Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 12.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.2.1

नडमा रोह न ते अत्र लोक इदं सीसं भागधेयं त एहि ।
यो गोषु यक्ष्मः पुरुषेषु यक्ष्मस्तेन त्वं साकमधराङ्परेहि ॥ १२.२.१ ॥

不要爬上芦苇;在此世间,此铅是你的份额,来吧。牛群中的痨病与人身上的痨病——与它一同向下远远离去吧。

12.2.2

अघशंसदुःशंसाभ्यां करेणानुकरेण च ।
यक्ष्मं च सर्वं तेनेतो मृत्युं च निरजामसि ॥ १२.२.२ ॥

借着恶意者与坏心者,借着卡列纳与阿努卡列纳,我们将一切痨病连同它以及死亡都从此处驱逐出去。

12.2.3

निरितो मृत्युं निर्ऋतिं निररातिमजामसि ।
यो नो द्वेष्टि तमद्ध्यग्ने अक्रव्याद्यमु द्विष्मस्तमु ते प्र सुवामसि ॥ १२.२.३ ॥

从此处我们驱逐死亡、毁灭与敌意。恨我们的人,啊阿耆尼,请吞食他,那食肉者;我们所恨的人,我们将他送到你那里。

12.2.4

यद्यग्निः क्रव्याद्यदि वा व्याघ्र इमं गोष्ठं प्रविवेशान्योकाः ।
तं माषाज्यं कृत्वा प्र हिणोमि दूरं स गच्छत्वप्सुषदोऽप्यग्नीन् ॥ १२.२.४ ॥

若是肉食的阿耆尼,或是老虎从别处进入这牛栏,我把它做成豆与酥油的祭品,将它送到远方;愿它也去往居于水中的诸火那里。

12.2.5

यत्त्वा क्रुद्धाः प्रचक्रुर्मन्युना पुरुषे मृते ।
सुकल्पमग्ने तत्त्वया पुनस्त्वोद्दीपयामसि ॥ १२.२.५ ॥

当愤怒者在死去的人身上以怒气点燃你时,啊阿耆尼,我们借你使之安好;我们再次点燃你。

12.2.6

पुनस्त्वादित्या रुद्रा वसवः पुनर्ब्रह्मा वसुनीतिरग्ने ।
पुनस्त्वा ब्रह्मणस्पतिराधाद्दीर्घायुत्वाय शतशारदाय ॥ १२.२.६ ॥

啊阿耆尼,愿阿提提耶、楼陀罗与婆苏再次安置你;愿引导婆苏的梵天再次安置你;梵主为你长寿、百秋而再次安置了你。

12.2.7

यो अग्निः क्रव्यात्प्रविवेश नो गृहमिमं पश्यन्न् इतरं जातवेदसम् ।
तं हरामि पितृयज्ञाय दूरं स घर्ममिन्धां परमे सधस्थे ॥ १२.२.७ ॥

那侵入我们房屋的食肉阿耆尼,我看着另一位耶陀吠陀,将他远远带去供奉祖先;愿他在最高的座位上点燃热力。

12.2.8

क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः ।
इहायमितरो जातवेदा देवो देवेभ्यो हव्यं वहतु प्रजानन् ॥ १२.२.८ ॥

我将食肉阿耆尼远远送走;愿那携带污秽者前往阎摩王处。在此,这另一位知晓一切的神耶陀吠陀,为诸神运送祭品。

12.2.9

क्रव्यादमग्निमिषितो हरामि जनान् दृंहन्तं वज्रेण मृत्युम् ।
नि तं शास्मि गार्हपत्येन विद्वान् पितॄणां लोकेऽपि भागो अस्तु ॥ १२.२.९ ॥

我受派遣,带走那食肉的阿耆尼——那以金刚杵击打人群的死亡;我知晓,以家主火制伏他;愿他在祖先的世界中也有一份。

12.2.10

क्रव्यादमग्निं शशमानमुक्थ्यं प्र हिणोमि पथिभिः पितृयाणैः ।
मा देवयानैः पुनरा गा अत्रैवैधि पितृषु जागृहि त्वम् ॥ १२.२.१० ॥

