Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 14.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.1.1

सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः ।
ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः ॥ १४.१.१ ॥

以真理,大地得以支撑;以太阳,天空得以支撑。以秩序,阿提亚们屹立;Soma 安居于天上。

14.1.2

सोमेनादित्या बलिनः सोमेन पृथिवी मही ।
अथो नक्षत्राणामेषामुपस्थे सोम आहितः ॥ १४.१.२ ॥

借助 Soma,阿提亚们强大;借助 Soma,广大的大地有力。在这些星辰的怀抱中,Soma 被安放。

14.1.3

सोमं मन्यते पपिवान् यत्संपिंषन्त्योषधिम् ।
सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति पार्थिवः ॥ १४.१.३ ॥

饮者以为那是 Soma,当人们一起捣碎草药时;婆罗门所知的那个 Soma,地上之人不食用它。

14.1.4

यत्त्वा सोम प्रपिबन्ति तत आ प्यायसे पुनः ।
वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥ १४.१.४ ॥

Soma 啊,当他们饮你时,之后你又会再次增长、更新。风神是 Soma 的守护者;月份是年的形态。

14.1.5

आच्छद्विधानैर्गुपितो बार्हतैः सोम रक्षितः ।
ग्राव्णामिच्छृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः ॥ १४.१.५ ॥

以覆盖的仪轨遮蔽,由大者守护,Soma 啊,你站立着聆听压榨石的声音;地上之人不食用你。

14.1.6

चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम् ।
द्यौर्भूमिः कोश आसीद्यदयात्सूर्या पतिम् ॥ १४.१.६ ॥

思想是她的枕头,眼睛是她的膏油;天与地是她的匣子,当苏尔雅前往她的夫君之时。

14.1.7

रैभ्यासीदनुदेयी नाराशंसी न्योचनी ।
सूर्याया भद्रमिद्वासो गाथयैति परिष्कृता ॥ १४.१.७ ॥

Raibhyā、Anudeyī、Nārāśaṃsī与Nyocanī在此;苏尔雅吉祥的衣裳伴随颂歌装饰而来。

14.1.8

स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपशः ।
सूर्याया अश्विना वराग्निरासीत्पुरोगवः ॥ १४.१.८ ॥

赞歌成为相应的支撑;kurīra与韵律为opaśa;苏尔雅的新郎是双马童,阿耆尼走在前面。

14.1.9

सोमो वधूयुरभवदश्विनास्तामुभा वरा ।
सूर्यां यत्पत्ये शंसन्तीं मनसा सविताददात् ॥ १४.१.९ ॥

苏摩成为求婚者,双马童皆为新郎。当萨维特里以心意把歌颂的苏尔雅交给丈夫时。

14.1.10

मनो अस्या अन आसीद्द्यौरासीदुत च्छदिः ।
शुक्रावनड्वाहावास्तां यदयात्सूर्या पतिम् ॥ १४.१.१० ॥

她的心为车,天空为顶盖;当苏尔雅前往夫君处时,有两头光明的牛拉车。

14.1.11

ऋक्सामाभ्यामभिहितौ गावौ ते सामनावैताम् ।
श्रोत्रे ते चक्रे आस्तां दिवि पन्थाश्चराचरः ॥ १४.१.११ ॥

两头由颂诗与娑摩所驾的牛;你的娑摩已行;你的耳为两轮;天上之路有动有静。

14.1.12

शुची ते चक्रे यात्या व्यानो अक्ष आहतः ।
अनो मनस्मयं सूर्यारोहत्प्रयती पतिम् ॥ १४.१.१२ ॥

你的两轮为旅程而明亮;遍行气息被固定为车轴;苏尔雅乘以心意所造之车,出发而登上夫君。

14.1.13

सूर्याया वहतुः प्रागात्सविता यमवासृजत् ।
मघासु हन्यन्ते गावः फल्गुनीषु व्युह्यते ॥ १४.१.१३ ॥

