Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 11.11

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

11.11.1

ये बाहवो या इषवो धन्वनां वीर्याणि च ।
असीन् परशून् आयुधं चित्ताकूतं च यद्धृदि ।
सर्वं तदर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥ ११.११.१ ॥

那些手臂、那些箭、弓的威力、刀剑、斧头、武器,以及心中所藏的意念——阿尔布地啊,把这一切展示给敌人;也把库卢族人和慷慨者展示出来。

11.11.2

उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम् ।
संदृष्टा गुप्ता वः सन्तु या नो मित्राण्यर्बुदे ॥ ११.११.२ ॥

起来吧,武装自己,朋友们,你们是神族之人;愿那些作为我们盟友的人为你们所见、受你们守护,阿尔布地啊。

11.11.3

उत्तिष्ठतमा रभेतामादानसंदानाभ्याम् ।
अमित्राणां सेना अभि धत्तमर्बुदे ॥ ११.११.३ ॥

你们二人起来吧,以夺取与束缚之力执持;把敌人的军队挡在前面,阿尔布地啊。

11.11.4

अर्बुदिर्नाम यो देव ईशानश्च न्यर्बुदिः ।
याभ्यामन्तरिक्षमावृतमियं च पृथिवी मही ।
ताभ्यामिन्द्रमेदिभ्यामहं जितमन्वेमि सेनया ॥ ११.११.४ ॥

名为阿尔布地的神,以及主宰者尼阿尔布地——中间虚空与这大地皆被他们二者包裹;凭借这两股埃迪之力,我携军追随已被征服的因陀罗。

11.11.5

उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह ।
भञ्जन्न् अमित्राणां सेनां भोगेभिः परि वारय ॥ ११.११.५ ॥

起来吧,你,阿尔布地啊,神族之人,与军队同行;击破敌人的军队,以你的盘曲之身将其环绕阻挡。

11.11.6

सप्त जातान् न्यर्बुद उदाराणां समीक्षयन् ।
तेभिष्ट्वमाज्ये हुते सर्वैरुत्तिष्ठ सेनया ॥ ११.११.६ ॥

尼阿尔布达啊,你注视着慷慨者所生的七位,与他们一同,待酥油供奉之后,你与军队一起起来。

11.11.7

प्रतिघ्नानाश्रुमुखी कृधुकर्णी च क्रोशतु ।
विकेशी पुरुषे हते रदिते अर्बुदे तव ॥ ११.११.७ ॥

愿那回击者、泪面、耳朵低垂者哀号。当男子被杀时,披头散发,哦,拉迪蒂,哦,阿尔布迪,她是你的。

11.11.8

संकर्षन्ती करूकरं मनसा पुत्रमिच्छन्ती ।
पतिं भ्रातरमात्स्वान् रदिते अर्बुदे तव ॥ ११.११.८ ॥

拖着绳索,心中渴望儿子,渴望丈夫、兄弟和亲属,哦,拉迪蒂,哦,阿尔布迪,她是你的。

11.11.9

अलिक्लवा जाष्कमदा गृध्राः श्येनाः पतत्रिणः ।
ध्वाङ्क्षाः शकुनयस्तृप्यन्त्वमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥ ११.११.९ ॥

愿那肢体扭曲、因咒语而欢喜的、秃鹫、鹰、有翅之鸟、乌鸦及其他鸟类,望着敌人而饱足。哦,拉迪蒂,哦,阿尔布迪,这是你的。

11.11.10

अथो सर्वं श्वापदं मक्षिका तृप्यतु क्रिमिः ।
पौरुषेयेऽधि कुणपे रदिते अर्बुदे तव ॥ ११.११.१० ॥

还有一切猛兽、苍蝇和蛆虫,都在人的尸体上饱足。哦,拉迪蒂,哦,阿尔布迪,这是你的。

11.11.11

आ गृह्णीतं सं बृहतं प्राणापानान् न्यर्बुदे ।
निवाशा घोषाः सं यन्त्वमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥ ११.११.११ ॥

哦,阿尔布迪,愿两位大神在此擒住入息与出息。愿无声的呼号一同前往,望着敌人。哦,拉迪蒂,哦,阿尔布迪,这是你的。

11.11.12

उद्वेपय सं विजन्तां भियामित्रान्त्सं सृज ।
उरुग्राहैर्बाह्वङ्कैर्विध्यामित्रान् न्यर्बुदे ॥ ११.११.१२ ॥

使之颤抖;让他们因恐惧一同溃散。将敌人一并送去。用宽大的捕捉与臂钩刺穿敌人,哦,阿尔布迪。

11.11.13

मुह्यन्त्वेषां बाहवश्चित्ताकूतं च यद्धृदि ।
मैषामुच्छेषि किं चन रदिते अर्बुदे तव ॥ ११.११.१३ ॥

愿他们的臂膀迷乱,愿他们心中的意念与谋划也迷乱。愿他们之中不留下任何一个。撕裂者阿尔布提啊,这是你的事。

11.11.14

प्रतिघ्नानाः सं धावन्तूरः पटौरावाघ्नानाः ।
अघारिणीर्विकेश्यो रुदत्यः पुरुषे हते रदिते अर्बुदे तव ॥ ११.११.१४ ॥