我以祖先之路送走那被赞颂的食肉阿耆尼;愿他不再经由诸神之路归来。请留在此处,在祖先之间保持警醒。

12.2.11

समिन्धते संकसुकं स्वस्तये शुद्धा भवन्तः शुचयः पावकाः ।
जहाति रिप्रमत्येन एति समिद्धो अग्निः सुपुना पुनाति ॥ १२.२.११ ॥

为求吉祥,他们点燃桑喀苏卡;纯净、明亮、能净化。他借超越而舍弃污染;燃起的火善于净化。

12.2.12

देवो अग्निः संकसुको दिवस्पृष्ठान्यारुहत् ।
मुच्यमानो निरेणसोऽमोगस्मामशस्त्याः ॥ १२.२.१२ ॥

神火桑喀苏卡攀上天的脊背,从罪中解脱,从不徒劳与被诅咒之事中解脱。

12.2.13

अस्मिन् वयं संकसुके अग्नौ रिप्राणि मृज्महे ।
अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत् ॥ १२.२.१३ ॥

在这桑喀苏卡火中,我们拭去污垢。成为适合祭祀且纯净的人后,愿他延长我们的寿命。

12.2.14

संकसुको विकसुको निर्ऋथो यश्च निस्वरः ।
ते ते यक्ष्मं सवेदसो दूराद्दूरमनीनशन् ॥ १२.२.१४ ॥

桑喀苏卡、维喀苏卡、尼尔利陀,以及那无声者——愿你们众神一同把你的痨病(夜刹摩)驱赶到远之又远。

12.2.15

यो नो अश्वेषु वीरेषु यो नो गोष्वजाविषु ।
क्रव्यादं निर्णुदामसि यो अग्निर्जनयोपनः ॥ १२.२.१५ ॥

我们驱逐那在我们的马匹、男子、牛、山羊和绵羊之中的食肉者——那通过人们伤害我们的火。

12.2.16

अन्येभ्यस्त्वा पुरुषेभ्यो गोभ्यो अश्वेभ्यस्त्वा ।
निः क्रव्यादं नुदामसि यो अग्निर्जीवितयोपनः ॥ १२.२.१६ ॥

为了他人、为了男子、为了牛、为了马,我们驱逐你——食肉者;那在生命中伤害我们的火。

12.2.17

यस्मिन् देवा अमृजत यस्मिन् मनुष्या उत ।
तस्मिन् घृतस्तावो मृष्ट्वा त्वमग्ने दिवं रुह ॥ १२.२.१७ ॥

在诸神与众人曾经净化之处,净化浸满酥油的勺子之后,阿耆尼啊,你升上天界吧。

12.2.18

समिद्धो अग्न आहुत स नो माभ्यपक्रमीः ।
अत्रैव दीदिहि द्यवि ज्योक्च सूर्यं दृशे ॥ १२.२.१८ ॥

阿耆尼啊,你已燃烧旺盛、享受了供品,请勿离开我们;就在此处于天空中照耀,并长久地照耀,使我们得以见到太阳。

12.2.19

सीसे मृड्ढ्वं नडे मृड्ढ्वमग्नौ संकसुके च यत् ।
अथो अव्यां रामायां शीर्षक्तिमुपबर्हणे ॥ १२.२.१९ ॥

在铅中净化,在芦苇中净化,在火中,以及在筛中之物中净化;然后在羊毛、黑布和枕头中,净化头部的疾病。

12.2.20

सीसे मलं सादयित्वा शीर्षक्तिमुपबर्हणे ।
अव्यामसिक्न्यां मृष्ट्वा शुद्धा भवत यज्ञियाः ॥ १२.२.२० ॥

将污秽置于铅中,将头病置于枕头中,在羊毛与黑羊毛中净化之后,成为纯净、适于献祭的人。

12.2.21

परं मृत्यो अनु परेहि पन्थां यस्त एष इतरो देवयानात् ।
चक्षुष्मते शृण्वते ते ब्रवीमीहेमे वीरा बहवो भवन्तु ॥ १२.२.२१ ॥

哦,死神,沿着你那条不同于诸神之道的路远远离去吧。我对你,这有眼能看、有耳能听的(死神)说:愿这里的英雄们众多。

12.2.22

इमे जीवा वि मृतैराववृत्रन्न् अभूद्भद्रा देवहूतिर्नो अद्य ।
प्राञ्चो अगाम नृतये हसाय सुवीरासो विदथमा वदेम ॥ १२.२.२२ ॥