苏尔亚的婚礼队伍出发了,这是萨维特里所派遣的;在摩伽星宿时宰杀牛只,在颇勒古尼星宿时新娘被迎走。

14.1.14

यदश्विना पृच्छमानावयातं त्रिचक्रेण वहतुं सूर्यायाः ।
क्वैकं चक्रं वामासीत्क्व देष्ट्राय तस्थथुः ॥ १४.१.१४ ॥

双马童啊,当你们以三轮车前来打听,赶赴苏尔亚的婚礼队伍时,你们的那一只轮子在哪里?你们为了赠礼站在何处?

14.1.15

यदयातं शुभस्पती वरेयं सूर्यामुप ।
विश्वे देवा अनु तद्वामजानन् पुत्रः पितरमवृणीत पूषा ॥ १४.१.१५ ॥

光辉的主人啊,当你们作为新郎走向苏尔亚时,诸神都认可了你们的行为;正如儿子选择父亲,普善也作了选择。

14.1.16

द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः ।
अथैकं चक्रं यद्गुहा तदद्धातय इद्विदुः ॥ १४.१.१६ ॥

啊,太阳,你的两个轮子,婆罗门依时节而正确地知道;但那隐藏的一个轮子,唯有凡人才真正知道。

14.1.17

अर्यमणं यजामहे सुबन्धुं पतिवेदनम् ।
उर्वारुकमिव बन्धनात्प्रेतो मुञ्चामि नामुतः ॥ १४.१.१७ ॥

我们崇敬阿耶摩,他是善良的亲属,能使人得夫;如瓜果从蔓上脱落,我从此处解脱,而非从彼处。

14.1.18

प्रेतो मुञ्चामि नामुतः सुबद्धाममुतस्करम् ।
यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति ॥ १४.१.१८ ॥

我从此处解脱她,而非从彼处,解开那里紧缚的绳结——啊因陀罗,啊慷慨者,愿此女有好儿子并得福。

14.1.19

प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवाः ।
ऋतस्य योनौ सुकृतस्य लोके स्योनं ते अस्तु सहसंभलायै ॥ १४.१.१९ ॥

我将你从婆罗那的绳索中解开,那绳索是慈善的萨维特里所缚。愿你在真理之源、善行之界中得到安乐,萨哈桑巴拉。

14.1.20

भगस्त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन ।
गृहान् गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि ॥ १४.१.२० ॥

愿薄伽为你牵手引你离开此处;愿双马童以车载你前行。你去往家中做主妇;作为掌控家事之人,你将在集会中发言。

14.1.21

इह प्रियं प्रजायै ते समृध्यतामस्मिन् गृहे गार्हपत्याय जागृहि ।
एना पत्या तन्वं सं स्पृशस्वाथ जिर्विर्विदथमा वदासि ॥ १४.१.२१ ॥

愿你所珍爱之物在此为你的后代兴旺;在此家中为家火(嘎尔哈帕蒂亚)保持警觉。与这位丈夫身体相合;然后,清醒的你将在集会中发言。

14.1.22

इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् ।
क्रीडन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वस्तकौ ॥ १४.१.२२ ॥

留在此处,不要分离;获得完整的寿命。与子孙嬉戏,欢喜快乐,安康无恙。

14.1.23

पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् ।
विश्वान्यो भुवना विचष्ट ऋतूंरन्यो विदधज्जायसे नवः ॥ १४.१.२३ ॥

二童子以幻力前后行走,嬉戏着绕行大海。一个观看一切世界;另一个安排季节,以新身诞生。

14.1.24

नवोनवो भवसि जायमानोऽह्नां केतुरुषसामेष्यग्रम् ।
भागं देवेभ्यो वि दधास्यायन् प्र चन्द्रमस्तिरसे दीर्घमायुः ॥ १४.१.२४ ॥

