Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 10.8

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

10.8.1

यो भूतं च भव्यं च सर्वं यश्चाधितिष्ठति ।
स्वर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥ १०.८.१ ॥

敬礼那长子梵,他是过去与未来的一切,统摄一切,唯有他拥有天界(svar)。

10.8.2

स्कम्भेनेमे विष्टभिते द्यौश्च भूमिश्च तिष्ठतः ।
स्कम्भ इदं सर्वमात्मन्वद्यत्प्राणन् निमिषच्च यत् ॥ १०.८.२ ॥

由这根支柱,天与地被支撑而分开并稳固屹立。支柱就是这一切:凡有气息的、呼吸的、眨眼的。

10.8.3

तिस्रो ह प्रजा अत्यायमायन् न्यन्या अर्कमभितोऽविशन्त ।
बृहन् ह तस्थौ रजसो विमानो हरितो हरिणीरा विवेश ॥ १०.८.३ ॥

三类众生确实向前行去;其余的在下方环绕太阳而入。广大者立为中间空间(rajas)的测量者;黄褐者进入了黄褐的母者之中。

10.8.4

द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत ।
तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला ये ॥ १०.८.४ ॥

十二辐轮,一个车轮,三个毂:谁真正知道它?那里钉着三百个钉子和六十根桩,永不移动。

10.8.5

इदं सवितर्वि जानीहि षड्यमा एक एकजः ।
तस्मिन् हापित्वमिच्छन्ते य एषामेक एकजः ॥ १०.८.५ ॥

萨维特里啊,请知晓此事:有六对双生,还有一位独生者。他们确实愿与他合一,这些双生中唯有此独生者。

10.8.6

आविः सन् निहितं गुहा जरन् नाम महत्पदम् ।
तत्रेदं सर्वमार्पितमेजत्प्राणत्प्रतिष्ठितम् ॥ १०.८.६ ॥

虽已显现,却藏于洞中的那伟大之位名为“老”(Jaran);一切皆系于彼:动者、有息者、安立者。

10.8.7

एकचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा ।
अर्धेन विश्वं भुवनं जजान यदस्यार्धं क्व तद्बभूव ॥ १०.८.७ ॥

一轮独自转动,一圈一边,有千个音节;前进也后退。它以一半生出了一切世界;它的另一半在哪里?

10.8.8

पञ्चवाही वहत्यग्रमेषां प्रष्टयो युक्ता अनुसंवहन्ति ।
अयातमस्य ददृशे न यातं परं नेदीयोऽवरं दवीयः ॥ १०.८.८ ॥

一辆五马之车在前载着它们;驾在旁侧的马在后拉着。可见其静止之形,不见其运行之态;远与近,下与更远。

10.8.9

तिर्यग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् ।
तदासत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः ॥ १०.८.९ ॥

一个侧开口、底朝上的杯子;其中安置着一切形相的荣耀。七位仙人一同坐在其上,成为它的大守护者。

10.8.10

या पुरस्ताद्युज्यते या च पश्चाद्या विश्वतो युज्यते या च सर्वतः ।
यया यज्ञः प्राङ्तायते तां त्वा पृच्छामि कतमा सर्चाम् ॥ १०.८.१० ॥

前面所系的,后面所系的,四面所系的,处处所系的,祭祀借以向前展开的——我问你:我应当触及的是哪一个?

10.8.11

यदेजति पतति यच्च तिष्ठति प्राणदप्राणन् निमिषच्च यद्भुवत् ।
तद्दाधार पृथिवीं विश्वरूपं तत्संभूय भवत्येकमेव ॥ १०.८.११ ॥

凡颤动、飞翔、静立者;凡有息、无息、眨眼而生成者——它承载着一切形相的大地;合而为一,成为唯一。

10.8.12

अनन्तं विततं पुरुत्रानन्तमन्तवच्चा समन्ते ।
ते नाकपालश्चरति विचिन्वन् विद्वान् भूतमुत भव्यमस्य ॥ १०.८.१२ ॥

它无尽、遍布、延展于多处;无尽与有限,皆在四周。天穹的守护者游行寻索,知晓其过去与未来。

10.8.13

प्रजापतिश्चरति गर्भे अन्तरदृश्यमानो बहुधा वि जायते ।
अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः ॥ १०.८.१३ ॥

生主在胎中游行,不可见,以多种方式而生。以一半他生出了整个世界;他那另一半是何标记?