愿他们回击着奔跑,拍打大腿与胸膛,敲响响亮的鼓。当男子被杀时,愿披头散发、哀哭的妇人们哭泣。撕裂者阿尔布提啊,这是你的事。

11.11.15

श्वन्वतीरप्सरसो रूपका उतार्बुदे ।
अन्तःपात्रे रेरिहतीं रिशां दुर्णिहितैषिणीम् ।
सर्वास्ता अर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥ ११.११.१५ ॥

如狗般的阿普萨拉斯与变形者,阿尔布提啊。在器皿中舔食的、受伤的、欲置于恶处的,她们一切,阿尔布提啊,请使她们对敌人显现,也显示那些尊贵者。

11.11.16

खडूरेऽधिचङ्क्रमां खर्विकां खर्ववासिनीम् ।
य उदारा अन्तर्हिता गन्धर्वाप्सरसश्च ये ।
सर्पा इतरजना रक्षांसि ॥ ११.११.१६ ॥

行走于卡都拉的矮小者,居于矮人之处的她。那些隐藏其中的尊贵乾闼婆与阿普萨拉斯,以及蛇、其他的人和罗刹。

11.11.17

चतुर्दंष्ट्रां छ्यावदतः कुम्भमुष्कामसृङ्मुखान् ।
स्वभ्यसा ये चोद्भ्यसाः ॥ ११.११.१७ ॥

四颗獠牙的、黑牙的、睾丸如瓶的、面带血色的。那些斯瓦布雅沙与乌德布雅沙。

11.11.18

उद्वेपय त्वमर्बुदेऽमित्राणाममूः सिचः ।
जयंश्च जिष्णुश्चामित्रां जयतामिन्द्रमेदिनौ ॥ ११.११.१८ ॥

阿尔布提啊,请使敌人的那些洪流颤抖。愿征服者与得胜者征服敌人;愿因陀罗与梅丁二者皆获胜。

11.11.19

प्रब्लीनो मृदितः शयां हतोऽमित्रो न्यर्बुदे ।
अग्निजिह्वा धूमशिखा जयन्तीर्यन्तु सेनया ॥ ११.११.१९ ॥

啊,阿尔浮提!愿敌人彻底消融、被碾碎、倒卧并被杀死。愿以火为舌、以烟为冠的得胜之军随着大军前进。

11.11.20

तयार्बुदे प्रणुत्तानामिन्द्रो हन्तु वरंवरम् ।
अमित्राणां शचीपतिर्मामीषां मोचि कश्चन ॥ ११.११.२० ॥

啊,阿尔浮提!愿因力量的缘故,因陀罗依次击杀被驱逐之敌中的最优者。啊,舍尼之主!愿这些敌人中无一人得以解脱。

11.11.21

उत्कसन्तु हृदयान्यूर्ध्वः प्राण उदीषतु ।
शौष्कास्यमनु वर्तताममित्रान् मोत मित्रिणः ॥ ११.११.२१ ॥

愿他们的心被撕裂,气息向上升起而离去。愿口干舌燥之状追随敌人,而非我们的朋友。

11.11.22

ये च धीरा ये चाधीराः पराञ्चो बधिराश्च ये ।
तमसा ये च तूपरा अथो बस्ताभिवासिनः ।
सर्वांस्तामर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥ ११.११.२२ ॥

无论是坚定的还是动摇的,背转身去的还是聋的,被黑暗笼罩、心智愚钝的,以及穿着山羊皮的——啊,阿尔浮提!请让他们全部显现于敌人面前;把那些膨胀者清楚地展示出来。

11.11.23

अर्बुदिश्च त्रिषन्धिश्चामित्रान् नो वि विध्यताम् ।
यथैषामिन्द्र वृत्रहन् हनाम शचीपतेऽमित्राणां सहस्रशः ॥ ११.११.२३ ॥

愿阿尔浮提与三结节穿透我们的敌人。啊,因陀罗,斩杀弗栗多者,舍尼之主!愿我们能成千上万地击杀这些敌人。

11.11.24

वनस्पतीन् वानस्पत्यान् ओषधीरुत वीरुधः ।
गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् ।
सर्वांस्तामर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥ ११.११.२४ ॥

树木、树生之物、草药与藤蔓,乾达婆与阿普萨拉斯,蛇,诸神,有功德之人与祖先——哦,阿尔布底,把他们全部展示给敌人;也把库鲁人与达罗人展示出来。

11.11.25

ईशां वो मरुतो देव आदित्यो ब्रह्मणस्पतिः ।
ईशां व इन्द्रश्चाग्निश्च धाता मित्रः प्रजापतिः ।
ईशां व ऋषयश्चक्रुरमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥ ११.११.२५ ॥

哦,众风神,你们的主宰是神阿迪提亚与梵主;你们的主宰是因陀罗与火神,还有建立者、密特拉与生主。在敌人之中使你们显现的诸仙人是你们的主宰;哦,被撕裂的阿尔布底,这属于你。

11.11.26

तेषां सर्वेषामीशाना उत्तिष्ठत सं नह्यध्वम् ।
मित्रा देवजना यूयमिमं संग्रामं संजित्य यथालोकं वि तिष्ठध्वम् ॥ ११.११.२६ ॥

起来成为他们所有人的主宰,披上铠甲。哦,朋友们,诸神之民,战胜这场战斗之后,各自安立于自己的世界。