你每次都重新诞生,是日子的旗帜,走在黎明之前。一边为诸神分配份额,一边前行,月神啊,你延长长寿。

14.1.25

परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु ।
कृत्यैषा पद्वती भूत्वा जाया विशते पतिम् ॥ १४.१.२५ ॥

驱走那沙穆利亚;把财富分给婆罗门。这个咒术女获得双脚后走向丈夫;妻子进入丈夫之中。

14.1.26

नीललोहितं भवति कृत्यासक्तिर्व्यज्यते ।
एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥ १४.१.२६ ॥

咒术女的执著变成蓝红色并显现出来。她的亲属兴旺;丈夫被束缚于羁绊之中。

14.1.27

अश्लीला तनूर्भवति रुशती पापयामुया ।
पतिर्यद्वध्वो वाससः स्वमङ्गमभ्यूर्णुते ॥ १४.१.२७ ॥

因那邪恶,她的身体变得不知羞耻而灼热,当丈夫用新娘的衣服遮盖自己的肢体时。

14.1.28

आशसनं विशसनमथो अधिविकर्तनम् ।
सूर्यायाः पश्य रूपाणि तानि ब्रह्मोत शुम्भति ॥ १४.१.२८ ॥

看那切割、断裂与撕扯:这些是苏利亚的形相,而神圣的咒语装饰着它们。

14.1.29

तृष्टमेतत्कटुकमपाष्ठवद्विषवन् नैतदत्तवे ।
सूर्यां यो ब्रह्मा वेद स इद्वाधूयमर्हति ॥ १४.१.२९ ॥

这东西灼热、苦涩,如同毒物,不可食用。凡是作为祭司而知晓苏利亚的人,才真正配得上新娘。

14.1.30

स इत्तत्स्योनं हरति ब्रह्मा वासः सुमङ्गलम् ।
प्रायश्चित्तिं यो अध्येति येन जाया न रिष्यति ॥ १४.१.३० ॥

婆罗门带来那舒适而极其吉祥的衣服。谁诵读忏悔之法,妻子便不会遭受损害。

14.1.31

युवं भगं सं भरतं समृद्धमृतं वदन्तावृतोद्येषु ।
ब्रह्मणस्पते पतिमस्यै रोचय चारु संभलो वदतु वाचमेताम् ॥ १४.१.३१ ॥

你们二人共同聚集丰盛的福运,在天道升起之时说出真实。梵天之主啊,为她使丈夫变得可爱;愿桑巴拉美好地说出这番话。

14.1.32

इहेदसाथ न परो गमाथेमं गावः प्रजया वर्धयाथ ।
शुभं यतीरुस्रियाः सोमवर्चसो विश्वे देवाः क्रन्न् इह वो मनांसि ॥ १४.१.३२ ॥

就留在这里,不要远去。啊,牛群,愿你们带着子孙增益这家。吉祥而来的、以苏摩为光辉的晨牛啊,愿诸神在此安定你们的心。

14.1.33

इमं गावः प्रजया सं विशाथायं देवानां न मिनाति भागम् ।
अस्मै वः पूषा मरुतश्च सर्वे अस्मै वो धाता सविता सुवाति ॥ १४.१.३३ ॥

啊,牛群,带着子孙进入这家。对于这个不侵害诸神份额的人,愿普善与诸风神都属于你们;愿创造者与萨维特里为他驱使你们。

14.1.34

अनृक्षरा ऋजवः सन्तु पन्थानो येभिः सखायो यन्ति नो वरेयम् ।
सं भगेन समर्यम्णा सं धाता सृजतु वर्चसा ॥ १४.१.३४ ॥

愿道路无荆棘而笔直,我们的同伴借之前往我们所选的新娘之处。愿创造者与巴伽、阿ryaman一同以光辉使她相合。

14.1.35

यच्च वर्चो अक्षेषु सुरायां च यदाहितम् ।
यद्गोष्वश्विना वर्चस्तेनेमां वर्चसावतम् ॥ १४.१.३५ ॥

