Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 10.6

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

10.6.1

अरातीयोर्भ्रातृव्यस्य दुर्हार्दो द्विषतः शिरः ।
अपि वृश्चाम्योजसा ॥ १०.६.१ ॥

我以力量(ojas)斩断那吝啬的敌人、兄弟之敌、心怀恶意与仇恨者之首。

10.6.2

वर्म मह्यमयं मणिः फालाज्जातः करिष्यति ।
पूर्णो मन्थेन मागमद्रसेन सह वर्चसा ॥ १०.६.२ ॥

此宝珠将成为我的铠甲;它生于犁头,充满搅拌之饮、汁液与光辉(varcas),已来到我身边。

10.6.3

यत्त्वा शिक्वः परावधीत्तक्षा हस्तेन वास्या ।
आपस्त्वा तस्मज्जीवलाः पुनन्तु शुचयः शुचिम् ॥ १०.६.३ ॥

当切割者,即木匠以手持斧砍伤你时,愿那纯净而能生命的水净化你。

10.6.4

हिरण्यस्रगयं मणिः श्रद्धां यज्ञं महो दधत् ।
गृहे वसतु नोऽतिथिः ॥ १०.६.४ ॥

此宝珠佩戴金色花环,承载信仰、祭祀与伟大,愿它作为客人居于我们的家中。

10.6.5

तस्मै घृतं सुरं मध्वन्नमन्नं क्षदामहे ।
स नः पितेव पुत्रेभ्यः श्रेयःश्रेयश्चिकित्सतु भूयोभूयः श्वःश्वो देवेभ्यो मणिरेत्य ॥ १०.६.५ ॥

我们向他供奉酥油、苏罗、蜜食与饭食。愿他如父亲待子女那样,为我们日益增添福祉;此宝珠来自诸神,愿它日复一日地治愈我们。

10.6.6

यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
तमग्निः प्रत्यमुञ्चत सो अस्मै दुह आज्यं भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥ १०.६.६ ॥

布利哈斯帕蒂为力量而系的宝珠——由犁头所出,滴落酥油,取自凶猛的卡迪罗木——阿耆尼将它佩戴于他身上。它为他一次又一次、日复一日地挤出澄清酥油;愿你借此击杀仇恨的敌人。

10.6.7

यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
तमिन्द्रः प्रत्यमुञ्चतौजसे वीर्याय कम् ।
सो अस्मै बलमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥ १०.६.७ ॥

布利哈斯帕蒂所系的宝石犁尖,滴着酥油,猛烈,以卡迪罗木制成,为了活力。因陀罗为活力、勇力与安乐而将其佩戴。它一次又一次、日复一日地赐予此人力量。你用它击杀憎恨你的敌人。

10.6.8

यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
तं सोमः प्रत्यमुञ्चत महे श्रोत्राय चक्षसे ।
सो अस्मै वर्च इद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥ १०.६.८ ॥

布利哈斯帕蒂所系的宝石犁尖,滴着酥油,猛烈,以卡迪罗木制成,为了活力。苏摩为了广大的听力与视力而将其系上。它一次又一次、日复一日地赐予此人光彩。你用它击杀憎恨你的敌人。

10.6.9

यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
तं सूर्यः प्रत्यमुञ्चत तेनेमा अजयद्दिशः ।
सो अस्मै भूतिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥ १०.६.९ ॥

布利哈斯帕蒂所系的宝石犁尖,滴着酥油,猛烈,以卡迪罗木制成,为了活力。太阳将其系上。他借此征服了诸方。它一次又一次、日复一日地赐予此人兴盛。你用它击杀憎恨你的敌人。

10.6.10

यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
तं बिभ्रच्चन्द्रमा मणिमसुराणां पुरोऽजयद्दानवानां हिरण्ययीः ।
सो अस्मै श्रियमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥ १०.६.१० ॥

布利哈斯帕蒂以之系缚的、滴酥油的猛烈卡迪罗犁,为增强力量;月神佩戴它,征服了阿修罗的金城与檀那婆。它一次又一次、日复一日地赐予他吉祥。你以此击杀仇恨者。

10.6.11

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।
सो अस्मै वाजिनमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥ १०.६.११ ॥

