Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 11.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

11.1.1

अग्ने जायस्वादितिर्नाथितेयं ब्रह्मौदनं पचति पुत्रकामा ।
सप्तऋषयो भूतकृतस्ते त्वा मन्थन्तु प्रजया सहेह ॥ ११.१.१ ॥

啊阿耆尼,诞生吧!此阿底提,被祈求的护佑者,为求子而煮梵饭。愿创造众生的七仙在此与子嗣一同搅动你。

11.1.2

कृणुत धूमं वृषणः सखायोऽद्रोघाविता वाचमच्छ ।
अयमग्निः पृतनाषाट्सुवीरो येन देवा असहन्त दस्यून् ॥ ११.१.२ ॥

啊勇健的朋友们,向无欺的护佑之言升起烟雾!此阿耆尼能胜敌军,有良好的勇士;凭借他,诸神战胜了达休们。

11.1.3

अग्नेऽजनिष्ठा महते वीर्याय ब्रह्मौदनाय पक्तवे जातवेदः ।
सप्तऋषयो भूतकृतस्ते त्वाजीजनन्न् अस्यै रयिं सर्ववीरं नि यच्छ ॥ ११.१.३ ॥

啊阿耆尼,你为伟大的力量而生,为煮梵饭而生;啊迦陀毗陀,创造众生的七仙生育了你。请赐予她连同诸勇士的财富。

11.1.4

समिद्धो अग्ने समिधा समिध्यस्व विद्वान् देवान् यज्ञियामेह वक्षः ।
तेभ्यो हविः श्रपयं जातवेद उत्तमं नाकमधि रोहयेमम् ॥ ११.१.४ ॥

啊阿耆尼,以柴薪点燃的你,请自燃;有智慧的你,请将值得祭祀的诸神带到此处。啊迦陀毗陀,为他们煮好的祭物已备;请将此人提升至最高的天界。

11.1.5

त्रेधा भागो निहितो यः पुरा वो देवानां पितॄणां मर्त्यानाम् ।
अंशां जानीध्वं वि भजामि तान् वो यो देवानां स इमां पारयाति ॥ ११.१.५ ॥

往昔为你们——诸神、祖先与凡人——所置的三分之份,请知晓你们的份额;我为你们分配。诸神中那位能将此渡过的,便是他。

11.1.6

अग्ने सहस्वान् अभिभूरभीदसि नीचो न्युब्ज द्विषतः सपत्नान् ।
इयं मात्रा मीयमाना मिता च सजातांस्ते बलिहृतः कृणोतु ॥ ११.१.६ ॥

啊,阿耆尼,你强大而战胜一切;请把怀有敌意的对手推倒、颠覆。愿这已量定、已确立的量,使你的同族成为献上祭品者。

11.1.7

साकं सजातैः पयसा सहैध्युदुब्जैनां महते वीर्याय ।
ऊर्ध्वो नाकस्याधि रोह विष्टपं स्वर्गो लोक इति यं वदन्ति ॥ ११.१.७ ॥

与你的同族、与乳(营养)共处;为了伟大的力量将她高高扶起。登上天界之上,那被人们称为天界的世界。

11.1.8

इयं मही प्रति गृह्णातु चर्म पृथिवी देवी सुमनस्यमाना ।
अथ गच्छेम सुकृतस्य लोकम् ॥ ११.१.८ ॥

愿这位伟大的大地女神心怀善意,接受这张皮;然后我们便往善行之界而去。

11.1.9

एतौ ग्रावाणौ सयुजा युङ्धि चर्मणि निर्बिन्ध्यंशून् यजमानाय साधु ।
अवघ्नती नि जहि य इमां पृतन्यव ऊर्ध्वं प्रजामुद्भरन्त्युदूह ॥ ११.१.९ ॥

把这两块压石在皮上连在一起;为祭主把苏摩的茎好好刺穿。把那想要战斗而来的敌人打倒杀死;把那些高举子嗣的人高高举起。

11.1.10

गृहाण ग्रावाणौ सकृतौ वीर हस्त आ ते देवा यज्ञिया यज्ञमगुः ।
त्रयो वरा यतमांस्त्वं वृणीषे तास्ते समृद्धीरिह राधयामि ॥ ११.१.१० ॥

