阿闼婆吠陀 · 颂诗(Sūkta) 11.7
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
11.7.1
ब्रह्मचारीष्णंश्चरति रोदसी उभे तस्मिन् देवाः संमनसो भवन्ति ।
स दाधार पृथिवीं दिवं च स आचार्यं तपसा पिपर्ति ॥ ११.७.१ ॥
梵行者因苦行而炽热,行于两界;боги在他之中同心一意。他承载大地与天空,以苦行充盈导师。
11.7.2
ब्रह्मचारिणं पितरो देवजनाः पृथग्देवा अनुसंयन्ति सर्वे ।
गन्धर्वा एनमन्वायन् त्रयस्त्रिंशत्त्रिशताः षट्सहस्राः सर्वान्त्स देवांस्तपसा पिपर्ति ॥ ११.७.२ ॥
祖先与神众随从梵行者,各自的诸神亦然。乾闼婆随他而行——三百三十三与六千。他以苦行充盈一切诸神。
11.7.3
आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्तः ।
तं रात्रीस्तिस्र उदरे बिभर्ति तं जातं द्रष्टुमभिसंयन्ति देवाः ॥ ११.७.३ ॥
导师在行入门礼时,使梵行者在内成为胎儿;三夜将他怀在腹中。他一诞生,诸神便齐来观看。
11.7.4
इयं समित्पृथिवी द्यौर्द्वितीयोतान्तरिक्षं समिधा पृणाति ।
ब्रह्मचारी समिधा मेखलया श्रमेण लोकांस्तपसा पिपर्ति ॥ ११.७.४ ॥
此地为薪,天为其二,以薪充盈虚空。梵行者以薪、以腰带、以劳苦,以苦行充盈诸界。
11.7.5
पूर्वो जातो ब्रह्मणो ब्रह्मचारी घर्मं वसानस्तपसोदतिष्ठत् ।
तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥ ११.७.५ ॥
梵行者乃梵所先生,披着炽热之衣,因苦行而起立。由他所生的婆罗门,即梵,乃长者;诸神皆与甘露同在。
11.7.6
ब्रह्मचार्येति समिधा समिद्धः कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः ।
स सद्य एति पूर्वस्मादुत्तरं समुद्रं लोकान्त्संगृभ्य मुहुराचरिक्रत् ॥ ११.७.६ ॥
梵行者以柴薪点燃,身穿黑羚羊皮,受戒,长须,立即从先前之处前往北方大海,聚集诸世界,反复游行。
11.7.7
ब्रह्मचारी जनयन् ब्रह्मापो लोकं प्रजापतिं परमेष्ठिनं विराजम् ।
गर्भो भूत्वामृतस्य योनाविन्द्रो ह भूत्वासुरांस्ततर्ह ॥ ११.७.७ ॥
梵行者生出梵、水、世界、生主、至上者和毗罗阇,在不死的胎中成为胎儿,成为因陀罗,击败了阿修罗。
11.7.8
आचार्यस्ततक्ष नभसी उभे इमे उर्वी गम्भीरे पृथिवीं दिवं च ।
ते रक्षति तपसा ब्रह्मचारी तस्मिन् देवाः संमनसो भवन्ति ॥ ११.७.८ ॥
老师造出了这两个天——宽广深远的大地与天空。梵行者以苦行的热力守护它们;在他之中,诸神心志相同。
11.7.9
इमां भूमिं पृथिवीं ब्रह्मचारी भिक्षामा जभार प्रथमो दिवं च ।
ते कृत्वा समिधावुपास्ते तयोरार्पिता भुवनानि विश्वा ॥ ११.७.९ ॥
梵行者作为首先者,将此地、广阔的大地与天空当作布施带来。以它们作为两根柴薪,他服侍它们;在它们之中,安置着一切世界。
11.7.10
अर्वागन्यः परो अन्यो दिवस्पृष्ठाद्गुहा निधी निहितौ ब्राह्मणस्य ।
तौ रक्षति तपसा ब्रह्मचारी तत्केवलं कृणुते ब्रह्म विद्वान् ॥ ११.७.१० ॥
一个在此侧,另一个在天之背后——婆罗门的两件宝藏隐藏在洞穴中。梵行者以苦行之热守护二者;唯有智者独自成就那梵。
11.7.11
अर्वागन्य इतो अन्यः पृथिव्या अग्नी समेतो नभसी अन्तरेमे ।
तयोः श्रयन्ते रश्मयोऽधि दृढास्तान् आ तिष्ठति तपसा ब्रह्मचारी ॥ ११.७.११ ॥
一者在此岸,另一者在地之彼端。二火在二天之间相会;坚固的光线依托于其上。梵行者以苦行(tapas)支撑它们。
11.7.12
अभिक्रन्दन् स्तनयन्न् अरुणः शितिङ्गो बृहच्छेपोऽनु भूमौ जभार ।
ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश्चतस्रः ॥ ११.७.१२ ॥
