阿闼婆吠陀 · 颂诗(Sūkta) 13.2
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.2.1
उदस्य केतवो दिवि शुक्रा भ्राजन्त ईरते ।
आदित्यस्य नृचक्षसो महिव्रतस्य मीढुषः ॥ १३.२.१ ॥
此太阳的明亮光线在天上闪耀升起,属于观察众人、大愿、降雨的阿底提亚。
13.2.2
दिशां प्रज्ञानां स्वरयन्तमर्चिषा सुपक्षमाशुं पतयन्तमर्णवे ।
स्तवाम सूर्यं भुवनस्य गोपां यो रश्मिभिर्दिश आभाति सर्वाः ॥ १३.२.२ ॥
让我们赞颂那太阳:他以光明使诸方与众界回响,有美丽的翅膀,迅捷,飞翔于天空之海,是世界的守护者,以光线照耀一切方位。
13.2.3
यत्प्राङ्प्रत्यङ्स्वधया यासि शीभं नानारूपे अहनी कर्षि मायया ।
तदादित्य महि तत्ते महि श्रवो यदेको विश्वं परि भूम जायसे ॥ १३.२.३ ॥
啊,阿底提亚!当你凭自身之力疾速向东西而行,以你的幻力造出形态各异的昼日,那便是你的伟大荣光;因为你独自绕着整个世界而生。
13.2.4
विपश्चितं तरणिं भ्राजमानं वहन्ति यं हरितः सप्त बह्वीः ।
स्रुताद्यमत्त्रिर्दिवमुन्निनाय तं त्वा पश्यन्ति परियान्तमाजिम् ॥ १३.२.४ ॥
那智慧、渡越、光耀的神,由七匹赤褐色的骏马驾载,阿特里从水流中将他举上天空;绕行的你,人们在他们的路上望见。
13.2.5
मा त्वा दभन् परियान्तमाजिं स्वस्ति दुर्गामति याहि शीभम् ।
दिवं च सूर्य पृथिवीं च देवीमहोरात्रे विमिमानो यदेषि ॥ १३.२.५ ॥
愿无人伤害你这绕行者;愿你平安地迅速越过艰险之路。啊,太阳!当你在天与神圣大地之间丈量昼夜而行时。
13.2.6
स्वस्ति ते सूर्य चरसे रथाय येनोभावन्तौ परियासि सद्यः ।
यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥ १३.२.६ ॥
太阳啊,愿你的战车吉祥,你借此瞬间环绕两端。那辆由你最强健的枣红骏马所拉的车——一百匹马,或七群众马。
13.2.7
सुखं सूर्य रथमंशुमन्तं स्योनं सुवह्निमधि तिष्ठ वाजिनम् ।
यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥ १३.२.७ ॥
太阳啊,登上那辆喜乐、光辉、舒适、易于牵引而迅疾的战车吧。那辆由你最强健的枣红骏马所载的车——一百匹马,或七群众马。
13.2.8
सप्त सूर्यो हरितो यातवे रथे हिरण्यत्वचसो बृहतीरयुक्त ।
अमोचि शुक्रो रजसः परस्ताद्विधूय देवस्तमो दिवमारुहत् ॥ १३.२.८ ॥
太阳为行程在战车上套上七匹枣红骏马——金色皮毛,高大雄壮。光明纯净者从远方、从黑暗之域之外被释放;神抖落黑暗,升上天空。
13.2.9
उत्केतुना बृहता देव आगन्न् अपावृक्तमोऽभि ज्योतिरश्रैत् ।
दिव्यः सुपर्णः स वीरो व्यख्यददितेः पुत्रो भुवनानि विश्वा ॥ १३.२.९ ॥
神带着巨大的光明旗帜而来;驱散黑暗,他迎向光明。那神圣的美羽勇士、阿底提之子,照耀一切世界。
13.2.10
उद्यन् रश्मीन् आ तनुषे विश्वा रुपाणि पुष्यसि ।
उभा समुद्रौ क्रतुना वि भासि सर्वांल्लोकान् परिभूर्भ्राजमानः ॥ १३.२.१० ॥
你升起时伸展光芒,滋养一切形相。凭你的力量照亮两大海洋;你高居一切世界之上,光辉耀眼。
13.2.11
पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् ।
विश्वान्यो भुवना विचष्टे हैरण्यैरन्यं हरितो वहन्ति ॥ १३.२.११ ॥
这两个孩童行于东西,凭借幻力嬉戏,绕行大海。一人遍观诸世界;另一人由金色的黄绿色骏马载行。
13.2.12
दिवि त्वात्त्रिरधारयत्सूर्या मासाय कर्तवे ।
स एषि सुधृतस्तपन् विश्वा भूतावचाकशत् ॥ १३.२.१२ ॥
阿特里在天上为苏利雅而立你,以成就月份。你稳固地前行,发光炽热,俯视一切众生。
13.2.13
उभावन्तौ समर्षसि वत्सः संमातराविव ।
नन्वेतदितः पुरा ब्रह्म देवा अमी विदुः ॥ १३.२.१३ ॥
你同时穿越两端,如牛犊行于两母之间。确实,此梵,诸神自古即从此知晓。
13.2.14
यत्समुद्रमनु श्रितं तत्सिषासति सूर्यः ।
अध्वास्य विततो महान् पूर्वश्चापरश्च यः ॥ १३.२.१४ ॥
凡栖于大海之侧者,太阳欲得之。其道广大而伟,既为先,也为后。
13.2.15
तं समाप्नोति जूतिभिस्ततो नाप चिकित्सति ।
तेनामृतस्य भक्षं देवानां नाव रुन्धते ॥ १३.२.१५ ॥
他以诸速抵达之,从彼处不觉远方。凭此,不死之分属于诸神;他们不加阻拦。
13.2.16
उदु त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम् ॥ १३.२.१६ ॥
诸光线将那全知之神,即太阳,高高托起,使一切众生得见。
13.2.17
अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।
सूराय विश्वचक्षसे ॥ १३.२.१७ ॥
如盗贼般,星辰随夜而去,为那洞见一切的太阳。
13.2.18
अदृश्रन्न् अस्य केतवो वि रश्मयो जनामनु ।
भ्राजन्तो अग्नयो यथा ॥ १३.२.१८ ॥
他的光芒显现,光束射向众人,如同明亮的火焰。
13.2.19
तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।
विश्वमा भासि रोचन ॥ १३.२.१९ ॥
太阳啊,你是引渡者,为一切所见,创造光明;光耀者啊,你照亮整个世界。
13.2.20
प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः ।
प्रत्यङ्विश्वं स्वर्दृशे ॥ १३.२.२० ॥
面向诸神的部族,你升起;面向人类的部族,你升起;面向万物,你面向天空,为了看见它。
13.2.21
येना पावक चक्षसा भुरण्यन्तं जनाँ अनु ।
त्वं वरुण पश्यसि ॥ १३.२.२१ ॥
净化者啊,你以那注视在人间行走者的目光,以那目光,婆罗那啊,你观看。
13.2.22
वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः ।
पश्यन् जन्मानि सूर्य ॥ १३.२.२२ ॥
太阳啊,你穿越天空与广阔的虚空,以昼夜丈量时日,注视着一切生灵。
13.2.23
सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।
शोचिष्केशं विचक्षणम् ॥ १३.२.२३ ॥
神啊太阳,七匹黄骠马在车中载着你——火焰之发、洞察一切的你。
13.2.24
अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।
ताभिर्याति स्वयुक्तिभिः ॥ १३.२.२४ ॥
车之孙太阳套上了七匹闪亮的马;他以那自行套上的马而前行。
13.2.25
रोहितो दिवमारुहत्तपसा तपस्वी ।
स योनिमैति स उ जायते पुनः स देवानामधिपतिर्बभूव ॥ १३.२.२५ ॥
赤色的罗希多以苦行升上天界;那苦行者又回到其源头,再度诞生——他成为诸神之主。
