阿闼婆吠陀 · 颂诗(Sūkta) 12.3
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.3.1
पुमान् पुंसोऽधि तिष्ठ चर्मेहि तत्र ह्वयस्व यतमा प्रिया ते ।
यावन्तावग्रे प्रथमं समेयथुस्तद्वां वयो यमराज्ये समानम् ॥ १२.३.१ ॥
男人啊,踏上女人;到那皮上去,在那里呼唤你的爱人。你们二人起初相遇时所共有的寿命,在阎摩的国度中对你们二人同样。
12.3.2
तावद्वां चक्षुस्तति वीर्याणि तावत्तेजस्ततिधा वाजिनानि ।
अग्निः शरीरं सचते यदैधोऽधा पक्वान् मिथुना सं भवाथः ॥ १२.३.२ ॥
你们二人之目所及,你们的精力与光辉也延伸至那里。火得到薪柴而依附身体时,于是你们二人在成熟之时结为一对。
12.3.3
समस्मिंल्लोके समु देवयाने सं स्मा समेतं यमराज्येषु ।
पूतौ पवित्रैरुप तद्ध्वयेथां यद्यद्रेतो अधि वां संबभूव ॥ १२.३.३ ॥
在此世间共同,在诸神之道上也共同;在阎摩的诸国中也共同而来。你们二人以净化之物得净,前往那里,无论在你们二人之间生出了何种精液。
12.3.4
आपस्पुत्रासो अभि सं विशध्वमिमं जीवं जीवधन्याः समेत्य ।
तासां भजध्वममृतं यमाहुरोदनं पचति वां जनित्री ॥ १२.३.४ ॥
水之子们,一同进入这有生命者之中,因生命而得福,相聚在一起。从中享用那甘露,人们称之为奥丹那,你们二人的母亲烹煮它。
12.3.5
यं वां पिता पचति यं च माता रिप्रान् निर्मुक्त्यै शमलाच्च वाचः ।
स ओदनः शतधारः स्वर्ग उभे व्याप नभसी महित्वा ॥ १२.३.५ ॥
你们的父亲所烹煮、母亲所烹煮的,为了从污秽与言语的不净中解脱,那奥丹那便是百流之天;它以其伟大遍布两重天空。
12.3.6
उभे नभसी उभयांश्च लोकान् ये यज्वनामभिजिताः स्वर्गाः ।
तेषां ज्योतिष्मान् मधुमान् यो अग्रे तस्मिन् पुत्रैर्जरसि सं श्रयेथाम् ॥ १२.३.६ ॥
两重天,以及施祭者所赢得的两个世界,其中光明、甜美、居于最前的那一处——在那里,与诸子一同直至老年,你们二人共同归依。
12.3.7
प्राचींप्राचीं प्रदिशमा रभेथामेतं लोकं श्रद्दधानाः सचन्ते ।
यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दंपती सं श्रयेथाम् ॥ १२.३.७ ॥
你们各自从东方开始;有信之人便能到达此世界。为守护在火中煮熟并奉上的食物,夫妻二人,共同归依。
12.3.8
दक्षिणां दिशमभि नक्षमाणौ पर्यावर्तेथामभि पात्रमेतत् ।
तस्मिन् वां यमः पितृभिः संविदानः पक्वाय शर्म बहुलं नि यच्छात् ॥ १२.३.८ ॥
朝向南方而行,转向此器皿;愿阎摩与祖先们相契合,为所煮之物赐予充足的庇护。
12.3.9
प्रतीची दिशामियमिद्वरं यस्यां सोमो अधिपा मृडिता च ।
तस्यां श्रयेथां सुकृतः सचेथामधा पक्वान् मिथुना सं भवाथः ॥ १२.३.९ ॥
此西方是最好的方位,其主宰是慈悲的苏摩。在那里归依,作为行善之人共处,然后与所煮之物结为一对。
12.3.10
उत्तरं राष्ट्रं प्रजयोत्तरावद्दिशामुदीची कृणवन् नो अग्रम् ।
पाङ्क्तं छन्दः पुरुषो बभूव विश्वैर्विश्वाङ्गैः सह सं भवेम ॥ १२.३.१० ॥
北方之国与其子嗣更为高尚;北方为我们开辟了最前的位置。般克提韵律化为一个人;愿我们以一切肢体与众人相合为一。
