Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 12.4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.4.1

ददामीत्येव ब्रूयादनु चैनामभुत्सत ।
वशां ब्रह्मभ्यो याचद्भ्यस्तत्प्रजावदपत्यवत् ॥ १२.४.१ ॥

应说“我给”,之后不可轻视她。对求乞的婆罗门应给予母牛(vaśā);她便有子嗣与后代。

12.4.2

प्रजया स वि क्रीणीते पशुभिश्चोप दस्यति ।
य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ॥ १२.४.२ ॥

他以子嗣赎回自己,也因牲畜而败落——凡不愿把诸神之牛给予求乞的仙人后裔婆罗门者。

12.4.3

कूटयास्य सं शीर्यन्ते श्लोणया काटमर्दति ।
बण्डया दह्यन्ते गृहाः काणया दीयते स्वम् ॥ १२.४.३ ॥

因他的“弯者”(kūṭā)其财产毁灭;因“跛者”(ślokṇā)他挖坑;因“不育者”(baṇḍyā)房屋焚毁;因“独眼者”(kāṇā)他自己的财产被送出。

12.4.4

विलोहितो अधिष्ठानाच्छक्नो विन्दति गोपतिम् ।
तथा वशायाः संविद्यं दुरदभ्ना ह्युच्यसे ॥ १२.४.४ ॥

赤色的 śakna(有害之虫)从其所在之处找到牛主;同样,对 vaśā 也有了解——因为你被称为难以欺骗者(durad-bhnā)。

12.4.5

पदोरस्या अधिष्ठानाद्विक्लिन्दुर्नाम विन्दति ।
अनामनात्सं शीर्यन्ते या मुखेनोपजिघ्रति ॥ १२.४.५ ॥

从她脚所在之处,名为 viklindu 者找到他;因不屈者(anāmanā)万物毁灭——她用口嗅闻。

12.4.6

यो अस्याः कर्णावास्कुनोत्या स देवेषु वृश्चते ।
लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम् ॥ १२.४.६ ॥

凡割其耳者,在诸神中被斩断;他以为“我做记号”,却因变得卑下而给自己造成(损失)。

12.4.7

यदस्याः कस्मै चिद्भोगाय बालान् कश्चित्प्रकृन्तति ।
ततः किशोरा म्रियन्ते वत्सांश्च घातुको वृकः ॥ १२.४.७ ॥

若有人为了某种享用而割裂此(牛)的牛犊,那么少年便会死去,杀戮的狼也会杀死牛犊。

12.4.8

यदस्या गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिडत् ।
ततः कुमारा म्रियन्ते यक्ष्मो विन्दत्यनामनात् ॥ १२.४.८ ॥

当此(牛)在牛主那里时,若乌鸦愤怒地抖动其毛,那么孩童便会死去;消耗之病(yakṣma)攫住不屈身的人。

12.4.9

यदस्याः पल्पूलनं शकृद्दासी समस्यति ।
ततोऽपरूपं जायते तस्मादव्येष्यदेनसः ॥ १२.४.९ ॥

当女仆将此(牛)的 pal-pūlana(搅动粪便)与粪便混合时,便生出畸形;因此人不能脱离罪孽。

12.4.10

जायमानाभि जायते देवान्त्सब्राह्मणान् वशा ।
तस्माद्ब्रह्मभ्यो देयैषा तदाहुः स्वस्य गोपनम् ॥ १२.४.१० ॥

初生的 vaśā 与诸神及婆罗门一同降生;因此应将此(牛)施予婆罗门;人们说这是自己的守护。

12.4.11

य एनां वनिमायन्ति तेषां देवकृता वशा ।
ब्रह्मज्येयं तदब्रुवन् य एनां निप्रियायते ॥ १२.४.११ ॥

对于前来向她乞求的人,vaśā 是由诸神所造;他们说,滥用她的人犯了伤害婆罗门之罪。

12.4.12

य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ।
आ स देवेषु वृश्चते ब्राह्मणानां च मन्यवे ॥ १२.४.१२ ॥

谁不愿将诸神之牛施予求取的仙人后裔,谁便在诸神之中被割离,并成为婆罗门愤怒的目标。

12.4.13

यो अस्य स्याद्वशाभोगो अन्यामिछेत तर्हि सः ।
हिंस्ते अदत्ता पुरुषं याचितां च न दित्सति ॥ १२.४.१३ ॥

若享用此婆莎母牛者又想要另一头,她便伤害他;对求而不给者,她也加以伤害。

12.4.14

यथा शेवधिर्निहितो ब्राह्मणानां तथा वशा ।
तामेतदछायन्ति यस्मिन् कस्मिंश्च जायते ॥ १२.४.१४ ॥