啊,勇士,用你的手握住这两块做得很好的压石;值得祭祀的诸神已来到你的祭祀。三件恩赐中你选择哪一件,那些兴旺我便在此为你成就。

11.1.11

इयं ते धीतिरिदमु ते जनित्रं गृह्णातु त्वामदितिः शूरपुत्रा ।
परा पुनीहि य इमां पृतन्यवोऽस्यै रयिं सर्ववीरं नि यच्छ ॥ ११.१.११ ॥

此乃你的慧心,此乃你的生身之处;愿生有英雄之子的阿底提接纳你。凡求战而污染她者,驱之远去;为她稳固地赐予与众英雄相伴的财富。

11.1.12

उपश्वसे द्रुवये सीदता यूयं वि विच्यध्वं यज्ञियासस्तुषैः ।
श्रिया समानान् अति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि ॥ ११.१.१२ ॥

为近息者与德鲁维而坐;诸位配得祭祀者,请与糠壳分离。愿我以荣光超越一切同等之人;我使憎恨者跌落至低下之处。

11.1.13

परेहि नारि पुनरेहि क्षिप्रमपां त्वा गोष्ठो अध्यरुक्षद्भराय ।
तासां गृह्णीताद्यतमा यज्ञिया असन् विभाज्य धीरीतरा जहीतात् ॥ ११.१.१३ ॥

女子啊,离去吧,再快快归来;水之圈栏已为供养而环绕你。从她们中取今日堪为祭祀者;分开之后,让有智慧者舍弃另一位。

11.1.14

एमा अगुर्योषितः शुम्भमाना उत्तिष्ठ नारि तवसं रभस्व ।
सुपत्नी पत्या प्रजया प्रजावत्या त्वागन् यज्ञः प्रति कुम्भं गृभाय ॥ ११.१.१४ ॥

这些光彩照人的女子已经到来;女子啊,起身,握住那有力者。与夫为善妻,与子嗣为多子之母;祭祀已来到你身边,取那瓮罐。

11.1.15

ऊर्जो भागो निहितो यः पुरा व ऋषिप्रशिष्टाप आ भरैताः ।
अयं यज्ञो गातुविन् नाथवित्प्रजाविदुग्रः पशुविद्वीरविद्वो अस्तु ॥ ११.१.१५ ॥

往昔为你们安置的生机之分——请将圣仙所授的那些水带到这里。愿此祭祀知道道路,知道庇护,知道子嗣,有力,知道牲畜,知道英雄。

11.1.16

अग्ने चरुर्यज्ञियस्त्वाध्यरुक्षच्छुचिस्तपिष्ठस्तपसा तपैनम् ।
आर्षेया दैवा अभिसंगत्य भागमिमं तपिष्ठा ऋतुभिस्तपन्तु ॥ ११.१.१६ ॥

祭祀之鼎,适于献祭,清净而极热,已登临于你之上;愿阿耆尼以其热力加热之。愿仙人的神圣后裔来到此分份之处,随四季将其大加烧热。

11.1.17

शुद्धाः पूता योषितो यज्ञिया इमा आपश्चरुमव सर्पन्तु शुभ्राः ।
अदुः प्रजां बहुलां पशून् नः पक्तौदनस्य सुकृतामेतु लोकम् ॥ ११.१.१७ ॥

愿这些清净、洁白、适于献祭的妇人与诸水,明亮地流淌于鼎下。愿她们赐予我们众多的子嗣与牲畜;煮好奥丹那后,愿人抵达善行者之界。

11.1.18

ब्रह्मणा शुद्धा उत पूता घृतेन सोमस्यांशवस्तण्डुला यज्ञिया इमे ।
अपः प्र विशत प्रति गृह्णातु वश्चरुरिमं पक्त्वा सुकृतामेत लोकम् ॥ ११.१.१८ ॥

以梵咒净化,清净,带有酥油与苏摩之分,这些米粒适于献祭。哦,诸水,进入吧;愿鼎接纳你们。煮好此物后,愿人往善行者之界而去。

11.1.19

उरुः प्रथस्व महता महिम्ना सहस्रपृष्ठः सुकृतस्य लोके ।
पितामहाः पितरः प्रजोपजाहं पक्ता पञ्चदशस्ते अस्मि ॥ ११.१.१९ ॥

