.२१ ॥
我挑选草药,如同挑选肥沃的田地;我引导它们,如同驱赶母马。蛇啊,愿毒液排出!
10.4.22
यदग्नौ सूर्ये विषं पृथिव्यामोषधीषु यत् ।
कान्दाविषं कनक्नकं निरैत्वैतु ते विषम् ॥ १०.४.२२ ॥
火中、太阳中、大地中、草药中的毒,坎达毒与卡纳克纳卡毒,愿它排出;愿你的毒排出。
10.4.23
ये अग्निजा ओषधिजा अहीनां ये अप्सुजा विद्युत आबभूवुः ।
येषां जातानि बहुधा महान्ति तेभ्यः सर्पेभ्यो नमसा विधेम ॥ १०.४.२३ ॥
那些生于火、生于草药,以水中所生闪电之形出现的蛇,它们的大族类众多——愿我们以敬礼向那些蛇致敬。
10.4.24
तौदी नामासि कन्या घृताची नाम वा असि ।
अधस्पदेन ते पदमा ददे विषदूषणम् ॥ १०.४.२४ ॥
你是名叫陶迪的少女,或名叫酥陀奇。我以下足握住你的足,除毒的女子啊!
10.4.25
अङ्गादङ्गात्प्र च्यावय हृदयं परि वर्जय ।
अधा विषस्य यत्तेजोऽवाचीनं तदेतु ते ॥ १०.४.२५ ॥
从肢体到肢体驱除毒液;将其彻底从心中去除。然后,毒液之力,愿它向下、向后,离你而去。
10.4.26
आरे अभूद्विषमरौद्विषे विषमप्रागपि ।
अग्निर्विषमहेर्निरधात्सोमो निरणयीत् ।
दंष्टारमन्वगाद्विषमहिरमृत ॥ १०.४.२६ ॥
毒已远去;毒离开了毒,也向前走去。阿耆尼抛出了蛇的毒;苏摩将它引出。毒随着咬人的毒牙而去;蛇变得不死了。