如同婆罗门所藏的宝藏,婆莎母牛亦然;无论她生于何处,他们都照看她。

12.4.15

स्वमेतदछायन्ति यद्वशां ब्राह्मणा अभि ।
यथैनान् अन्यस्मिन् जिनीयादेवास्या निरोधनम् ॥ १२.४.१५ ॥

婆罗门视此婆莎母牛为自己所有而前去;愿诸神借她的约束,使他们胜过他人。

12.4.16

चरेदेवा त्रैहायणादविज्ञातगदा सती ।
वशां च विद्यान् नारद ब्राह्मणास्तर्ह्येष्याः ॥ १२.४.१६ ॥

诸神啊,愿那病因不明的婆莎母牛自三岁小牛起四处游走;那罗陀啊,你当识得婆莎母牛,那时婆罗门再去接近她。

12.4.17

य एनामवशामाह देवानां निहितं निधिम् ।
उभौ तस्मै भवाशर्वौ परिक्रम्येषुमस्यतः ॥ १२.४.१७ ॥

称她为“非不育”者,是轻慢诸神所藏的宝藏;绕行于他之后,婆婆与舍尔瓦二神皆向他射出箭矢。

12.4.18

यो अस्या ऊधो न वेदाथो अस्या स्तनान् उत ।
उभयेनैवास्मै दुहे दातुं चेदशकद्वशाम् ॥ १२.४.१८ ॥

对于不知她乳房与乳头者,若婆莎母牛能够给予,她便从两者为他挤出奶来。

12.4.19

दुरदभ्नैनमा शये याचितां च न दित्सति ।
नास्मै कामाः समृध्यन्ते यामदत्त्वा चिकीर्षति ॥ १२.४.१९ ॥

那难以制服的母牛击倒了那不愿在被请求时给予的人。那想不给予便行事的人,他的愿望不能实现。

12.4.20

देवा वशामयाचन् मुखं कृत्वा ब्राह्मणम् ।
तेषां सर्वेषामददद्धेडं न्येति मानुषः ॥ १२.४.२० ॥

诸神以婆罗门为口,求取不育母牛 Vaśā。把她给予他们所有人的人,会落入愤怒(heḍa)之下。

12.4.21

हेडं पशूनां न्येति ब्राह्मणेभ्योऽददद्वशाम् ।
देवानां निहितं भागं मर्त्यश्चेन् निप्रियायते ॥ १२.४.२१ ॥

把母牛 Vaśā 给予婆罗门的人,会落入牲畜的愤怒(heḍa)之下。若凡人扣留了为诸神所设的份额,便变得令人不悦……

12.4.22

यदन्ये शतं याचेयुर्ब्राह्मणा गोपतिं वशाम् ।
अथैनां देवा अब्रुवन्न् एवं ह विदुषो वशा ॥ १२.४.२२ ॥

当另外一百位婆罗门向牛主求取母牛 Vaśā 时,诸神对她说:「这样,Vaśā 便属于知者。」

12.4.23

य एवं विदुषेऽदत्त्वाथान्येभ्यो ददद्वशाम् ।
दुर्गा तस्मा अधिष्ठाने पृथिवी सहदेवता ॥ १२.४.२३ ॥

对于那不把她给予知者,却把母牛 Vaśā 给予他人的人,他居所中的大地连同诸神都变得难以穿越。

12.4.24

देवा वशामयाचन् यस्मिन्न् अग्रे अजायत ।
तामेतां विद्यान् नारदः सह देवैरुदाजत ॥ १२.४.२४ ॥

诸神求取 Vaśā,她是在起初诞生的。知者那罗陀与诸神一起将她引向高处。

12.4.25

अनपत्यमल्पपशुं वशा कृणोति पूरुषम् ।
ब्राह्मणैश्च याचितामथैनां निप्रियायते ॥ १२.४.२५ ॥

不育的母牛使男子无子且牲畜稀少;当婆罗门求取她时,她便对他变得可爱。

12.4.26

अग्नीषोमाभ्यां कामाय मित्राय वरुणाय च ।
तेभ्यो याचन्ति ब्राह्मणास्तेष्वा वृश्चतेऽददत् ॥ १२.४.२६ ॥