12.3.11
ध्रुवेयं विराण्नमो अस्त्वस्यै शिवा पुत्रेभ्य उत मह्यमस्तु ।
सा नो देव्यदिते विश्ववार इर्य इव गोपा अभि रक्ष पक्वम् ॥ १२.३.११ ॥
此女坚定而主持,愿向她致敬。愿她对众子与我吉祥。愿善择一切的天女阿底提如积极的牧者,为我们守护煮熟的食物。
12.3.12
पितेव पुत्रान् अभि सं स्वजस्व नः शिवा नो वाता इह वान्तु भूमौ ।
यमोदनं पचतो देवते इह तं नस्तप उत सत्यं च वेत्तु ॥ १२.३.१२ ॥
如父亲拥抱儿子,愿你们full拥抱我们。愿吉祥的风在此大地为我们吹拂。诸神啊,愿阎摩知晓此处所煮之饭的热力与真实。
12.3.13
यद्यद्कृष्णः शकुन एह गत्वा त्सरन् विषक्तं बिल आससाद ।
यद्वा दास्यार्द्रहस्ता समङ्क्त उलूखलं मुसलं शुम्भतापः ॥ १२.३.१३ ॥
凡黑鸟来此匍匐,粘附于洞中停留者,或女奴以湿手涂抹于臼与杵者,皆以水洗净之。
12.3.14
अयं ग्रावा पृथुबुध्नो वयोधाः पूतः पवित्रैरप हन्तु रक्षः ।
आ रोह चर्म महि शर्म यच्छ मा दंपती पौत्रमघं नि गाताम् ॥ १२.३.१४ ॥
此磨石,底宽而赐予活力,以净器洁净,愿其驱逐罗刹。登于皮革之上,赐予大庇护;愿夫妇不陷于孙子之罪。
12.3.15
वनस्पतिः सह देवैर्न आगन् रक्षः पिशाचामपबाधमानः ।
स उच्छ्रयातै प्र वदाति वाचं तेन लोकामभि सर्वान् जयेम ॥ १२.३.१५ ॥
愿树木之主与诸神同来至我们处,驱逐罗刹与毕舍遮。愿他升起而宣说言语;借此我们征服一切世界。
12.3.16
सप्त मेधान् पशवः पर्यगृह्णन् य एषां ज्योतिष्माँ उत यश्चकर्श ।
त्रयस्त्रिंशद्देवतास्तान्त्सचन्ते स नः स्वर्गमभि नेष लोकम् ॥ १२.३.१६ ॥
那圈取这七种祭物与牲畜、其中光明并开辟道路的人,三十三位神与他同在;愿他引领我们前往天界。
12.3.17
स्वर्गं लोकमभि नो नयासि सं जायया सह पुत्रैः स्याम ।
गृह्णामि हस्तमनु मैत्वत्र मा नस्तारीन् निर्ऋतिर्मो अरातिः ॥ १२.३.१७ ॥
引导我们前往天界;愿我们与妻子、儿子共处。我握住(妻子的)手;愿她在此跟随我。愿尼里提与阿拉提不要压倒我们。
12.3.18
ग्राहिं पाप्मानमति तामयाम तमो व्यस्य प्र वदासि वल्गु ।
वानस्पत्य उद्यतो मा जिहिंसीर्मा तण्डुलं वि शरीर्देवयन्तम् ॥ १२.३.१८ ॥
愿我们越过那攫取的罪恶;驱散黑暗,你说出甜美的言辞。哦,树生者,被举起时不要伤害;不要撒散那渴望诸神的米粒。
12.3.19
विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम् ।
वर्षवृद्धमुप यच्छ शूर्पं तुषं पलावान् अप तद्विनक्तु ॥ १२.३.१९ ॥
遍在者啊,背负酥油、将成同源之人,请来到此世界。把因雨而长成的谷物放在簸箕上;让它分离出糠壳与秕谷。
12.3.20
त्रयो लोकाः संमिता ब्राह्मणेन द्यौरेवासौ पृथिव्यन्तरिक्षम् ।
अंशून् गृभीत्वान्वारभेथामा प्यायन्तां पुनरा यन्तु शूर्पम् ॥ १२.३.२० ॥
三界由婆罗门所量定:那天、这地与中间的虚空。握住那些穗茎而开始;愿它们再度丰满,并回到簸箕之中。
12.3.21
पृथग्रूपाणि बहुधा पशूनामेकरूपो भवसि सं समृद्ध्या ।
एतां त्वचं लोहिनीं तां नुदस्व ग्रावा शुम्भाति मलग इव वस्त्रा ॥ १२.३.२१ ॥