13.2.26
यो विश्वचर्षणिरुत विश्वतोमुखो यो विश्वतस्पाणिरुत विश्वतस्पृथः ।
सं बाहुभ्यां भरति सं पतत्रैर्द्यावापृथिवी जनयन् देव एकः ॥ १३.२.२६ ॥
他遍见一切,面向四方,四处有手,四方广大;以双臂与羽翼聚合承载——这唯一的神生出天与地。
13.2.27
एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात् ।
द्विपाद्ध षट्पदो भूयो वि चक्रमे त एकपदस्तन्वं समासते ॥ १३.२.२७ ॥
独足者成为双足者又再次前行;双足者跟随三足者而来;双足者成为六足者又再次前行——他们一同坐在独足的身体之中。
13.2.28
अतन्द्रो यास्यन् हरितो यदास्थाद्द्वे रूपे कृणुते रोचमानः ।
केतुमान् उद्यन्त्सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि ॥ १३.२.२८ ॥
行进而不知疲倦的他,登上黄骠马时,闪耀着化为两种形相;啊,阿底提亚,你高举旌旗升起,征服一切界域,从高处光辉照耀。
13.2.29
बण्महाँ असि सूर्य बडादित्य महाँ असि ।
महांस्ते महतो महिमा त्वमादित्य महाँ असि ॥ १३.२.२९ ॥
啊太阳,你确实伟大;啊阿底提耶,你伟大。你的伟大是伟大者的伟大;啊阿底提耶,你伟大。
13.2.30
रोचसे दिवि रोचसे अन्तरिक्षे पतङ्ग पृथिव्यां रोचसे रोचसे अप्स्वन्तः ।
उभा समुद्रौ रुच्या व्यापिथ देवो देवासि महिषः स्वर्जित् ॥ १३.२.३० ॥
你在天上照耀,在虚空中照耀;啊飞翔者,你在大地上照耀,在水中照耀。你以光辉遍布两大海洋;你是神,是神,是强大的,是征服天光的。
13.2.31
अर्वाङ्परस्तात्प्रयतो व्यध्व आशुर्विपश्चित्पतयन् पतङ्गः ।
विष्णुर्विचित्तः शवसाधितिष्ठन् प्र केतुना सहते विश्वमेजत् ॥ १३.२.३१ ॥
从远方来到这里,前进,穿越道路,迅捷,智慧,飞翔的鸟;毗湿奴,心意多变,以力量屹立,以光辉胜过一切动者。
13.2.32
चित्रश्चिकित्वान् महिषः सुपर्ण आरोचयन् रोदसी अन्तरिक्षम् ।
अहोरात्रे परि सूर्यं वसाने प्रास्य विश्वा तिरतो वीर्याणि ॥ १३.२.३२ ॥
奇妙、明辨、强大的美翼之鸟,照亮两界与虚空,围绕太阳披着昼夜;他使其一切威力之事得以跨越。
13.2.33
तिग्मो विभ्राजन् तन्वं शिशानोऽरंगमासः प्रवतो रराणः ।
ज्योतिष्मान् पक्षी महिषो वयोधा विश्वा आस्थात्प्रदिशः कल्पमानः ॥ १३.२.३३ ॥
锐利、光辉闪耀、磨砺其身,与来自远路的疾驰之马同乐;充满光明的飞鸟,强大,赐予活力,他立于一切方位之上,安排它们。
13.2.34
चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् ।
दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः ॥ १३.२.३४ ॥
诸神奇异的旗帜,光明的面容,太阳在四方升起。昼之创造者以其光辉超越了一切黑暗与灾厄;他是纯洁的。
13.2.35
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
आप्राद् द्वायापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥ १३.२.३५ ॥
诸神奇异的光辉升起了,那是米特拉、伐楼那与阿耆尼的眼睛。它充满了天、地与虚空;太阳是运动与静止之世界的灵魂。
13.2.36