10.8.14

ऊर्ध्वं भरन्तमुदकं कुम्भेनेवोदहार्यम् ।
पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः ॥ १०.८.१४ ॥

如以瓶汲水向上,他向上承载着水。众人以眼睛看见,却并非众人以心意知晓。

10.8.15

दूरे पूर्णेन वसति दूर ऊनेन हीयते ।
महद्यक्षं भुवनस्य मध्ये तस्मै बलिं राष्ट्रभृतो भरन्ति ॥ १०.८.१५ ॥

远处他与圆满同居;远处他因缺失而减损。世界中央有大神灵;为他,护持国家者献上祭品。

10.8.16

यतः सूर्यः उदेत्यस्तं यत्र च गच्छति ।
तदेव मन्येऽहं ज्येष्ठं तदु नात्येति किं चन ॥ १०.८.१६ ॥

太阳从何升起,又往何处落下,我以之为至尊;无物能超越它。

10.8.17

ये अर्वाङ्मध्य उत वा पुराणं वेदं विद्वांसमभितो वदन्ति ।
आदित्यमेव ते परि वदन्ति सर्वे अग्निं द्वितीयं त्रिवृतं च हंसम् ॥ १०.८.१७ ॥

那些在此方、在中间、或四周谈论古老吠陀之智者的人,都只谈论太阳;其次谈论火神、三重者与天鹅。

10.8.18

सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।
स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥ १०.८.१८ ॥

它的两翼伸展千日,是飞翔的青黄色天鹅之翼;它飞向天界。它将诸神置于胸中,细心observe,前往一切世界。

10.8.19

सत्येनोर्ध्वस्तपति ब्रह्मणार्वाङ्वि पश्यति ।
प्राणेन तिर्यङ्प्राणति यस्मिन् ज्येष्ठमधि श्रितम् ॥ १०.८.१९ ॥

以真理,它向上燃烧;以梵力,它也向下观看。以气息,它横向呼吸,那最高者依于其中。

10.8.20

यो वै ते विद्यादरणी याभ्यां निर्मथ्यते वसु ।
स विद्वान् ज्येष्ठं मन्येत स विद्याद्ब्राह्मणं महत् ॥ १०.८.२० ॥

知晓你那两根钻木之木,由之钻出财富者,应被视为智者中最优秀的;他应当知晓伟大的梵。

10.8.21

अपादग्रे समभवत्सो अग्रे स्वराभरत् ।
चतुष्पाद्भूत्वा भोग्यः सर्वमादत्त भोजनम् ॥ १०.८.२१ ॥

起初它无足而生;先它带来了光明。成为四足、可供享用之后,它获取了所有食物。

10.8.22

भोग्यो भवदथो अन्नमदद्बहु ।
यो देवमुत्तरावन्तमुपासातै सनातनम् ॥ १०.८.२२ ॥

成为可享用之物,它获得了大量食物。崇拜那更高的、永恒之神的人——

10.8.23

सनातनमेनमाहुरुताद्य स्यात्पुनर्णवः ।
अहोरात्रे प्र जायेते अन्यो अन्यस्य रूपयोः ॥ १०.८.२३ ॥

人们称之为永恒;愿它今日再次更新。白昼与黑夜生起,一者以另一者的形相而生。

10.8.24

शतं सहस्रमयुतं न्यर्बुदमसंख्येयं स्वमस्मिन् निविष्टम् ।
तदस्य घ्नन्त्यभिपश्यत एव तस्माद्देवो रोचतेष एतत् ॥ १०.८.२४ ॥

百、千、万、亿、无数——其中安立的自身一份。为观看者,它们击打它;因此此神闪耀,此即是此。

10.8.25

बालादेकमणीयस्कमुतैकं नेव दृश्यते ।
ततः परिष्वजीयसी देवता सा मम प्रिया ॥ १०.८.२५ ॥

一物细于发梢,另一物似乎不可见。那更紧拥抱的女神是我所爱。

10.8.26

इयं कल्याण्यजरा मर्त्यस्यामृता गृहे ।
यस्मै कृता शये स यश्चकार जजार सः ॥ १०.८.२६ ॥

此吉祥者无老,在凡人家中为不死。我与为其所造者同卧;造她的人却衰老。

10.8.27

त्वं स्त्री त्वं पुमान् असि त्वं कुमार उत वा कुमारी ।
त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥ १०.८.२७ ॥

你是女,你是男;你是少年或少女。你是拄杖蹒跚的老者;你生而成为面向一切方向者。

10.8.28

उतैषां पितोत वा पुत्र एषामुतैषां ज्येष्ठ उत वा कनिष्ठः ।
एको ह देवो मनसि प्रविष्टः प्रथमो जातः स उ गर्भे अन्तः ॥ १०.८.२८ ॥

其中为父,或为子;其中为长,或为幼。唯一之神已入心中;先生者即是他,在胎中者亦是他。

10.8.29

पूर्णात्पूर्णमुदचति पूर्णं पूर्णेन सिच्यते ।
उतो तदद्य विद्याम यतस्तत्परिषिच्यते ॥ १०.८.२९ ॥

从充盈中汲出充盈;以充盈注出充盈。愿我们今日知晓,它从何处被注出。

10.8.30

एषा सनत्नी सनमेव जातैषा पुराणी परि सर्वं बभूव ।
मही देव्युषसो विभाती सैकेनैकेन मिषता वि चष्टे ॥ १०.८.३० ॥