牲畜的形态多种多样,而你因繁盛而成为同一形态。推开这红色的皮;石头使它发亮,如同洗衣人使衣服发亮。
12.3.22
पृथिवीं त्वा पृथिव्यामा वेशयामि तनूः समानी विकृता त एषा ।
यद्यद्द्युत्तं लिखितमर्पणेन तेन मा सुस्रोर्ब्रह्मणापि तद्वपामि ॥ १२.३.२२ ॥
我将你安置于大地,安置于地中。你的身体相同,但此一已经变形。凡是被切割之器划出标记而闪光的,我也以梵咒将其割去。
12.3.23
जनित्रीव प्रति हर्यासि सूनुं सं त्वा दधामि पृथिवीं पृथिव्या ।
उखा कुम्भी वेद्यां मा व्यथिष्ठा यज्ञायुधैराज्येनातिषक्ता ॥ १२.३.२३ ॥
如母亲般,你欢喜地倾向于儿子;我使你与大地一同结合于大地之中。啊,锅与罐,在祭坛上,以酥油和祭器充分涂抹,你不要受苦。
12.3.24
अग्निः पचन् रक्षतु त्वा पुरस्तादिन्द्रो रक्षतु दक्षिणतो मरुत्वान् ।
वरुणस्त्वा दृंहाद्धरुणे प्रतीच्या उत्तरात्त्वा सोमः सं ददातै ॥ १२.३.२४ ॥
愿烹煮的阿耆尼从东方护卫你;愿与摩录多同在的因陀罗从南方护卫你。愿伐楼那从西方在支撑中使你坚固;愿苏摩从北方与你结合并赐予你。
12.3.25
पूताः पवित्रैः पवन्ते अभ्राद्दिवं च यन्ति पृथिवीं च लोकान् ।
ता जीवला जीवधन्याः प्रतिष्ठाः पात्र आसिक्ताः पर्यग्निरिन्धाम् ॥ १२.३.२५ ॥
经滤器净化的水从云中流下,去往天空与大地诸界。它们赐予生命,因生命而蒙福,被确立;倾入器皿之中,愿火在其周围燃起。
12.3.26
आ यन्ति दिवः पृथिवीं सचन्ते भूम्याः सचन्ते अध्यन्तरिक्षम् ।
शुद्धाः सतीस्ता उ शुम्भन्त एव ता नः स्वर्गमभि लोकं नयन्तु ॥ १२.३.२६ ॥
它们从天而降,附着于大地,又从大地向上附着于虚空。它们本就清净,确实光彩照人;愿它们引导我们走向天界之世(Svarga)。
12.3.27
उतेव प्रभ्वीरुत संमितास उत शुक्राः शुचयश्चामृतासः ।
ता ओदनं दंपतिभ्यां प्रशिष्टा आपः शिक्षन्तीः पचता सुनाथाः ॥ १२.३.२७ ॥
它们仿佛强大而均衡,光明、洁净、赐予不死。愿这些受良好引导、受良好守护的水,为夫妇煮好饭粥(odana)。
12.3.28
संख्याता स्तोकाः पृथिवीं सचन्ते प्राणापानैः संमिता ओषधीभिः ।
असंख्याता ओप्यमानाः सुवर्णाः सर्वं व्यापुः शुचयः शुचित्वम् ॥ १२.३.२८ ॥
可数的水滴附着于大地,以入息、出息与草药为度量。无数、洒落、金色的清净之水遍及一切,获得了清净。
12.3.29
उद्योधन्त्यभि वल्गन्ति तप्ताः फेनमस्यन्ति बहुलांश्च बिन्दून् ।
योषेव दृष्ट्वा पतिमृत्वियायैतैस्तण्डुलैर्भवता समापः ॥ १२.३.२९ ॥
受热的水翻涌跳跃,喷出泡沫与许多水滴。如同经期中的妇人见到丈夫便走近他,愿这些水与这些米粒合为一体。
12.3.30
उत्थापय सीदतो बुध्न एनान् अद्भिरात्मानमभि सं स्पृशन्ताम् ।
अमासि पात्रैरुदकं यदेतन् मितास्तण्डुलाः प्रदिशो यदीमाः ॥ १२.३.३० ॥
将沉于底部者提起来;愿它们与水相互接触。家中器皿里有这水;这些量好的米粒分布在四方。
12.3.31
प्र यच्छ पर्शुं त्वरया हरौषमहिंसन्त ओषधीर्दान्तु पर्वन् ।