为阿耆尼与苏摩、为欲、为密特拉与伐楼那;婆罗门向他们求取,而在他们之中,施予者在施予时割舍了(自己的一份)。

12.4.27

यावदस्या गोपतिर्नोपशृणुयादृचः स्वयम् ।
चरेदस्य तावद्गोषु नास्य श्रुत्वा गृहे वसेत् ॥ १२.४.२७ ॥

在牛主亲自听到此婆舍的颂诗之前,他应在牛群中游荡;听闻之后,他不应居于家中。

12.4.28

यो अस्या ऋच उपश्रुत्याथ गोष्वचीचरत् ।
आयुश्च तस्य भूतिं च देवा वृश्चन्ति हीडिताः ॥ १२.४.२८ ॥

凡听闻此婆舍诗颂之后仍在牛群中游荡者,诸神震怒,断其寿命与福祉。

12.4.29

वशा चरन्ती बहुधा देवानां निहितो निधिः ।
आविष्कृणुष्व रूपाणि यदा स्थाम जिघांसति ॥ १२.४.२९ ॥

婆舍以种种形态游行,是诸神安置的宝藏。当她想要杀害时,你便显现你的形相。

12.4.30

आविरात्मानं कृणुते यदा स्थाम जिघांसति ।
अथो ह ब्रह्मभ्यो वशा याञ्च्याय कृणुते मनः ॥ १२.४.३० ॥

当她想要杀害时,她便显露自身;随后婆舍使其心意准备好,以便被婆罗门所求取。

12.4.31

मनसा सं कल्पयति तद्देवामपि गच्छति ।
ततो ह ब्रह्माणो वशामुपप्रयन्ति याचितुम् ॥ १२.४.३१ ॥

心中所定之事,亦能到达诸神。于是婆罗门前来向不育之牝牛婆沙求取。

12.4.32

स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्यः ।
दानेन राजन्यो वशाया मातुर्हेडं न गच्छति ॥ १२.४.३२ ॥

以斯瓦达供奉祖先,以祭祀奉献诸神,以布施施予,刹帝利便不会触怒婆莎之母。

12.4.33

वशा माता राजन्यस्य तथा संभूतमग्रशः ।
तस्या आहुरनर्पणं यद्ब्रह्मभ्यः प्रदीयते ॥ १२.४.३३ ॥

婆沙是刹帝利之母;如此她最先生成。人们说,给予婆罗门之物对她而言即是“不奉献”(阿那波那)。

12.4.34

यथाज्यं प्रगृहीतमालुम्पेत्स्रुचो अग्नये ।
एवा ह ब्रह्मभ्यो वशामग्नय आ वृश्चतेऽददत् ॥ १२.४.३४ ॥

如为阿耆尼取出的酥油从勺中洒落,同样,把婆沙给予婆罗门者,便被阿耆尼切断。

12.4.35

पुरोडाशवत्सा सुदुघा लोकेऽस्मा उप तिष्ठति ।
सास्मै सर्वान् कामान् वशा प्रददुषे दुहे ॥ १२.४.३५ ॥

以原陀首为犊、易于挤奶的婆沙,在此世界中侍立于他身旁;她为施予者挤出一切愿望。

12.4.36

सर्वान् कामान् यमराज्ये वशा प्रददुषे दुहे ।
अथाहुर्नारकं लोकं निरुन्धानस्य याचिताम् ॥ १२.४.३६ ॥

在阎摩之国,婆沙为施予者挤出一切愿望。又有人说,凡阻拦乞求者,便落入地狱(那洛迦)之世界。

12.4.37

प्रवीयमाना चरति क्रुद्धा गोपतये वशा ।
वेहतं मा मन्यमानो मृत्योः पाशेषु बध्यताम् ॥ १२.४.३७ ॥

被驱赶向前的愤怒母牛Vaśā为牲畜之主而游荡。愿视我为恶者的人被缚于死亡的绳索之中。

12.4.38

यो वेहतं मन्यमानोऽमा च पचते वशाम् ।
अप्यस्य पुत्रान् पौत्रांश्च याचयते बृहस्पतिः ॥ १२.४.३८ ॥

凡视我为恶者而将不熟之肉与母牛Vaśā同煮的人,愿Bṛhaspati使他的儿子和孙子乞讨。

12.4.39

महदेषाव तपति चरन्ती गोषु गौरपि ।
अथो ह गोपतये वशाददुषे विषं दुहे ॥ १२.४.३९ ॥

这头母牛Vaśā在牛群中游荡,极为灼热;为牲畜之主,她为献出Vaśā者挤出毒液。

12.4.40

प्रियं पशूनां भवति यद्ब्रह्मभ्यः प्रदीयते ।
अथो वशायास्तत्प्रियं यद्देवत्रा हविः स्यात् ॥ १२.४.४० ॥