उच्चा पतन्तमरुणं सुपर्णं मध्ये दिवस्तरणिं भ्राजमानम् ।
पश्याम त्वा सवितारं यमाहुरजस्रं ज्योतिर्यदविन्ददत्त्रिः ॥ १३.२.३६ ॥
愿我们看见那高飞的赤色金翅鸟,在天空中央闪耀的快者。愿我们见到你,萨维特里,他们称之为不息之光,他们三次获得了它。
13.2.37
दिवस्पृष्ठे धावमानं सुपर्णमदित्याः पुत्रं नाथकाम उप यामि भीतः ।
स नः सूर्य प्र तिर दीर्घमायुर्मा रिषाम सुमतौ ते स्याम ॥ १३.२.३७ ॥
我怀着恐惧,寻求庇护,走向在天脊上奔跑的良翼者,阿底提之子。哦太阳,引领我们渡向长寿;愿我们不灭亡,愿我们在你的恩典之中。
13.2.38
सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।
स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥ १३.२.३८ ॥
他那千日之久的双翼展开,是那赤黄的天鹅飞向天界。他将诸神托于胸前,一边注视,一边行经一切世界。
13.2.39
रोहितः कालो अभवद्रोहितोऽग्रे प्रजापतिः ।
रोहितो यज्ञानां मुखं रोहितः स्वराभरत् ॥ १३.२.३९ ॥
赤色者成为时间;赤色者起初成为生主。赤色者是祭祀之面;赤色者带来了天界。
13.2.40
रोहितो लोको अभवद्रोहितोऽत्यतपद्दिवम् ।
रोहितो रश्मिभिर्भूमिं समुद्रमनु सं चरत् ॥ १३.२.४० ॥
赤色者成为世界;赤色者灼烧天空。赤色者以光线遍行大地与大海。
13.2.41
सर्वा दिशः समचरद्रोहितोऽधिपतिर्दिवः ।
दिवं समुद्रमाद्भूमिं सर्वं भूतं वि रक्षति ॥ १३.२.४१ ॥
赤色者遍行诸方;他是天之主宰。他守护天空、大海、大地与一切众生。
13.2.42
आरोहन् छुक्रो बृहतीरतन्द्रो द्वे रूपे कृणुते रोचमानः ।
चित्रश्चिकित्वान् महिषो वातमाया यावतो लोकान् अभि यद्विभाति ॥ १३.२.४२ ॥
光明者不知疲倦,升上高天,化为两种形态而照耀。他奇妙、智慧、伟大,具风之幻术,照耀于所有的世界之上。
13.2.43
अभ्यन्यदेति पर्यन्यदस्यतेऽहोरात्राभ्यां महिषः कल्पमानः ।
सूर्यं वयं रजसि क्षियन्तं गातुविदं हवामहे नाधमानाः ॥ १३.२.४३ ॥
他走向一方,又在另一方落下;这伟大者以昼夜安排时间。我们恳切祈求,呼唤居于虚空、知晓道路的太阳。
13.2.44
पृथिवीप्रो महिषो नाधमानस्य गातुरदब्धचक्षुः परि विश्वं बभूव ।
विश्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि ॥ १३.२.४४ ॥
充满大地的伟大者,知晓祈求者之路,目光无误,已遍及万物。善于洞见一切的良善施予者、值得祭拜者,愿他听到我所说的。
13.2.45
पर्यस्य महिमा पृथिवीं समुद्रं ज्योतिषा विभ्राजन् परि द्यामन्तरिक्षम् ।
सर्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि ॥ १३.२.४५ ॥
他的威严以光明照耀大地与海洋,遍布天空与中间的虚空。愿那洞察一切、慷慨而值得敬拜的他,聆听我所说的话。
13.2.46
अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् ।
यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छ ॥ १३.२.४६ ॥
阿耆尼被众人的薪柴点燃,如牛般朝向将至的晨曦。年轻的光芒升起并展开,如织物般延伸,伸向天空。