布利哈斯帕蒂为风、为迅疾者所系的护符,一次又一次、日复一日地赐予他力量。你以此击杀仇恨者。

10.6.12

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।
तेनेमां मणिना कृषिमश्विनावभि रक्षतः ।
स भिषग्भ्यां महो दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥ १०.६.१२ ॥

以布利哈斯帕蒂为风、为迅疾者所系的护符,双阿什文从四方守护此田。它一次又一次、日复一日地赐予两位医者伟大的力量。你以此击杀仇恨者。

10.6.13

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।
तं बिभ्रत्सविता मणिं तेनेदमजयत्स्वः ।
सो अस्मै सूनृतां दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥ १०.६.१३ ॥

布利哈斯帕蒂为风、为迅疾者所系的护符,萨维特利佩戴它,借此赢得了天界。它一次又一次、日复一日地赐予他真实的喜乐(sūnṛtā)。你以此击杀仇恨者。

10.6.14

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।
तमापो बिभ्रतीर्मणिं सदा धावन्त्यक्षिताः ।
स आभ्योऽमृतमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥ १०.६.१४ ॥

布利哈斯帕蒂为疾风系上的护符,不朽的水流always承载着它奔流。他日复一日、一再地为它们挤出不死之甘露;借此,你去击倒那些憎恨者。

10.6.15

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।
तं राजा वरुणो मणिं प्रत्यमुञ्चत शंभुवम् ।
सो अस्मै सत्यमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥ १०.६.१५ ॥

布利哈斯帕蒂为疾风系上的护符,国王伐楼拿将这吉祥的护符佩戴在身。他日复一日、一再地为他挤出真理;借此,你去击倒那些憎恨者。

10.6.16

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।
तं देवा बिभ्रतो मणिं सर्वांल्लोकान् युधाजयन् ।
स एभ्यो जितिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥ १०.६.१६ ॥

布利哈斯帕蒂为疾风系上的护符,诸神佩戴它,在战斗中征服了所有世界。他日复一日、一再地为他们挤出胜利;借此,你去击倒那些憎恨者。

10.6.17

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।
तमिमं देवता मणिं प्रत्यमुञ्चन्त शम्भुवम् ।
स आभ्यो विश्वमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥ १०.६.१७ ॥

布利哈斯帕蒂为疾风系上的护符,诸神将这吉祥的护符佩戴在身。他日复一日、一再地为他们挤出一切;借此,你去击倒那些憎恨者。

10.6.18

ऋतवस्तमबध्नतार्तवास्तमबध्नत ।
संवत्सरस्तं बद्ध्वा सर्वं भूतं वि रक्षति ॥ १०.६.१८ ॥

四季缚之,时节缚之;岁年既缚之,便护持一切有情。

10.6.19

अन्तर्देशा अबध्नत प्रदिशस्तमबध्नत ।
प्रजापतिसृष्टो मणिर्द्विषतो मेऽधरामकः ॥ १०.६.१९ ॥

中间之方缚之,诸方缚之;生主所造之护符,使我的仇敌坠落于下。

10.6.20

अथर्वाणो अबध्नताथर्वणा अबध्नत ।
तैर्मेदिनो अङ्गिरसो दस्यूनां बिभिदुः पुरस्तेन त्वं द्विषतो जहि ॥ १०.६.२० ॥

阿塞婆们缚之,阿塞婆那们缚之;借此,美丁与安吉罗斯们摧毁了达修的堡垒。以此,你去打击我的仇敌。

10.6.21

तं धाता प्रत्यमुञ्चत स भूतं व्यकल्पयत् ।
तेन त्वं द्विषतो जहि ॥ १०.६.२१ ॥

造物主(Dhātṛ)将之系上,他分别安排诸有情。以此,你去打击仇敌。

10.6.22

यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।
स मायं मणिरागमद्रसेन सह वर्चसा ॥ १०.६.२२ ॥

布利诃斯帕提为诸神缚之,以防阿修罗的护符,今晚带着精华与光辉来到。

10.6.23

यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।
स मायं मणिरागमत्सह गोभिरजाविभिरन्नेन प्रजया सह ॥ १०.६.२३ ॥