给予婆罗门之物为牲畜所喜爱;而母牛Vaśā所喜爱的,是在诸神之中成为供物的。

12.4.41

या वशा उदकल्पयन् देवा यज्ञादुदेत्य ।
तासां विलिप्त्यं भीमामुदाकुरुत नारदः ॥ १२.४.४१ ॥

诸神从祭祀中起身,使母牛Vaśā如水一般——那Nārada使她们可怕的污秽升起。

12.4.42

तां देवा अमीमांसन्त वशेया३ अवशेति ।
तामब्रवीन् नारद एषा वशानां वशतमेति ॥ १२.४.४२ ॥

诸神议论她:“她是Vaśā还是非Vaśā?”Nārada对她说:“她将归于诸Vaśā中最不育的那一位。”

12.4.43

कति नु वशा नारद यास्त्वं वेत्थ मनुष्यजाः ।
तास्त्वा पृच्छामि विद्वांसं कस्या नाश्नीयादब्राह्मणः ॥ १२.४.४३ ॥

那罗陀,你知道人所生的婆沙有几种?博学者,我问你:非婆罗门不应食用哪一种婆沙?

12.4.44

विलिप्त्या बृहस्पते या च सूतवशा वशा ।
तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥ १२.४.४४ ॥

啊,布利哈斯帕蒂,被涂抹的婆沙与苏多婆沙——渴望富足的非婆罗门不应食用。

12.4.45

नमस्ते अस्तु नारदानुष्ठु विदुषे वशा ।
कतमासां भीमतमा यामदत्त्वा पराभवेत् ॥ १२.४.४५ ॥

那罗陀,向你致敬;博学的阿努什图布,婆沙中哪一种最为可怖,不予之则人遭毁灭?

12.4.46

विलिप्ती या बृहस्पतेऽथो सूतवशा वशा ।
तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥ १२.४.४६ ॥

啊,布利哈斯帕蒂,被涂抹的婆沙与苏多婆沙——渴望富足的非婆罗门不应食用。

12.4.47

त्रीणि वै वशाजातानि विलिप्ती सूतवशा वशा ।
ताः प्र यच्छेद्ब्रह्मभ्यः सोऽनाव्रस्कः प्रजापतौ ॥ १२.४.४७ ॥

婆沙生出三种:被涂抹者、苏多婆沙与婆沙;将它们施予婆罗门者,在生主中无所损伤。

12.4.48

एतद्वो ब्राह्मणा हविरिति मन्वीत याचितः ।
वशां चेदेनं याचेयुर्या भीमाददुषो गृहे ॥ १२.४.४८ ॥

被请求时,应思念:'婆罗门们,这是你们的供物。'若婆罗门求取婆沙,应在曾施予可怕婆沙之家施予。

12.4.49

देवा वशां पर्यवदन् न नोऽदादिति हीडिताः ।
एताभिर्ऋग्भिर्भेदं तस्माद्वै स पराभवत् ॥ १२.४.४९ ॥

诸神责备母牛(vaśā)说:“她没有给我们”;愤怒之下,他们用这些颂诗惩罚了Bheda,因此他被打败了。

12.4.50

उतैनां भेदो नाददाद्वशामिन्द्रेण याचितः ।
तस्मात्तं देवा आगसोऽवृश्चन्न् अहमुत्तरे ॥ १२.४.५० ॥

Bheda在因陀罗索取时也没有交出这头母牛;因此诸神使他脱离了罪过——(在随后的颂诗中)“我是至高者”。

12.4.51

ये वशाया अदानाय वदन्ति परिरापिणः ।
इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ॥ १२.४.५१ ॥

那些因不给母牛(vaśā)而诽谤的人,因因陀罗的愤怒、因无知而如恶人般被斩断。

12.4.52

ये गोपतिं पराणीयाथाहुर्मा ददा इति ।
रुद्रस्यास्तां ते हेतीं परि यन्त्यचित्त्या ॥ १२.४.५२ ॥

那些带走牲畜之主(母牛vaśā)并说“不要给”的人,周围会有楼陀罗的武器盘旋——因无知之故。

12.4.53

यदि हुतां यद्यहुताममा च पचते वशाम् ।
देवान्त्सब्राह्मणान् ऋत्वा जिह्मो लोकान् निर्ऋच्छति ॥ १२.४.५३ ॥

无论是否将母牛(vaśā)献为供物,若将其生煮,他便伤害诸神与婆罗门,因邪曲而从诸世界堕落。