Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 11.6

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

11.6.1

प्राणाय नमो यस्य सर्वमिदं वशे ।
यो भूतः सर्वस्येश्वरो यस्मिन्त्सर्वं प्रतिष्ठितम् ॥ ११.६.१ ॥

敬礼生气(Prāṇa),此一切皆在其掌控之中。敬礼那作为一切之主而存在、一切皆立于其中者。

11.6.2

नमस्ते प्राण क्रन्दाय नमस्ते स्तनयित्नवे ।
नमस्ते प्राण विद्युते नमस्ते प्राण वर्षते ॥ ११.६.२ ॥

敬礼你,生气(Prāṇa);敬礼那咆哮者。敬礼你,生气;敬礼那雷鸣者。敬礼你,生气;敬礼闪电。敬礼你,生气;敬礼那降雨者。

11.6.3

यत्प्राण स्तनयित्नुनाभिक्रन्दत्योषधीः ।
प्र वीयन्ते गर्भान् दधतेऽथो बह्वीर्वि जायन्ते ॥ ११.६.३ ॥

当生气(Prāṇa)伴随雷声咆哮于草药之上时,它们便向前生长,孕育胚芽,然后大量地诞生。

11.6.4

यत्प्राण ऋतावागतेऽभिक्रन्दत्योषधीः ।
सर्वं तदा प्र मोदते यत्किं च भूम्यामधि ॥ ११.६.४ ॥

当生气(Prāṇa)在应时而至之际咆哮于草药之上,地上所有的一切都欢喜。

11.6.5

यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम् ।
पशवस्तत्प्र मोदन्ते महो वै नो भविष्यति ॥ ११.६.५ ॥

当生气(Prāṇa)以雨水浇灌广大的大地时,牲畜便欢喜;我们必将获得大的丰饶。

11.6.6

अभिवृष्टा ओषधयः प्राणेन समवादिरन् ।
आयुर्वै नः प्रातीतरः सर्वा नः सुरभीरकः ॥ ११.६.६ ॥

被雨水浇灌的草药与生气(Prāṇa)一同说道:愿我们的寿命确实长久;使我们的一切芬芳甘甜。

11.6.7

नमस्ते अस्त्वायते नमो अस्तु परायते ।
नमस्ते प्राण तिष्ठत आसीनायोत ते नमः ॥ ११.६.७ ॥

敬礼于你,气息(Prāṇa)啊;来时敬礼于你,去时敬礼于你。立时敬礼于你,坐时亦敬礼于你。

11.6.8

नमस्ते प्राण प्राणते नमो अस्त्वपानते ।
पराचीनाय ते नमः प्रतीचीनाय ते नमः सर्वस्मै त इदं नमः ॥ ११.६.८ ॥

敬礼于你,气息(Prāṇa)啊;向你呼出气息者敬礼,向下行之Apāna敬礼。背向之你敬礼,面向之你敬礼;于一切者,敬礼于你此身。

11.6.9

या ते प्राण प्रिया तनूर्यो ते प्राण प्रेयसी ।
अथो यद्भेषजं तव तस्य नो धेहि जीवसे ॥ ११.६.९ ॥

气息啊,你所亲爱的身体;气息啊,你最为所爱者;又你所有的良药,请安置于我们之中,使我们得以长寿。

11.6.10

प्राणः प्रजा अनु वस्ते पिता पुत्रमिव प्रियम् ।
प्राणो ह सर्वस्येश्वरो यच्च प्राणति यच्च न ॥ ११.६.१० ॥

气息随顺众生而披覆之,如父亲披覆爱子。气息实为一切之主,无论其呼吸与否。

11.6.11

प्राणो मृत्युः प्राणस्तक्मा प्राणं देवा उपासते ।
प्राणो ह सत्यवादिनमुत्तमे लोक आ दधत् ॥ ११.६.११ ॥

气息即是死亡,气息即是热病;诸神崇拜气息。气息实能使说真话者安住于最高之界。

11.6.12

प्राणो विराट्प्राणो देष्ट्री प्राणं सर्व उपासते ।
प्राणो ह सूर्यश्चन्द्रमाः प्राणमाहुः प्रजापतिम् ॥ ११.६.१२ ॥

气息即是毗罗吉(Virāj),气息即是主宰之力;众生皆崇拜气息。气息实为太阳与月亮;人们称气息为生主(Prajāpati)。

11.6.13

प्राणापानौ व्रीहियवावनड्वान् प्राण उच्यते ।
यवे ह प्राण आहितोऽपानो व्रीहिरुच्यते ॥ ११.६.१३ ॥

