Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 11.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

11.10.1

यन् मन्युर्जायामावहत्संकल्पस्य गृहादधि ।
क आसं जन्याः के वराः क उ ज्येष्ठवरोऽभवत् ॥ ११.१०.१ ॥

当Manyu从Saṃkalpa的家中迎娶其妻时,谁是女方亲属,谁是男方送亲者,谁成为了首席新郎?

11.10.2

तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे ।
त आसं जन्यास्ते वरा ब्रह्म ज्येष्ठवरोऽभवत् ॥ ११.१०.२ ॥

苦行与业行都在大海之中。它们是女方亲属,也是男方送亲者;梵成为了首席新郎。

11.10.3

दश साकमजायन्त देवा देवेभ्यः पुरा ।
यो वै तान् विद्यात्प्रत्यक्षं स वा अद्य महद्वदेत् ॥ ११.१०.३ ॥

十位神同时诞生,早于诸神。谁能亲见地认识他们,谁今天便可说出伟大的话语。

11.10.4

प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या ।
व्यानोदानौ वाङ्मनस्ते वा आकूतिमावहन् ॥ ११.१०.४ ॥

入息与出息,眼与耳,不坏者与大地,遍行气与上行气,语与意:它们带来了志向。

11.10.5

अजाता आसन्न् ऋतवोऽथो धाता बृहस्पतिः ।
इन्द्राग्नी अश्विना तर्हि कं ते ज्येष्ठमुपासत ॥ ११.१०.५ ॥

四时尚未生,建立者与梵主亦然;那时因陀罗、阿耆尼与双马童崇拜的是哪一位至尊?

11.10.6

तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे ।
तपो ह जज्ञे कर्मणस्तत्ते ज्येष्ठमुपासत ॥ ११.१०.६ ॥

苦行与业行都在大海之中。苦行确实生自业行;他们便崇拜那位至尊。

11.10.7

येत आसीद्भूमिः पूर्वा यामद्धातय इद्विदुः ।
यो वै तां विद्यान् नामथा स मन्येत पुराणवित् ॥ ११.१०.७ ॥

那最初的大地,连安立者(dhātṛ)也知晓。能知她并以名称呼她的人,应被视为通晓古事(purāṇa-vit)者。

11.10.8

कुत इन्द्रः कुतः सोमः कुतो अग्निरजायत ।
कुतस्त्वष्टा समभवत्कुतो धाताजायत ॥ ११.१०.८ ॥

因陀罗从何而生?苏摩从何而来?阿耆尼从何而生?特瓦什塔从何而成?安立者(Dhātar)从何而生?

11.10.9

इन्द्रादिन्द्रः सोमात्सोमो अग्नेरग्निरजायत ।
त्वष्टा ह जज्ञे त्वष्टुर्धातुर्धाताजायत ॥ ११.१०.९ ॥

由因陀罗生出因陀罗,由苏摩生出苏摩,由阿耆尼生出阿耆尼。特瓦什塔生成;由特瓦什塔与安立者,安立者生成。

11.10.10

ये त आसन् दश जाता देवा देवेभ्यः पुरा ।
पुत्रेभ्यो लोकं दत्त्वा कस्मिंस्ते लोक आसते ॥ ११.१०.१० ॥

你那十位从诸神中先前所生的神,将世界交给儿子之后,住在哪个世界里?

11.10.11

यदा केशान् अस्थि स्नाव मांसं मज्जानमाभरत् ।
शरीरं कृत्वा पादवत्कं लोकमनु प्राविशत् ॥ ११.१०.११ ॥

当他聚集毛发、骨、筋、肉与髓,造成一个有脚的身体之后,便进入了哪一个世界?

11.10.12

कुतः केशान् कुतः स्नाव कुतो अस्थीन्याभरत् ।
अङ्गा पर्वाणि मज्जानं को मांसं कुत आभरत् ॥ ११.१०.१२ ॥

毛发从何而来,筋从何而来,骨是从哪里取来的?肢体、关节与髓,是谁取来的?肉又是从哪里取来的?

11.10.13

संसिचो नाम ते देवा ये संभारान्त्समभरन् ।
सर्वं संसिच्य मर्त्यं देवाः पुरुषमाविशन् ॥ ११.१०.१३ ॥

那些名为桑西恰的诸神,聚集了材料;将一切倾注融合之后,诸神进入了有死的人。

11.10.14

ऊरू पादावष्ठीवन्तौ शिरो हस्तावथो मुखम् ।
पृष्टीर्बर्जह्ये पार्श्वे कस्तत्समदधादृषिः ॥ ११.१०.१४ ॥

两股,两足,两膝,头,两手,然后是面部;背上的肋骨与两侧——哪位仙人将这一切接合起来?

11.10.15

शिरो हस्तावथो मुखं जिह्वां ग्रीवाश्च कीकसाः ।
त्वचा प्रावृत्य सर्वं तत्संधा समदधान् मही ॥ ११.१०.१५ ॥

头,两手,然后是面部、舌头、颈项与锁骨——以皮肤覆盖一切之后,大地(Mahī)以关节将之全部接合。

11.10.16

यत्तच्छरीरमशयत्संधया संहितं महत् ।
येनेदमद्य रोचते को अस्मिन् वर्णमाभरत् ॥ ११.१०.१६ ॥

那具由关节相连而躺卧的伟大身体,因它今日才光辉照耀——是谁在其中放入了色泽?