凡置于骰子与烈酒中的光辉,凡存于牛群中的光辉——啊,双马童,以那光辉护佑她。

14.1.36

येन महानघ्न्या जघनमश्विना येन वा सुरा ।
येनाक्षा अभ्यषिच्यन्त तेनेमां वर्चसावतम् ॥ १४.१.३६ ॥

双马神啊,以大阿格尼雅之臀、苏罗酒与骰子被洒的那份光辉,以那光辉护佑此女。

14.1.37

यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईडते अध्वरेषु ।
अपां नपान् मधुमतीरपो दा याभिरिन्द्रो वावृधे वीर्यावान् ॥ १४.१.३७ ॥

在水中无薪而发光者,诸智者在祭祀中赞颂之。水之子啊,赐予甘美之水,因之有威力的因陀罗得以增长。

14.1.38

इदमहं रुशन्तं ग्राभं तनूदूषिमपोहामि ।
यो भद्रो रोचनस्तमुदचामि ॥ १४.१.३८ ॥

我驱逐此闪耀、攫取、污染身体之物;并举起那吉祥而光明者。

14.1.39

आस्यै ब्राह्मणाः स्नपनीर्हरन्त्ववीरघ्नीरुदजन्त्वापः ।
अर्यम्णो अग्निं पर्येतु पूषन् प्रतीक्षन्ते श्वशुरो देवरश्च ॥ १४.१.३९ ॥

为她,愿婆罗门带来沐浴之水;愿不杀丈夫之水涌流。愿阿利耶曼之火绕她而行;哦,普珊,公公与小叔正在等待。

14.1.40

शं ते हिरण्यं शमु सन्त्वापः शं मेथिर्भवतु शं युगस्य तर्द्म ।
शं त आपः शतपवित्रा भवन्तु शमु पत्या तन्वं सं स्पृशस्व ॥ १४.१.४० ॥

愿黄金于你吉祥,愿水也吉祥;愿搅棒吉祥,愿轭之横木吉祥。愿以百道滤器滤过的水于你吉祥;与丈夫相连你的身体。

14.1.41

खे रथस्य खेऽनसः खे युगस्य शतक्रतो ।
अपालामिन्द्र त्रिष्पूत्वाकृणोः सूर्यत्वचम् ॥ १४.१.४१ ॥

在车的孔中,在车的孔中,在轭的孔中——百力因陀罗啊!你三次净化阿帕拉,使她具有太阳般的肌肤。

14.1.42

आशासाना सौमनसं प्रजां सौभाग्यं रयिम् ।
पत्युरनुव्रता भूत्वा सं नह्यस्वामृताय कम् ॥ १४.१.४२ ॥

愿望善意、子嗣、福运与财富,成为丈夫的顺从者,为了不死与安乐而将自己相连。

14.1.43

यथा सिन्धुर्नदीनां साम्राज्यं सुषुवे वृषा ।
एवा त्वं सम्राज्ञ्येधि पत्युरस्तं परेत्य ॥ १४.१.४३ ॥

如同众河中之信度河生出主权,你也应前往夫家,成为女王。

14.1.44

सम्राज्ञ्येधि श्वशुरेषु सम्राज्ञ्युत देवृषु ।
ननान्दुः सम्राज्ञ्येधि सम्राज्ञ्युत श्वश्र्वाः ॥ १४.१.४४ ॥

在公公们中间成为女王,在小叔们中间也成为女王;在小姑们中间成为女王,在婆婆中间也成为女王。

14.1.45

या अकृन्तन्न् अवयन् याश्च तत्निरे या देवीरन्तामभितोऽददन्त ।
तास्त्वा जरसे सं व्ययन्त्वायुष्मतीदं परि धत्स्व वासः ॥ १४.१.४५ ॥