यासां सोमः परि राज्यं बभूवामन्युता नो वीरुधो भवन्तु ॥ १२.३.३१ ॥
快递上斧头;不伤害它们,让草药在节处被砍断。愿苏摩在其上获得王权的藤蔓对我们不怀怒气。
12.3.32
नवं बर्हिरोदनाय स्तृणीत प्रियं हृदश्चक्षुषो वल्ग्वस्तु ।
तस्मिन् देवाः सह दैवीर्विशन्त्विमं प्राश्नन्त्वृतुभिर्निषद्य ॥ १२.३.३२ ॥
为奥达那铺上新的巴尔希斯草;愿它令心与眼喜爱美好。愿诸神与神力一同降临其上,按季节就座,享用此物。
12.3.33
वनस्पते स्तीर्णमा सीद बर्हिरग्निष्टोमैः संमितो देवताभिः ।
त्वष्ट्रेव रूपं सुकृतं स्वधित्यैना एहाः परि पात्रे ददृश्राम् ॥ १२.३.३३ ॥
林中之主啊,坐于铺开的巴尔希斯草上,由阿格尼什托姆祭仪与诸神适当地量度。正如特瓦什特里造出美好形体,愿我们看到这些以斧精心制作的器具环绕在容器周围。
12.3.34
षष्ट्यां शरत्सु निधिपा अभीच्छात्स्वः पक्वेनाभ्यश्नवातै ।
उपैनं जीवान् पितरश्च पुत्रा एतं स्वर्गं गमयान्तमग्नेः ॥ १२.३.३४ ॥
六十个秋天里,愿宝藏守护者向往天界,并以熟食得到它。愿在世的父辈与子孙将他拉近,这位被阿耆尼引往天界者。
12.3.35
धर्ता ध्रियस्व धरुणे पृथिव्या अच्युतं त्वा देवताश्च्यावयन्तु ।
तं त्वा दंपती जीवन्तौ जीवपुत्रावुद्वासयातः पर्यग्निधानात् ॥ १२.३.३५ ॥
支撑者啊,稳立于大地坚实的支撑之上;愿诸神不要动摇你这不动者。愿在世的夫妇与在世的儿子们,将你从火坛中引领出来。
12.3.36
सर्वान्त्समागा अभिजित्य लोकान् यावन्तः कामाः समतीतृपस्तान् ।
वि गाहेथामायवनं च दर्विरेकस्मिन् पात्रे अध्युद्धरैनम् ॥ १२.३.३६ ॥
征服一切世界,满足于所有的欲望,你们二人进入阿耶瓦那;在同一个容器中用勺子把它举起。
12.3.37
उप स्तृणीहि प्रथय पुरस्ताद्घृतेन पात्रमभि घारयैतत् ।
वाश्रेवोस्रा तरुणं स्तनस्युमिमं देवासो अभिहिङ्कृणोत ॥ १२.३.३७ ॥
在前面铺开并展宽;用酥油浇灌这个容器。如同哞哞叫的有乳房的母牛呼唤她的幼犊,诸神啊,就这样呼唤它。
12.3.38
उपास्तरीरकरो लोकमेतमुरुः प्रथतामसमः स्वर्गः ।
तस्मिं छ्रयातै महिषः सुपर्णो देवा एनं देवताभ्यः प्र यछान् ॥ १२.३.३८ ॥
你在下方铺开了这个世界;愿它广阔而延展,成为无与伦比的天界。愿水牛与金翅鸟在其中安息;愿诸神将它交给诸神。
12.3.39
यद्यज्जाया पचति त्वत्परःपरः पतिर्वा जाये त्वत्तिरः ।
सं तत्सृजेथां सह वां तदस्तु संपादयन्तौ सह लोकमेकम् ॥ १२.३.३९ ॥
无论妻子烹饪什么,无论丈夫或妻子离你多远,你们二人都要将其结合;愿它为你们二人共有,你们共同成就同一个世界。
12.3.40
यावन्तो अस्याः पृथिवीं सचन्ते अस्मत्पुत्राः परि ये संबभूवुः ।
सर्वांस्तामुप पात्रे ह्वयेथां नाभिं जानानाः शिशवः समायान् ॥ १२.३.४० ॥
凡依附此大地、在周围诞生的我们的儿子,你们二人都要召唤他们到那容器旁;愿知晓肚脐的孩童们聚集而来。
12.3.41
वसोर्या धारा मधुना प्रपीना घृतेन मिश्रा अमृतस्य नाभयः ।
सर्वास्ता अव रुन्धे स्वर्गः षष्ट्यां शरत्सु निधिपा अभीछात् ॥ १२.३.४१ ॥
财富之流,充满蜜汁,混以酥油,乃是不死的脐带——这一切我都在此留住。愿天界与宝藏的守护者在第六十个秋季渴望我。