此者永恒,自古而生;此者古老,已遍及一切。伟大的女神乌莎光辉照耀,以每一次眨眼之间注视。

10.8.31

अविर्वै नाम देवतर्तेनास्ते परीवृता ।
तस्या रूपेणेमे वृक्षा हरिता हरितस्रजः ॥ १०.८.३१ ॥

名为阿维尔的女神以天则(ṛta)为衣而居;由于她的形相,这些树木青翠,系着绿色花环。

10.8.32

अन्ति सन्तं न जहात्यन्ति सन्तं न पश्यति ।
देवस्य पश्य काव्यं न ममार न जीर्यति ॥ १०.८.३२ ॥

它不离弃近在身旁的人,也看不见近在身旁的人。请看神的诗篇:它不死,也不衰老。

10.8.33

अपूर्वेणेषिता वाचस्ता वदन्ति यथायथम् ।
वदन्तीर्यत्र गच्छन्ति तदाहुर्ब्राह्मणं महत् ॥ १०.८.३३ ॥

受无比者所驱使的言语,各自依其所宜而言;它们言说着前往之处,人们称之为伟大的梵。

10.8.34

यत्र देवाश्च मनुष्याश्चारा नाभाविव श्रिताः ।
अपां त्वा पुष्पं पृछामि यत्र तन् मायया हितम् ॥ १०.८.३४ ॥

诸神与人类所依附之处,如辐条附于轴心——水之花,我问你:那被幻力(māyā)所置放者在何处?

10.8.35

येभिर्वात इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः ।
य आहुतिमत्यमन्यन्त देवा अपां नेतारः कतमे त आसन् ॥ १०.८.३५ ॥

风由谁所驱而吹动,谁将五方共同执持?以祭品为骏马之诸神,水之引导者,他们究竟是谁?

10.8.36

इमामेषां पृथिवीं वस्त एकोऽन्तरिक्षं पर्येको बभूव ।
दिवमेषां ददते यो विधर्ता विश्वा आशाः प्रति रक्षन्त्येके ॥ १०.८.३६ ॥

其中一位覆盖了这大地,在虚空中他独自成为了一。其中执持者托住天空;也有一些守护着所有方位。

10.8.37

यो विद्यात्सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः ।
सूत्रं सूत्रस्य यो विद्याद्स विद्याद्ब्राह्मणं महत् ॥ १०.८.३७ ॥

谁知道这条伸展的线,这些众生被串联其上;谁知道线的线,就让他去知道那伟大的梵。

10.8.38

वेदाहं सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः ।
सूत्रं सूत्रस्याहं वेदाथो यद्ब्राह्मणं महद् ॥ १०.८.३८ ॥

我知道这些众生被串联其上的那条伸展之线;我知道线的线,也知道那伟大的梵。

10.8.39

यदन्तरा द्यावापृथिवी अग्निरैत्प्रदहन् विश्वदाव्यः ।
यत्रातिष्ठन्न् एकपत्नीः परस्तात्क्वेवासीन् मातरिश्वा तदानीम् ॥ १०.८.३९ ॥

当焚烧一切的阿耆尼在天地之间燃烧前行时,在那些一夫之妻站立之处,那时摩多利莎又在哪里?

10.8.40

अप्स्वासीन् मातरिश्वा प्रविष्टः प्रविष्टा देवाः सलिलान्यासन् ।
बृहन् ह तस्थौ रजसो विमानः पवमानो हरित आ विवेश ॥ १०.८.४० ॥

摩多利莎已进入水中;诸神也进入了,那里有水。他广大地站立,成为虚空的测量者;他净化着,进入了绿色之域。

10.8.41

उत्तरेणेव गयत्रीममृतेऽधि वि चक्रमे ।
साम्ना ये साम संविदुरजस्तद्ददृशे क्व ॥ १०.८.४१ ॥

仿佛从北方而来,伽耶特利在不死之上分开地迈步。以娑摩认知娑摩的人们:那不生者在哪里可见?

10.8.42

निवेशनः संगमनो वसूनां देव इव सविता सत्यधर्मा ।
इन्द्रो न तस्थौ समरे धनानाम् ॥ १०.८.४२ ॥

他是诸财富的确立者与聚集者,如同以真理为法的萨维特里神;他如因陀罗一般屹立于争夺财富的战场。

10.8.43

पुण्डरीकं नवद्वारं त्रिभिर्गुणेभिरावृतम् ।
तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥ १०.८.४३ ॥

九门的莲花,被三股丝线所包裹;其中有具备自我的神秘者,唯有梵的知者才真正知晓。

10.8.44

अकामो धीरो अमृतः स्वयंभू रसेन तृप्तो न कुतश्चनोनः ।
तमेव विद्वान् न बिभाय मृत्योरात्मानं धीरमजरं युवानम् ॥ १०.८.४४ ॥

无欲、坚定、不死、自生,以其精华而满足,从任何方面都不缺少;知晓他的智者不畏惧死亡,因为他知道那坚定、不老、年轻的自我。