愿那些裁剪的、织造的、纺线的,以及四周给予线端的诸女神,将你缝合至老年。长寿的你,穿上这件衣服吧。

14.1.46

जीवं रुदन्ति वि नयन्त्यध्वरं दीर्घामनु प्रसितिं दीध्युर्नरः ।
वामं पितृभ्यो य इदं समीरिरे मयः पतिभ्यो जनये परिष्वजे ॥ १४.१.४६ ॥

人们哭泣着带走活着的人;经过漫长的路程,人们会光彩焕发。为祖先准备这吉祥之礼的人,给丈夫带来欢乐;我拥抱妻子。

14.1.47

स्योनं ध्रुवं प्रजायै धारयामि तेऽश्मानं देव्याः पृथिव्या उपस्थे ।
तमा तिष्ठानुमाद्या सुवर्चा दीर्घं त आयुः सविता कृणोतु ॥ १४.१.४७ ॥

为了子嗣,我为你将这块安稳可靠的石头安放在女神大地的怀中。你站在这里,受众人欢喜,光彩照人;愿萨维德利使你长寿。

14.1.48

येनाग्निरस्या भूम्या हस्तं जग्राह दक्षिणम् ।
तेन गृह्णामि ते हस्तं मा व्यथिष्ठा मया सह प्रजया च धनेन च ॥ १४.१.४८ ॥

我以阿耆尼握住此大地之手的那只右手,握住你的手。你与我一同,连同子嗣和财富,不要忧伤。

14.1.49

देवस्ते सविता हस्तं गृह्णातु सोमो राजा सुप्रजसं कृणोतु ।
अग्निः सुभगां जतवेदाः पत्ये पत्नीं जरदष्टिं कृणोतु ॥ १४.१.४९ ॥

愿天神萨维德利握住你的手;愿国王苏摩使你多得善良的子嗣。愿知生者阿耆尼使有福的妻子为丈夫活到老年。

14.1.50

गृह्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः ।
भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥ १४.१.५० ॥

为了福分我握住你的手,愿你与我这丈夫一同直到老年。天神薄伽、阿利耶曼、萨维德利与普兰堤,为家庭之故将你赐予我。

14.1.51

भगस्ते हस्तमग्रहीत्सविता हस्तमग्रहीत् ।
पत्नी त्वमसि धर्मणाहं गृहपतिस्तव ॥ १४.१.५१ ॥

薄伽握住了你的手,萨维德利握住了手。依法,你是妻子,我是你的家主。

14.1.52

ममेयमस्तु पोष्या मह्यं त्वादाद्बृहस्पतिः ।
मया पत्या प्रजावति सं जीव शरदः शतम् ॥ १४.१.५२ ॥

愿她是我所养护的人:梵天之主布里哈斯帕蒂将你赐予我。与我这丈夫,多得子嗣,共同度过百年秋天。

14.1.53

त्वष्टा वासो व्यदधाच्छुभे कं बृहस्पतेः प्रशिषा कवीनाम् ।
तेनेमां नारीं सविता भगश्च सूर्यामिव परि धत्तां प्रजया ॥ १४.१.५३ ॥

特瓦什特里为美丽与喜悦制作衣裳,依智者之首布利哈斯帕蒂的指示。愿萨维特里与巴伽以子嗣为此女披上衣裳,如同苏尔雅。

14.1.54

इन्द्राग्नी द्यावापृथिवी मातरिश्वा मित्रावरुणा भगो अश्विनोभा ।
बृहस्पतिर्मरुतो ब्रह्म सोम इमां नारिं प्रजया वर्धयन्तु ॥ १४.१.५४ ॥

因陀罗与阿耆尼,天与地,摩多利什ван,弥多罗与伐楼那,巴伽与双阿输昆,布利哈斯帕蒂,摩录多诸神,梵与苏摩:愿他们都以子嗣增益此女。

14.1.55

बृहस्पतिः प्रथमः सूर्यायाः शीर्षे केशाँ अकल्पयत् ।
तेनेमामश्विना नारीं पत्ये सं शोभयामसि ॥ १४.१.५५ ॥

首先,布利哈斯帕蒂为苏尔雅的头发梳理装饰。以此,哦双阿输昆,我们为丈夫装饰这位女子。

14.1.56

इदं तद्रूपं यदवस्त योषा जायां जिज्ञासे मनसा चरन्तीम् ।
तामन्वर्तिष्ये सखिभिर्नवग्वैः क इमान् विद्वान् वि चचर्त पाशान् ॥ १४.१.५६ ॥

这便是那位少女所披的形相。我想知晓那心中行走的妻子。我将与朋友们、携带新牛,随她而行。谁知晓这些,能解开这些绳索?