这些活人已与死者分离而返回;今日诸神的呼唤对我们而言变得吉祥。我们向前行进,为舞蹈和欢笑;与善良的英雄们一起,在集会上发言吧。

12.2.23

इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् ।
शतं जीवन्तः शरदः पुरूचीस्तिरो मृत्युं दधतां पर्वतेन ॥ १२.२.२३ ॥

为了生者,我设下这道藩篱;愿他们中无人走向别的道路。愿他们活满百个秋天、许多岁月,以山将死亡隔开。

12.2.24

आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति स्थ ।
तान् वस्त्वष्टा सुजनिमा सजोषाः सर्वमायुर्नयतु जीवनाय ॥ १२.२.२४ ॥

选择生命,攀至老年;你们一个接一个地努力前行。愿善生者特瓦什特里和善相助,为他们带来全部寿命以得生活。

12.2.25

यथाहान्यनुपूर्वं भवन्ति यथ र्तव ऋतुभिर्यन्ति साकम् ।
यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम् ॥ १२.२.२५ ॥

如同日子依次而来,季节随季节同行,使后者不离弃前者;同样,啊执持者(Dhātṛ),请安排他们的寿命。

12.2.26

अश्मन्वती रीयते सं रभध्वं वीरयध्वं प्र तरता सखायः ।
अत्रा जहीत ये असन् दुरेवा अनमीवान् उत्तरेमाभि वाजान् ॥ १२.२.२६ ॥

多石的河流奔流;朋友们,你们齐心抓紧,如英雄般行动,渡过去吧。那些行恶道的人,就留在此处;愿我们无病无忧,向着奖赏渡过。

12.2.27

उत्तिष्ठता प्र तरता सखायोऽश्मन्वती नदी स्यन्दत इयम् ।
अत्रा जहीत ये असन्न् अशिवाः शिवान्त्स्योनान् उत्तरेमाभि वाजान् ॥ १२.२.२७ ॥

朋友们,起来渡过吧;这多石的河流奔流。那些不吉利的人,就留在此处;我们与吉祥安乐之人一同,向着奖赏渡过。

12.2.28

वैश्वदेवीं वर्चसा आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः ।
अतिक्रामन्तो दुरिता पदानि शतं हिमाः सर्ववीरा मदेम ॥ १२.२.२८ ॥

以光辉承受这属于一切诸神的力量;成为清净、纯洁而能净化的人,跨越灾厄之路,愿我们与所有英雄一起欢度百个冬季。

12.2.29

उदीचीनैः पथिभिर्वायुमद्भिरतिक्रामन्तोऽवरान् परेभिः ।
त्रिः सप्त कृत्व ऋषयः परेता मृत्युं प्रत्यौहन् पदयोपनेन ॥ १२.२.२९ ॥

沿着有风的北方之路,越过低处,七次三次,先知们渡到彼岸;以脚将死亡推回。

12.2.30

मृत्योः पदं योपयन्त एत द्राघीय आयुः प्रतरं दधानाः ।
आसीना मृत्युं नुदता सधस्थेऽथ जीवासो विदथमा वदेम ॥ १२.२.३० ॥

阻挡死亡的脚步,将这更长的寿命继续承载,同坐一处驱逐死亡,然后活着,我们在此集会中发言。

12.2.31

इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम् ।
अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥ १२.२.३१ ॥

这些女子未曾守寡,有良好的丈夫;愿她们以眼膏和酥油涂抹自身;无泪、无病、饰以美宝,愿母亲们先登上家室。

12.2.32

व्याकरोमि हविषाहमेतौ तौ ब्रह्मणा व्यहं कल्पयामि ।
स्वधां पितृभ्यो अजरां कृणोमि दीर्घेणायुषा समिमान्त्सृजामि ॥ १२.२.३२ ॥

我以祭品分开这两者,以梵(咒语)安排那两者;我使供奉给祖先的斯瓦陀不朽;以长寿我将这些人聚合在一起。

12.2.33

यो नो अग्निः पितरो हृत्स्वन्तराविवेशामृतो मर्त्येषु ।
मय्यहं तं परि गृह्णामि देवं मा सो अस्मान् द्विक्षत मा वयं तम् ॥ १२.२.३३ ॥