奥丹那啊,以你伟大的威力广大展开;千背者,在善行者之界展开。祖父与父亲,生育子嗣者,我为你是第十五位烹煮者。

11.1.20

सहस्रपृष्ठः शतधारो अक्षितो ब्रह्मौदनो देवयानः स्वर्गः ।
अमूंस्त आ दधामि प्रजया रेषयैनान् बलिहाराय मृडतान् मह्यमेव ॥ ११.१.२० ॥

你是千背、百流、不朽的梵奥丹那,诸神之道,天界。我将他们与子嗣、财富一同置于你之中;愿他们仅对我这献祭者施以恩惠。

11.1.21

उदेहि वेदिं प्रजया वर्धयैनां नुदस्व रक्षः प्रतरं धेह्येनाम् ।
श्रिया समानान् अति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि ॥ ११.१.२१ ॥

起来,登上祭坛;以子嗣使她增长;驱逐罗刹,使她更远离。愿我们以吉祥胜过一切同等者;我使憎恨者踏于脚下。

11.1.22

अभ्यावर्तस्व पशुभिः सहैनां प्रत्यङ्ङेनां देवताभिः सहैधि ।
मा त्वा प्रापच्छपथो माभिचारः स्वे क्षेत्रे अनमीवा वि राज ॥ ११.१.२२ ॥

与牲畜一同转向她;回身后与诸神同在。愿诅咒不及于你,巫蛊不及于你;在自己的田地中无病地光辉闪耀。

11.1.23

ऋतेन तष्टा मनसा हितैषा ब्रह्मौदनस्य विहिता वेदिरग्रे ।
अंसद्रीं शुद्धामुप धेहि नारि तत्रौदनं सादय दैवानाम् ॥ ११.१.२३ ॥

此祭坛由ṛta塑造,以心意善妥安放,最初便为梵饭(brahmaudana)而设。女子啊,将肩形的洁净勺置于近旁;在那里安放诸神的饭食。

11.1.24

अदितेर्हस्तां स्रुचमेतां द्वितीयां सप्तऋषयो भूतकृतो यामकृण्वन् ।
सा गात्राणि विदुष्योदनस्य दर्विर्वेद्यामध्येनं चिनोतु ॥ ११.१.२४ ॥

此第二件勺,形如阿底提之手,乃造作众生的七仙所作。她是知晓梵饭诸肢的木勺;愿她在祭坛上将其堆起。

11.1.25

शृतं त्वा हव्यमुप सीदन्तु दैवा निःसृप्याग्नेः पुनरेनान् प्र सीद ।
सोमेन पूतो जठरे सीद ब्रह्मणामार्षेयास्ते मा रिषन् प्राशितारः ॥ ११.१.२५ ॥

熟食供物啊,愿诸神坐于你旁。从火中出来,再将他们安置。以苏摩清净,坐于腹中;与梵同坐。愿你的仙裔先祖不伤害食用者。

11.1.26

सोम राजन्त्संज्ञानमा वपैभ्यः सुब्राह्मणा यतमे त्वोपसीदान् ।
ऋषीन् आर्षेयांस्तपसोऽधि जातान् ब्रह्मौदने सुहवा जोहवीमि ॥ ११.१.२६ ॥

啊,国王苏摩,为这些人播下觉知;凡善婆罗门近你而坐者,从苦行而生的仙人与仙裔,我在梵粥中一再呼请,易于召唤。

11.1.27

शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक्सादयामि ।
यत्काम इदमभिषिञ्चामि वोऽहमिन्द्रो मरुत्वान्त्स ददादिदं मे ॥ ११.१.२७ ॥

清净、纯洁、堪为祭祀之妇人,我将她们分别安置在婆罗门手中;我以何愿望向你们洒此,愿与摩禄多同在的因陀罗将那赐予我。

11.1.28

इदं मे ज्योतिरमृतं हिरण्यं पक्वं क्षेत्रात्कामदुघा म एषा ।
इदं धनं नि दधे ब्राह्मणेषु कृण्वे पन्थां पितृषु यः स्वर्गः ॥ ११.१.२८ ॥