气息(prāṇa)与下气(apāna)即稻与大麦;公牛被称为气息。气息安置于大麦之中;稻被称为下气。

11.6.14

अपानति प्राणति पुरुषो गर्भे अन्तरा ।
यदा त्वं प्राण जिन्वस्यथ स जायते पुनः ॥ ११.६.१४ ॥

人在胎中呼出与吸入。啊,气息,当你使之活动时,他便再次诞生。

11.6.15

प्राणमाहुर्मातरिश्वानं वातो ह प्राण उच्यते ।
प्राणे ह भूतं भव्यं च प्राणे सर्वं प्रतिष्ठितम् ॥ ११.६.१५ ॥

人们称气息为摩多利奢婆(Mātariśvan);风被称为气息。气息之中有过去与未来;气息之中一切得以安立。

11.6.16

आथर्वणीराङ्गिरसीर्दैवीर्मनुष्यजा उत ।
ओषधयः प्र जायन्ते यदा त्वं प्राण जिन्वसि ॥ ११.६.१६ ॥

阿闼婆之药、安吉罗之药、天生与人生之药皆生长,当你使之活动时,啊,气息。

11.6.17

यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम् ।
ओषधयः प्र जायन्तेऽथो याः काश्च वीरुधः ॥ ११.६.१७ ॥

当气息以雨水降落于广大大地之上,草药便生长,凡有的藤蔓也都生长。

11.6.18

यस्ते प्राणेदं वेद यस्मिंश्चासि प्रतिष्ठितः ।
सर्वे तस्मै बलिं हरान् अमुष्मिंल्लोक उत्तमे ॥ ११.६.१८ ॥

啊,气息,对于知晓你此事、并且你安住其中的人,愿众人在那至上的世界中为他奉上祭品。

11.6.19

यथा प्राण बलिहृतस्तुभ्यं सर्वाः प्रजा इमाः ।
एवा तस्मै बलिं हरान् यस्त्वा शृणवत्सुश्रवः ॥ ११.६.१९ ॥

啊,普拉那,正如这些众生都作为祭品献给你,愿我为那倾听你的人奉上供品,啊,善名者。

11.6.20

अन्तर्गर्भश्चरति देवतास्वाभूतो भूतः स उ जायते पुनः ।
स भूतो भव्यं भविष्यत्पिता पुत्रं प्र विवेशा शचीभिः ॥ ११.६.२० ॥

他在胎中运行,显现于诸神之间;生而复生。他即是过去、现在与未来;父亲以其力量进入儿子之中。

11.6.21

एकं पादं नोत्खिदति सलिलाद्धंस उच्चरन् ।
यदङ्ग स तमुत्खिदेन् नैवाद्य न श्वः स्यात् ।
न रात्री नाहः स्यान् न व्युच्छेत्कदा चन ॥ ११.६.२१ ॥

天鹅从水中飞起时,不抬起它的一只脚;若它抬起,便既无今日,也无明日,既无夜,也无昼,黎明将永不到来。

11.6.22

अष्टाचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा ।
अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः ॥ ११.६.२२ ॥

一个八辐、单一轮圈、具千音节的轮子前后旋转。以其一半生出了整个世界;其另一半的标志是什么?

11.6.23

यो अस्य विश्वजन्मन ईशे विश्वस्य चेष्टतः ।
अन्येषु क्षिप्रधन्वने तस्मै प्राण नमोऽस्तु ते ॥ ११.६.२३ ॥

他是这一切生者之主,是一切运动者之主,以快弓居于他者之上——向他,啊普拉那,向你致敬。

11.6.24

यो अस्य सर्वजन्मन ईशे सर्वस्य चेष्टतः ।
अतन्द्रो ब्रह्मणा धीरः प्राणो मानु तिष्ठतु ॥ ११.६.२४ ॥

他是这一切生者之主,是一切运动者之主——不知疲倦,以梵言而坚定——愿普拉那立于我的身后。

11.6.25

ऊर्ध्वः सुप्तेषु जागार ननु तिर्यङ्नि पद्यते ।
न सुप्तमस्य सुप्तेष्वनु शुश्राव कश्चन ॥ ११.६.२५ ॥

他昂然起身,在众人沉睡之时醒着守望;他确实横卧着。在众睡者之中,他的睡者无一听见任何声音。

11.6.26

प्राण मा मत्पर्यावृतो न मदन्यो भविष्यसि ।
अपां गर्भमिव जीवसे प्राण बध्नामि त्वा मयि ॥ ११.६.२६ ॥

啊,气息,不要绕着我转身离我而去;你不会与我分离。如同水中的胚胎,为了生存,啊,气息,我把你系在我之中。