11.10.17

सर्वे देवा उपाशिक्षन् तदजानाद्वधूः सती ।
ईशा वशस्य या जाया सास्मिन् वर्णमाभरत् ॥ ११.१०.१७ ॥

诸神都教导了它,那位忠贞的新娘便知晓了它。她是意志之主宰、妻子——是她在其中放入了色泽。

11.10.18

यदा त्वष्टा व्यतृणत्पिता त्वष्टुर्य उत्तरः ।
गृहं कृत्वा मर्त्यं देवाः पुरुषमाविशन् ॥ ११.१०.१८ ॥

当特瓦什德将其展开时——即特瓦什德之父、那位更高者——建成了居所,诸神便进入了有死的人。

11.10.19

स्वप्नो वै तन्द्रीर्निर्ऋतिः पाप्मानो नाम देवताः ।
जरा खालत्यं पालित्यं शरीरमनु प्राविशन् ॥ ११.१०.१९ ॥

睡眠、昏沉、尼厘底,以及名为波曼的神灵,还有衰老、秃顶和白发,都进入了身体。

11.10.20

स्तेयं दुष्कृतं वृजिनं सत्यं यज्ञो यशो बृहत् ।
बलं च क्षत्रमोजश्च शरीरमनु प्राविशन् ॥ ११.१०.२० ॥

窃盗、恶行、邪曲、真实、祭祀、大名声、力量、王权与活力,都进入了身体。

11.10.21

भूतिश्च वा अभूतिश्च रातयोऽरातयश्च याः ।
क्षुधश्च सर्वास्तृष्णाश्च शरीरमनु प्राविशन् ॥ ११.१०.२१ ॥

兴盛与衰败、施舍与吝啬,一切饥渴与一切贪欲,都进入了身体。

11.10.22

निन्दाश्च वा अनिन्दाश्च यच्च हन्तेति नेति च ।
शरीरं श्रद्धा दक्षिणाश्रद्धा चानु प्राविशन् ॥ ११.१०.२२ ॥

责难与赞美,所谓“杀”与“不”,身体、信心、祭礼的布施与无信,都进入了身体。

11.10.23

विद्याश्च वा अविद्याश्च यच्चान्यदुपदेश्यम् ।
शरीरं ब्रह्म प्राविशदृचः सामाथो यजुः ॥ ११.१०.२३ ॥

知识与无知,以及其他可教之事:梵进入身体;梨俱、娑摩与夜柔。

11.10.24

आनन्दा मोदाः प्रमुदोऽभीमोदमुदश्च ये ।
हसो नरिष्टा नृत्तानि शरीरमनु प्राविशन् ॥ ११.१०.२४ ॥

欢乐、喜悦、大喜、可畏之喜,笑声、节庆与舞蹈,都进入了身体。

11.10.25

आलापाश्च प्रलापाश्चाभीलापलपश्च ये ।
शरीरं सर्वे प्राविशन्न् आयुजः प्रयुजो युजः ॥ ११.१०.२५ ॥

言谈、闲话与甜蜜的喃喃之语,一切都进入了身体——未套之者与已套之者,已系之者与未系之者。

11.10.26

प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या ।
व्यानोदानौ वाङ्मनः शरीरेण त ईयन्ते ॥ ११.१०.२६ ॥

上气与下气,眼与耳,不坏者与坏者,凡所存在者;遍行气与上行气,言语与意——这些都随身体而行。

11.10.27

आशिषश्च प्रशिषश्च संशिषो विशिषश्च याः ।
चित्तानि सर्वे संकल्पाः शरीरमनु प्राविशन् ॥ ११.१०.२७ ॥

祝愿与强烈的期望,热切的愿望与特别的欲求,凡有的种种渴望;一切心念与决意都进入了身体。

11.10.28

आस्तेयीश्च वास्तेयीश्च त्वरणाः कृपणाश्च याः ।
गुह्याः शुक्रा स्थूला अपस्ता बीभत्सावसादयन् ॥ ११.१०.२८ ॥

窃取与家务之事,急躁与苦难,隐秘之物,光亮之物,粗重之物,不净与可憎之物——它们使身体沉落。

11.10.29

अस्थि कृत्वा समिधं तदष्टापो असादयन् ।
रेतः कृत्वाज्यं देवाः पुरुषमाविशन् ॥ ११.१०.२९ ॥

以骨为柴薪,置八水于其上;以精为酥油,诸神进入了人身。

11.10.30

या आपो याश्च देवता या विराड्ब्रह्मणा सह ।
शरीरं ब्रह्म प्राविशच्छरीरेऽधि प्रजापतिः ॥ ११.१०.३० ॥

诸水、诸神与与梵同在的毗罗吉——梵进入了身体;在身体之中,生主得以安住。

11.10.31

सूर्यश्चक्षुर्वातः प्राणं पुरुषस्य वि भेजिरे ।
अथास्येतरमात्मानं देवाः प्रायच्छन्न् अग्नये ॥ ११.१०.३१ ॥

太阳成为人的眼睛,风成为他的气息;它们被分配了。之后诸神将他的另一个自我交给了阿耆尼。

11.10.32

तस्माद्वै विद्वान् पुरुषमिदं ब्रह्मेति मन्यते ।
सर्वा ह्यस्मिन् देवता गावो गोष्ठ इवासते ॥ ११.१०.३२ ॥

因此智者视此人为梵,因为诸神都坐在他之中,如同牛群在牛栏中。

11.10.33

प्रथमेन प्रमारेण त्रेधा विष्वङ्वि गच्छति ।
अद एकेन गच्छत्यद एकेन गच्छतीहैकेन नि षेवते ॥ ११.१०.३३ ॥

以第一种尺度,他三重地遍布而行;以一重他去到那里,以一重他去到那里,以一重他安住于此。

11.10.34

अप्सु स्तीमासु वृद्धासु शरीरमन्तरा हितम् ।
तस्मिं छवोऽध्यन्तरा तस्माच्छवोऽध्युच्यते ॥ ११.१०.३४ ॥

在水中,在湿润增长的水中,身体被安置其间;其内有尸体,因此称之为尸体。