咆哮而雷鸣,赤红而带白斑,尾巴巨大,它在大地之后将其携去。梵行者在山巅洒下种子;因此四方得以存活。
11.7.13
अग्नौ सूर्ये चन्द्रमसि मातरिश्वन् ब्रह्मचार्यप्सु समिधमा दधाति ।
तासामर्चींषि पृथगभ्रे चरन्ति तासामाज्यं पुरुषो वर्षमापः ॥ ११.७.१३ ॥
在火、日、月、摩多利濕梵中,梵行者将柴薪置于水中。它们的火焰在云中各自运行;它们的酥油即补鲁沙、雨与水。
11.7.14
आचार्यो मृत्युर्वरुणः सोम ओषधयः पयः ।
जीमूता आसन्त्सत्वानस्तैरिदं स्वराभृतम् ॥ ११.७.१४ ॥
导师即死亡、伐楼那、苏摩;草木与乳汁。雷云即为勇士;借由它们,此天光被带来。
11.7.15
अमा घृतं कृणुते केवलमाचार्यो भूत्वा वरुणः यद्यदैच्छत्प्रजापतौ ।
तद्ब्रह्मचारी प्रायच्छत्स्वान् मित्रो अध्यात्मनः ॥ ११.७.१५ ॥
伐楼那与阿摩(Amā)共同,唯以导师之身制作酥油;他在生主(Prajāpati)中所欲求的一切,梵行者都给予了自己人;密多罗自我而出。
11.7.16
आचार्यो ब्रह्मचारी ब्रह्मचारी प्रजापतिः ।
प्रजापतिर्वि राजति विराडिन्द्रोऽभवद्वशी ॥ ११.७.१६ ॥
老师即是梵行者;梵行者即是生主。生主光耀;毗罗遮成为因陀罗,成为自制者。
11.7.17
ब्रह्मचर्येण तपसा राजा राष्ट्रं वि रक्षति ।
आचार्यो ब्रह्मचर्येण ब्रह्मचारिणमिच्छते ॥ ११.७.१७ ॥
凭梵行与苦行,国王善守国土;老师凭梵行,求得梵行者。
11.7.18
ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् ।
अनड्वान् ब्रह्मचर्येणाश्वो घासं जिगीषति ॥ ११.७.१८ ॥
凭梵行,少女得少年为夫;凭梵行,牛与马欲求得草料。
11.7.19
ब्रह्मचर्येण तपसा देवा मृत्युमपाघ्नत ।
इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्वराभरत् ॥ ११.७.१९ ॥
凭梵行与苦行,诸神驱逐了死亡;因陀罗凭梵行,为诸神取来天界之光。
11.7.20
ओषधयो भूतभव्यमहोरात्रे वनस्पतिः ।
संवत्सरः सह ऋतुभिस्ते जाता ब्रह्मचारिणः ॥ ११.७.२० ॥
草药、过去与未来、昼与夜、林中之树、岁年与四季——这一切皆生自梵行者。
11.7.21
पार्थिवा दिव्याः पशव आरण्या ग्राम्याश्च ये ।
अपक्षाः पक्षिणश्च ये ते जाता ब्रह्मचारिणः ॥ ११.७.२१ ॥
地上的与天上的,牲畜,野兽与家畜,无翼者与有翼之鸟——凡此皆生自梵行者。
11.7.22
पृथक्सर्वे प्राजापत्याः प्राणान् आत्मसु बिभ्रति ।
तान्त्सर्वान् ब्रह्म रक्षति ब्रह्मचारिण्याभृतम् ॥ ११.७.२२ ॥
生主的所有后裔各自在自身中承载诸气息;梵由梵行女带来,守护着他们所有人。
11.7.23
देवानामेतत्परिषूतमनभ्यारूढं चरति रोचमानम् ।
तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥ ११.७.२३ ॥
这是诸神经过净化的光辉,不受压制,闪耀而行;从它而生的婆罗门、梵,是长子;诸神皆与甘露一同与它同在。
11.7.24
ब्रह्मचारी ब्रह्म भ्राजद्बिभर्ति तस्मिन् देवा अधि विश्वे समोताः ।
प्राणापानौ जनयन्न् आद्व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् ॥ ११.७.२४ ॥
梵行者承载着光辉的梵,诸天神皆编织于其中;他产生了上气与下气,然后是遍行气、语言、意、心、梵与慧。
11.7.25
चक्षुः श्रोत्रं यशो अस्मासु धेह्यन्नं रेतो लोहितमुदरम् ॥ ११.७.२५ ॥
请在我们之中安置眼、耳与荣誉;食物、精液、血与腹。
11.7.26
तानि कल्पन् ब्रह्मचारी सलिलस्य पृष्ठे तपोऽतिष्ठत्तप्यमानः समुद्रे ।
स स्नातो बभ्रुः पिङ्गलः पृथिव्यां बहु रोचते ॥ ११.७.२६ ॥
梵行者塑造了这些,立于水面,在海洋中炽热地修行苦行。他沐浴后呈棕黄与赤褐色,在大地上光辉灿烂。