此乃我不死之光、黄金、田中成熟之谷;此乃如意牛於我。我将此财富置于婆罗门之间,为祖先开辟通往天界之路。

11.1.29

अग्नौ तुषान् आ वप जातवेदसि परः कम्बूकामप मृड्ढि दूरम् ।
एतं शुश्रुम गृहराजस्य भागमथो विद्म निर्ऋतेर्भागधेयम् ॥ ११.१.२९ ॥

将糠秕撒入迦塔吠陀阿耆尼之中;将甘布迦远远驱除。我们听闻此为家王之分,亦知尼厘底所得之份。

11.1.30

श्राम्यतः पचतो विद्धि सुन्वतः पन्थां स्वर्गमधि रोहयैनम् ।
येन रोहात्परमापद्य यद्वय उत्तमं नाकं परमं व्योम ॥ ११.१.३० ॥

识得那劳作、烹煮、榨取苏摩之人;引他升上天界之路,由此升登,得至上之寿力、至上之天界与最高之虚空。

11.1.31

बभ्रेरध्वर्यो मुखमेतद्वि मृड्ढ्याज्याय लोकं कृणुहि प्रविद्वान् ।
घृतेन गात्रानु सर्वा वि मृड्ढि कृण्वे पन्थां पितृषु यः स्वर्गः ॥ ११.१.३१ ॥

啊,祭司(adhvaryu),擦净这张棕色(odana)的脸;既然知晓,便为酥油造一个世界。用酥油擦净所有肢体;在祖先们之中,我开辟那通往天堂(svarga)的道路。

11.1.32

बभ्रे रक्षः समदमा वपैभ्योऽब्राह्मणा यतमे त्वोपसीदान् ।
पुरीषिणः प्रथमानाः पुरस्तादार्षेयास्ते मा रिषन् प्राशितारः ॥ ११.१.३२ ॥

啊,棕色者,从那一并吞食一切的罗刹身上切下一份;无论哪些非婆罗门来坐在你身边,他们是餍足的、居前的仙裔;愿这些食用者不伤害我。

11.1.33

आर्षेयेषु नि दध ओदन त्वा नानार्षेयाणामप्यस्त्यत्र ।
अग्निर्मे गोप्ता मरुतश्च सर्वे विश्वे देवा अभि रक्षन्तु पक्वम् ॥ ११.१.३३ ॥

啊,粥饭(odana),我将你置于仙裔之中;此处亦有众多仙裔的份额。愿阿耆尼为我守护,愿诸风神(Marut)与一切众神(Viśvedevāḥ)守护这熟食。

11.1.34

यज्ञं दुहानं सदमित्प्रपीनं पुमांसं धेनुं सदनं रयीणाम् ।
प्रजामृतत्वमुत दीर्घमायू रायश्च पोषैरुप त्वा सदेम ॥ ११.१.३४ ॥

你是挤出祭祀的,常常丰满饱满、如雄牛般强健、如母牛般滋养、富财之居所;愿我们靠近你而坐,并得子嗣、不死、长寿、财富与滋养。

11.1.35

वृषभोऽसि स्वर्ग ऋषीन् आर्षेयान् गच्छ ।
सुकृतां लोके सीद तत्र नौ संस्कृतम् ॥ ११.१.३५ ॥

你是公牛,你是天堂;去往仙裔的诸仙那里。坐在善行者的世界里;在那里,为我们二者已备妥。

11.1.36

समाचिनुष्वानुसंप्रयाह्यग्ने पथः कल्पय देवयानान् ।
एतैः सुकृतैरनु गच्छेम यज्ञं नाके तिष्ठन्तमधि सप्तरश्मौ ॥ ११.१.३६ ॥

啊阿耆尼,聚集起来,前行,为诸神之道做好准备。愿我们借这些善行,追随安住于天界、在七光之上的祭祀。

11.1.37

येन देवा ज्योतिषा द्यामुदायन् ब्रह्मौदनं पक्त्वा सुकृतस्य लोकम् ।
तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम् ॥ ११.१.३७ ॥

诸神以那光明升上天空,煮成梵粥,达到善行之界,我们也借此光明前往善行之界,升上天界,走向至高的那伽。