布利诃斯帕提为诸神缚之,以防阿修罗的护符,今晚带着牛、羊、食物与子嗣来到。

10.6.24

यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।
स मायं मणिरागमत्सह व्रीहियवाभ्यां महसा भूत्या सह ॥ १०.६.२४ ॥

布利哈斯帕蒂为诸神束缚阿修罗之居所所用的护符,已来到此处,与稻米和大麦同在,伴随威严与兴旺。

10.6.25

यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।
स मायं मणिरागमन् मधोर्घृतस्य धारया कीलालेन मणिः सह ॥ १०.६.२५ ॥

布利哈斯帕蒂为诸神束缚阿修罗之居所所用的护符,已来到此处,伴随蜂蜜与酥油之流,伴随甘露之汁,此护符。

10.6.26

यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।
स मायं मणिरागमदूर्जया पयसा सह द्रविणेन श्रिया सह ॥ १०.६.२६ ॥

布利哈斯帕蒂为诸神束缚阿修罗之居所所用的护符,已来到此处,伴随活力与乳汁,伴随财富与吉祥。

10.6.27

यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।
स मायं मणिरागमत्तेजसा त्विष्या सह यशसा कीर्त्या सह ॥ १०.६.२७ ॥

布利哈斯帕蒂为诸神束缚阿修罗之居所所用的护符,已来到此处,伴随光辉与明亮,伴随荣誉与名声。

10.6.28

यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।
स मायं मणिरागमत्सर्वाभिर्भूतिभिः सह ॥ १०.६.२८ ॥

布利哈斯帕蒂为诸神束缚阿修罗之居所所用的护符,已来到此处,伴随一切兴旺。

10.6.29

तमिमं देवता मणिं मह्यं ददतु पुष्टये ।
अभिभुं क्षत्रवर्धनं सपत्नदम्भनं मणिम् ॥ १०.६.२९ ॥

愿诸神为我赐予此护符以增益:能征服者,增长王权者,摧毁敌人者,此护符。

10.6.30

ब्रह्मणा तेजसा सह प्रति मुञ्चामि मे शिवम् ।
असपत्नः सपत्नहा सपत्नान् मेऽधरामकः ॥ १०.६.३० ॥

我以梵力与光辉为自己佩戴这吉祥的宝珠。我无敌,是敌人的杀手;请使我的敌人低下。

10.6.31

उत्तरं द्विषतो मामयं मणिः कृणोतु देवजाः ।
यस्य लोका इमे त्रयः पयो दुग्धमुपासते ।
स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥ १०.६.३१ ॥

愿这由诸神所生的宝珠使我高于憎恨我的人。愿那三界所享用其乳汁的宝珠,为了至上的尊荣而升于我的头顶。

10.6.32

यं देवाः पितरो मनुष्या उपजीवन्ति सर्वदा ।
स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥ १०.६.३२ ॥

愿诸神、祖先与人类永远所赖以生存的宝珠,为了至上的尊荣而升于我的头顶。

10.6.33

यथा बीजमुर्वरायां कृष्टे फालेन रोहति ।
एवा मयि प्रजा पशवोऽन्नमन्नं वि रोहतु ॥ १०.६.३३ ॥

如同种子在犁耕的肥沃土地中发芽,愿子嗣、牲畜与一重又一重的食物在我身中生长。

10.6.34

यस्मै त्वा यज्ञवर्धन मणे प्रत्यमुचं शिवम् ।
तं त्वं शतदक्षिण मणे श्रैष्ठ्याय जिन्वतात् ॥ १०.६.३४ ॥

增益祭祀的宝珠啊,我为之佩戴你以求吉祥的那人,百施的宝珠啊,请推动他走向至上的尊荣。

10.6.35

एतमिध्मं समाहितं जुषणो अग्ने प्रति हर्य होमैः ।
तस्मिन् विधेम सुमतिं स्वस्ति प्रजां चक्षुः पशून्त्समिद्धे जातवेदसि ब्रह्मणा ॥ १०.६.३५ ॥

啊,阿耆尼,请欣然接受这已妥善安放的柴薪,并以供品使你欢喜而接纳它。在熊熊燃烧的迦陀吠陀阿耆尼中,让我们以梵咒祈求善意、吉祥、子嗣、视力与牲畜。