12.3.42
निधिं निधिपा अभ्येनमिछादनीश्वरा अभितः सन्तु येऽन्ये ।
अस्माभिर्दत्तो निहितः स्वर्गस्त्रिभिः काण्डैस्त्रीन्त्स्वर्गान् अरुक्षत् ॥ १२.३.४२ ॥
愿宝藏的守护者渴望他;愿周围其他人无能为力。我们所给予、所安置的天界,借三部分抵达了三重天界。
12.3.43
अग्नी रक्षस्तपतु यद्विदेवं क्रव्याद्पिशाच इह मा प्र पास्त ।
नुदाम एनमप रुध्मो अस्मदादित्या एनमङ्गिरसः सचन्ताम् ॥ १२.३.४३ ॥
愿阿耆尼焚烧那无神的罗刹;愿食肉的毗舍遮不在此超过我。我们驱逐他,将他从我们身边阻挡;愿阿提提亚与安吉罗斯追随他。
12.3.44
आदित्येभ्यो अङ्गिरोभ्यो मध्विदं घृतेन मिश्रं प्रति वेदयामि ।
शुद्धहस्तौ ब्राह्मणस्यानिहत्यैतं स्वर्गं सुकृतावपीतम् ॥ १२.३.४४ ॥
我将这掺入酥油的蜜归还给阿提提亚与安吉罗斯。以婆罗门洁净的双手,不伤害他,这天界已因善行而被饮用。
12.3.45
इदं प्रापमुत्तमं काण्डमस्य यस्माल्लोकात्परमेष्ठी समाप ।
आ सिञ्च सर्पिर्घृतवत्समङ्ग्ध्येष भागो अङ्गिरसो नो अत्र ॥ १२.३.४५ ॥
我已获得这至高的篇章,从至尊者所获得它的那个世界而来。注入澄清酥油,以酥油涂抹;此处这份属于阿耆罗斯,属于我们。
12.3.46
सत्याय च तपसे देवताभ्यो निधिं शेवधिं परि दद्म एतम् ।
मा नो द्यूतेऽव गान् मा समित्यां मा स्मान्यस्मा उत्सृजता पुरा मत् ॥ १२.३.४६ ॥
为了真理与苦行,我们将此宝藏与财库献给诸神。莫使我们在博戏或集会中倒下;莫在时候未到之前将我交予他人。
12.3.47
अहं पचाम्यहं ददामि ममेदु कर्मन् करुणेऽधि जाया ।
कौमारो लोको अजनिष्ट पुत्रोऽन्वारभेथां वय उत्तरावत् ॥ १२.३.४७ ॥
我烹煮,我施予;在我的事业中,哦慈悲者,妻子依靠于我。少年之界诞生了儿子;愿你们二人获得更高的寿命。
12.3.48
न किल्बिषमत्र नाधारो अस्ति न यन् मित्रैः समममान एति ।
अनूनं पात्रं निहितं न एतत्पक्तारं पक्वः पुनरा विशाति ॥ १२.३.४८ ॥
此处无过失,亦无所缺之依托;凡事若不与朋友均分,便不会离去。此满盈之器为我们而设;煮熟之食又回到烹煮者之中。
12.3.49
प्रियं प्रियाणां कृणवाम तमस्ते यन्तु यतमे द्विषन्ति ।
धेनुरनड्वान् वयोवय आयदेव पौरुषेयमप मृत्युं नुदन्तु ॥ १२.३.४९ ॥
我们使所爱者在所爱之中更加可爱;愿憎恨我们的人去往那边。愿母牛与公牛随每一段寿命而来,将死亡从人身上驱走。
12.3.50
समग्नयः विदुरन्यो अन्यं य ओषधीः सचते यश्च सिन्धून् ।
यावन्तो देवा दिव्यातपन्ति हिरण्यं ज्योतिः पचतो बभूव ॥ १२.३.५० ॥
诸火彼此相识;与草药和河流相连者;天上闪耀的诸神有多少,烹煮者的光明便变得金黄。
12.3.51
एषा त्वचां पुरुषे सं बभूवानग्नाः सर्वे पशवो ये अन्ये ।
क्षत्रेणात्मानं परि धापयाथोऽमोतं वासो मुखमोदनस्य ॥ १२.३.५१ ॥
此物在人身中聚为皮肤,使一切动物及其他生物不致赤身裸体。以力量把你的自我周身包裹;用不坏的衣服遮盖奥达那之口。
12.3.52
यदक्षेषु वदा यत्समित्यां यद्वा वदा अनृतं वित्तकाम्या ।