诸位祖先啊,那已进入我们心中、在凡人之中不死的阿耆尼,我将这位神纳入自身。愿他不憎恨我们,愿我们也不憎恨他。

12.2.34

अपावृत्य गार्हपत्यात्क्रव्यादा प्रेत दक्षिणा ।
प्रियं पितृभ्य आत्मने ब्रह्मभ्यः कृणुता प्रियम् ॥ १२.२.३४ ॥

离开家火(gārhapatya),向南而去吧,食肉的罗刹们;为祖先、为自己、为婆罗门做那可爱之事吧。

12.2.35

द्विभागधनमादाय प्र क्षिणात्यवर्त्या ।
अग्निः पुत्रस्य ज्येष्ठस्य यः क्रव्यादनिराहितः ॥ १२.२.३५ ॥

未入于火中的食肉罗刹,取走两份财产,以欺诈将其毁灭;长子的火(守护它)。

12.2.36

यत्कृषते यद्वनुते यच्च वस्नेन विन्दते ।
सर्वं मर्त्यस्य तन् नास्ति क्रव्याच्चेदनिराहितः ॥ १२.२.३६ ॥

凡人所耕种的、所赢得的、以代价所获得的一切——若食肉罗刹未入于火中,那一切便不再属于凡人。

12.2.37

अयज्ञियो हतवर्चा भवति नैनेन हविरत्तवे ।
छिनत्ति कृष्या गोर्धनाद्यं क्रव्यादनुवर्तते ॥ १२.२.३७ ॥

他便不适于祭祀,光彩被毁,供品不能经由他而被食用。跟随他的食肉罗刹,将他从耕作和牛群财富中切断。

12.2.38

मुहुर्गृध्यैः प्र वदत्यार्तिं मर्त्यो नीत्य ।
क्रव्याद्यान् अग्निरन्तिकादनुविद्वान् वितावति ॥ १२.२.३८ ॥

凡人一再向贪婪的秃鹫诉说痛苦;然而熟知它们的火,将食肉者远远驱逐。

12.2.39

ग्राह्या गृहाः सं सृज्यन्ते स्त्रिया यन् म्रियते पतिः ।
ब्रह्मैव विद्वान् एष्यो यः क्रव्यादं निरादधत् ॥ १२.२.३९ ॥

丈夫因妻子而死时,房屋被握持而相连;那智慧的梵本身便是将食肉者安置远处的人。

12.2.40

यद्रिप्रं शमलं चकृम यच्च दुष्कृतम् ।
आपो मा तस्माच्छुम्भन्त्वग्नेः संकसुकाच्च यत् ॥ १२.२.४० ॥

我们所犯的任何污秽、垢染与恶行,愿水从那些中洁净我;也从阿耆尼那燃烧之火中洁净我所遭之物。

12.2.41

ता अधरादुदीचीराववृत्रन् प्रजानैतीः पथिभिर्देवयानैः ।
पर्वतस्य वृषभस्याधि पृष्ठे नवाश्चरन्ति सरितः पुराणीः ॥ १२.२.४१ ॥

它们从下方转向上方,循着诸神之道前行,知晓道路;在山岳、公牛的背脊上,新旧诸河流动不息。

12.2.42

अग्ने अक्रव्यान् निः क्रव्यादं नुदा देवयजनं वह ॥ १२.२.४२ ॥

阿耆尼啊,你本不食肉,请驱逐食肉者,将他带到诸神的祭场去吧。

12.2.43

इमं क्रव्यादा विवेशायं क्रव्यादमन्वगात् ।
व्याघ्रौ कृत्वा नानानं तं हरामि शिवापरम् ॥ १२.२.४३ ॥

食肉的女妖进入了此人;此人跟随了食肉者。我化作两只老虎,以种种方式将他夺走,那另一个则吉祥。

12.2.44

अन्तर्धिर्देवानां परिधिर्मनुष्याणामग्निर्गार्हपत्य उभयान् अन्तरा श्रितः ॥ १२.२.४४ ॥