14.1.57

अहं वि ष्यामि मयि रूपमस्या वेददित्पश्यन् मनसः कुलायम् ।
न स्तेयमद्मि मनसोदमुच्ये स्वयं श्रथ्नानो वरुणस्य पाशान् ॥ १४.१.५७ ॥

我将在自身中看见她的形相;看着心智的巢穴,我便知晓。我不吃偷来的食物;我以心意得解脱,亲自松开伐楼那的绳索。

14.1.58

प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवाः ।
उरुं लोकं सुगमत्र पन्थां कृणोमि तुभ्यं सहपत्न्यै वधु ॥ १४.१.५८ ॥

我将你从善佑的萨维特里所缚的婆罗那绳索中解脱。新娘啊,我在此为你和你的丈夫开辟广阔的世界与平坦的道路。

14.1.59

उद्यच्छध्वमप रक्षो हनाथेमं नारीं सुकृते दधात ।
धाता विपश्चित्पतिमस्यै विवेद भगो राजा पुर एतु प्रजानन् ॥ १४.१.५९ ॥

起来吧,驱逐罗刹;把这位女子托付给行善之人。智慧的达多利为她找到了丈夫;熟知民众的国王婆伽在前引路吧。

14.1.60

भगस्ततक्ष चतुरः पादान् भगस्ततक्ष चत्वार्युष्पलानि ।
त्वष्टा पिपेश मध्यतोऽनु वर्ध्रान्त्सा नो अस्तु सुमङ्गली ॥ १४.१.६० ॥

婆伽雕出四足,婆伽制成四朵莲花。特瓦斯特里在中央沿绳索加以装饰;愿她为我们带来吉祥。

14.1.61

सुकिंशुकं वहतुं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् ।
आ रोह सूर्ये अमृतस्य लोकं स्योनं पतिभ्यो वहतुं कृणु त्वम् ॥ १४.१.६१ ॥

此车以上好的金苏木制成,形态万千,色如黄金,行走顺畅,车轮良好。登上它朝向太阳,进入不死之界;新娘啊,请使此车令众夫欢喜。

14.1.62

अभ्रातृघ्नीं वरुणापशुघ्नीं बृहस्पते ।
इन्द्रापतिघ्नीं पुत्रिणीमास्मभ्यं सवितर्वह ॥ १४.१.६२ ॥

啊,布利哈斯帕蒂,那不害兄弟、不伤婆罗那之牲畜、不因因陀罗而害丈夫、有子嗣的女子——啊,萨维特里,为我们带来她。

14.1.63

मा हिंसिष्टं कुमार्यं स्थूणे देवकृते पथि ।
शालाया देव्या द्वारं स्योनं कृण्मो वधूपथम् ॥ १४.१.६३ ॥

诸神所造之路上的两根柱子啊,不要伤害少女。我们使神圣厅堂的门户令人愉悦;这是新娘的道路。

14.1.64

ब्रह्मापरं युज्यतां ब्रह्म पूर्वं ब्रह्मान्ततो मध्यतो ब्रह्म सर्वतः ।
अनाव्याधां देवपुरां प्रपद्य शिवा स्योना पतिलोके वि राज ॥ १४.१.६४ ॥

愿梵在后相连,梵在前,梵在末与中,梵在四面。无伤地进入诸神之城,吉祥而令人愉悦,在夫家之界光耀。