समानं तन्तुमभि सम्वसानौ तस्मिन्त्सर्वं शमलं सादयाथः ॥ १२.३.५२ ॥
你在掷骰游戏中所说的,你在集会中所说的,或你出于贪财之欲所说的谎言——你们二人披着同一根线,把一切污秽都安放在其中。
12.3.53
वर्षं वनुष्वापि गच्छ देवांस्त्वचो धूमं पर्युत्पातयासि ।
विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम् ॥ १२.३.५३ ॥
降下雨水,也前往诸神那里;使烟从皮肤周围向上升起。成为遍在者,背上有酥油,成为同一根源者,抵达此世界。
12.3.54
तन्वं स्वर्गो बहुधा वि चक्रे यथा विद आत्मन्न् अन्यवर्णाम् ।
अपाजैत्कृष्णां रुशतीं पुनानो या लोहिनी तां ते अग्नौ जुहोमि ॥ १२.३.५४ ॥
天堂以多种方式分化身体,使人在自我中认识异色者。净化时他驱走了黑色与闪亮者;那赤红者,我为你投入火中献祭。
12.3.55
प्राच्यै त्वा दिशेऽग्नयेऽधिपतयेऽसिताय रक्षित्र आदित्यायेषुमते ।
एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥ १२.३.५५ ॥
我将你奉献给东方、火神、主宰者阿悉多、持箭的守护者阿提提亚。我们将此人环绕奉献;愿他守护我们的行走。愿我们被分定的寿命在此达到老年;愿衰老不将我们引向死亡;然后愿我们与成熟者共处。
12.3.56
दक्षिणायै त्वा दिश इन्द्रायाधिपतये तिरश्चिराजये रक्षित्रे यमायेषुमते ।
एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥ १२.३.५६ ॥
我将你奉献给南方、因陀罗、主宰者提拉什奇拉吉、持箭的守护者阎摩。我们将此人环绕奉献;愿他守护我们的行走。愿我们被分定的寿命在此达到老年;愿衰老不将我们引向死亡;然后愿我们与成熟者共处。
12.3.57
प्रतीच्यै त्वा दिशे वरुणायाधिपतये पृदाकवे रक्षित्रेऽन्नायेषुमते ।
एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥ १२.३.५७ ॥
我将你奉献给西方、伐楼那、主宰者普拉达库、持箭的守护者食物。我们将此人环绕奉献;愿他守护我们的行走。愿我们被分定的寿命在此达到老年;愿衰老不将我们引向死亡;然后愿我们与成熟者共处。
12.3.58
उदीच्यै त्वा दिशे सोमायाधिपतये स्वजाय रक्षित्रेऽशन्या इषुमत्यै ।
एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥ १२.३.५८ ॥
为北方方位,在苏摩的统治之下,那自生的护卫者,为雷电与多箭者,我们献上你。我们将此置于四周;从我们的行走中保护我们。愿这里为我们所定的衰老引我们走向衰朽;愿衰老不将我们交给死亡,而使我们与成熟同在。
12.3.59
ध्रुवायै त्वा दिशे विष्णवेऽधिपतये कल्माषग्रीवाय रक्षित्र ओषधीभ्य इषुमतीभ्यः ।
एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥ १२.३.५९ ॥
为固定方位,在毗湿奴的统治之下,为斑颈者的护卫,为多箭的草药,我们献上你。我们将此置于四周;从我们的行走中保护我们。愿这里为我们所定的衰老引我们走向衰朽;愿衰老不将我们交给死亡,而使我们与成熟同在。
12.3.60
ऊर्ध्वायै त्वा दिशे बृहस्पतयेऽधिपतये श्वित्राय रक्षित्रे वर्षायेषुमते ।
एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥ १२.३.६० ॥
为上方方位,在布里哈斯帕蒂的统治之下,为白癞病的护卫,为多箭的雨,我们献上你。我们将此置于四周;从我们的行走中保护我们。愿这里为我们所定的衰老引我们走向衰朽;愿衰老不将我们交给死亡,而使我们与成熟同在。