诸神的内界,人类的外围;家主火阿耆尼安立于两者之间。

12.2.45

जीवानामायुः प्र तिर त्वमग्ने पितॄणां लोकमपि गच्छन्तु ये मृताः ।
सुगार्हपत्यो वितपन्न् अरातिमुषामुषां श्रेयसीं धेह्यस्मै ॥ १२.२.४५ ॥

阿耆尼啊,延长生者的寿命;死者也当往祖先的世界而去。作为善护的家火(gārhapatya),焚烧敌人,每个黎明为此人安置更大的福祉。

12.2.46

सर्वान् अग्ने सहमानः सपत्नान् ऐषामूर्जं रयिमस्मासु धेहि ॥ १२.२.४६ ॥

阿耆尼啊,征服一切敌对者,将他们的力量与财富安置于我们之中。

12.2.47

इममिन्द्रं वह्निं पप्रिमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात् ।
तेनाप हत शरुमापतन्तं तेन रुद्रस्य परि पातास्ताम् ॥ १२.२.४७ ॥

抓住这位负载者、圆满者因陀罗;愿他带你们脱离恶运与可责之过。借他的力量挡开飞来的箭;借楼陀罗的护佑,愿你们二人得到守卫。

12.2.48

अनड्वाहं प्लवमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात् ।
आ रोहत सवितुर्नावमेतां षड्भिरुर्वीभिरमतिं तरेम ॥ १२.२.४८ ॥

抓住这头驮畜与木筏;愿它带你们脱离恶运与可责之过。登上萨维特里的这艘船;与六个广阔方位一同,我们渡过苦难。

12.2.49

अहोरात्रे अन्वेषि बिभ्रत्क्षेम्यस्तिष्ठन् प्रतरणः सुवीरः ।
अनातुरान्त्सुमनसस्तल्प बिभ्रज्ज्योगेव नः पुरुषगन्धिरेधि ॥ १२.२.४९ ॥

你追随白昼与黑夜,承载安稳,屹立不动,渡人过河,富有善战之士;在床榻上承载无病而心善之人,愿你长久地成为我们人类的芬芳。

12.2.50

ते देवेभ्य आ वृश्चन्ते पापं जीवन्ति सर्वदा ।
क्रव्याद्यान् अग्निरन्तिकादश्व इवानुवपते नडम् ॥ १२.२.५० ॥

他们从诸神那里切断罪恶,并且永远存活。阿耆尼从近处驱散食肉的罗刹,如马踏散芦苇一般。

12.2.51

येऽश्रद्धा धनकाम्या क्रव्यादा समासते ।
ते वा अन्येषां कुम्भीं पर्यादधति सर्वदा ॥ १२.२.५१ ॥

那些无信、贪求财富、聚坐如食肉罗刹的人,总是把别人的锅围在自己周围。

12.2.52

प्रेव पिपतिषति मनसा मुहुरा वर्तते पुनः ।
क्रव्याद्यान् अग्निरन्तिकादनुविद्वान् वितावति ॥ १२.२.५२ ॥

心中想要飞走,却一再转回;近处的阿耆尼全知,驱散食肉的罗刹。

12.2.53

अविः कृष्णा भागधेयं पशूनां सीसं क्रव्यादपि चन्द्रं त आहुः ।
माषाः पिष्टा भागधेयं ते हव्यमरण्यान्या गह्वरं सचस्व ॥ १२.२.५३ ॥

黑羊是牲畜的份额;人们说铅和银是食肉者的份额。捣碎的绿豆是你的份额和供品;林中居者啊,去依附密林吧。

12.2.54

इषीकां जरतीमिष्ट्वा तिल्पिञ्जं दण्डनं नडम् ।
तमिन्द्र इध्मं कृत्वा यमस्याग्निं निरादधौ ॥ १२.२.५४ ॥

献上枯芦秆、芝麻茎、木棍和芦苇后,因陀罗把它做成柴薪,放入阎摩的火中。

12.2.55

प्रत्यञ्चमर्कं प्रत्यर्पयित्वा प्रविद्वान् पन्थां वि ह्याविवेश ।
परामीषामसून् दिदेश दीर्घेणायुषा समिमान्त्सृजामि ॥ १२.२.५५ ॥

使逆向的火焰折返,他以智慧踏入道路;把他们的气息远远送走;我以长寿将这些人一并释放。