Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 14.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.2.1

तुभ्यमग्रे पर्यवहन्त्सूर्यां वहतुना सह ।
स नः पतिभ्यो जायां दा अग्ने प्रजया सह ॥ १४.२.१ ॥

阿耆尼啊,苏利耶随着婚礼队伍被引领向前,只为你。阿耆尼啊,请把她连同子嗣一起赐给我们的丈夫们作妻子。

14.2.2

पुनः पत्नीमग्निरदादायुषा सह वर्चसा ।
दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् ॥ १४.२.२ ॥

阿耆尼将妻子连同寿命与光辉再次归还。愿她的丈夫长寿,活到一百个秋天。

14.2.3

सोमस्य जाया प्रथमं गन्धर्वस्तेऽपरः पतिः ।
तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥ १४.२.३ ॥

她是月神苏摩的第一位妻子;乾闼婆是你的第二位丈夫。第三位丈夫是阿耆尼,第四位丈夫是人所生者。

14.2.4

सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये ।
रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् ॥ १४.२.४ ॥

苏摩将她给了乾闼婆,乾闼婆又给了阿耆尼。阿耆尼赐予我财富、儿子,以及这位女子。

14.2.5

आ वामगन्त्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अरंसत ।
अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्यामशीमहि ॥ १४.२.५ ॥

富有力量的阿什文啊,你们的善意已降临我们;你们的心愿在心中得到满足。作为一对,你们成为守护者与吉祥之主;愿我们抵达阿利亚曼可爱的家。

14.2.6

सा मन्दसाना मनसा शिवेन रयिं धेहि सर्ववीरं वचस्यम् ।
सुगं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं पथिष्ठामप दुर्मतिं हतम् ॥ १४.२.६ ॥

愿她以欢悦吉祥之心,赐予财富,连同所有英勇的儿子与声望。吉祥之主啊,请在道路上赐予平坦的渡口、良好的饮水处和坚固的界柱;驱散并消灭恶念。

14.2.7

या ओषधयो या नद्यो यानि क्षेत्राणि या वना ।
तास्त्वा वधु प्रजावतीं पत्ये रक्षन्तु रक्षसः ॥ १४.२.७ ॥

愿所有的草药、河流、田地和森林守护你,哦,多子的新娘,为了你的丈夫,免受罗刹侵害。

14.2.8

एमं पन्थामरुक्षाम सुगं स्वस्तिवाहनम् ।
यस्मिन् वीरो न रिष्यत्यन्येषां विन्दते वसु ॥ १४.२.८ ॥

我们踏上了这条带来吉祥的平坦之路,走在上面的英雄不会受损,还能获得他人的财富。

14.2.9

इदं सु मे नरः शृणुत ययाशिषा दंपती वाममश्नुतः ।
ये गन्धर्वा अप्सरसश्च देवीरेषु वानस्पत्येषु येऽधि तस्थुः ।
स्योनास्ते अस्यै वध्वै भवन्तु मा हिंसिषुर्वहतुमुह्यमानम् ॥ १४.२.९ ॥

诸位男子,请仔细听我说这祝福,夫妻凭此而获得福祉。愿站立在这些树上的乾闼婆、阿普萨拉斯和众女神,对这位新娘和正被引领的婚礼队伍,都给予安乐,不加伤害。

14.2.10

ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनामनु ।
पुनस्तान् यज्ञिया देवा नयन्तु यत आगताः ॥ १४.२.१० ॥

跟随如月般的新娘婚车、朝向人群而来的消耗病(夜叉病),愿值得献祭的诸神将它们带回它们来的地方。

14.2.11

मा विदन् परिपन्थिनो य आसीदन्ति दंपती ।
सुगेन दुर्गमतीतामप द्रान्त्वरातयः ॥ १४.२.११ ॥

愿伏于近旁、拦路伺机的路障之徒找不到这对夫妇;愿夫妇走平坦之路越过险峻之道后,敌人远远逃去。

14.2.12

सं काशयामि वहतुं ब्रह्मणा गृहैरघोरेण चक्षुषा मित्रियेण ।
पर्याणद्धं विश्वरूपं यदस्ति स्योनं पतिभ्यः सविता तत्कृणोतु ॥ १४.२.१२ ॥

我以梵咒、以家宅、以不凶的友善目光装饰这位新娘。无论她身上佩戴何种多样的饰物,愿萨维特里使其令丈夫们喜悦。

14.2.13

शिवा नारीयमस्तमागन्न् इमं धाता लोकमस्यै दिदेश ।
तामर्यमा भगो अश्विनोभा प्रजापतिः प्रजया वर्धयन्तु ॥ १४.२.१३ ॥

这位吉祥的女子已进入家中;持者(Dhātṛ)为她指定了此界。愿阿利耶曼、婆伽、双阿श्विन与生主以子嗣使她繁荣。

14.2.14

आत्मन्वत्युर्वरा नारीयमागन् तस्यां नरो वपत बीजमस्याम् ।
सा वः प्रजां जनयद्वक्षणाभ्यो बिभ्रती दुग्धमृषभस्य रेतः ॥ १४.२.१४ ॥

这位富有生命力、多产的女子已到来;男子们啊,在她身上播种吧。愿她为你们生育子嗣,从乳房中承载乳汁,承载公牛的精液。

14.2.15

प्रति तिष्ठ विराडसि विष्णुरिवेह सरस्वति ।
सिनीवालि प्र जायतां भगस्य सुमतावसत् ॥ १४.२.१५ ॥

稳稳站立;你是光辉的主母,在此如同毗湿奴。啊,萨罗斯瓦蒂,啊,西尼瓦利,愿子嗣诞生;安住于婆伽的恩惠之中。

14.2.16

उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत ।
मादुष्कृतौ व्येनसावघ्न्यावशुनमारताम् ॥ १४.२.१६ ॥

啊,诸水,愿波浪涌起击打木桩;解开轭上的皮带。愿这二人无过、无罪、不可杀害,不受痛苦。

14.2.17

अघोरचक्षुरपतिघ्नी स्योना शग्मा सुशेवा सुयमा गृहेभ्यः ।
वीरसूर्देवृकामा सं त्वयैधिषीमहि सुमस्यमाना ॥ १४.२.१७ ॥

眼神不凶、不杀丈夫、和善安详、极其慈爱、克己节制、为家族生育英勇之子、渴望小叔、心意善良的你——愿我们与你一同兴旺。

14.2.18

अदेवृघ्न्यपतिघ्नीहैधि शिवा पशुभ्यः सुयमा सुवर्चाः ।
प्रजावती वीरसूर्देवृकामा स्योनेममग्निं गार्हपत्यं सपर्य ॥ १४.२.१८ ॥

不与诸神为敌,不杀害你的丈夫;留在此处,对牲畜吉祥,自制而光彩照人。多子多孙,生育英雄之子,不欲敌对,温和慈善,供奉这家居之火——家主火(Gārhapatya Agni)。

14.2.19

उत्तिष्ठेतः किमिच्छन्तीदमागा अहं त्वेडे अभिभूः स्वाद्गृहात् ।
शून्यैषी निर्ऋते याजगन्थोत्तिष्ठाराते प्र पत मेह रंस्थाः ॥ १४.२.१९ ॥

起来吧!你为何而来到此处?我,哦可敬者,要从你自己的家中将你征服。哦尼厘底(Nirṛti),寻求空虚者,走向祭祀者,起来吧;哦阿罗底(Ārāti),飞走吧,不要留在这里。

14.2.20

यदा गार्हपत्यमसपर्यैत्पूर्वमग्निं वधूरियम् ।
अधा सरस्वत्यै नारि पितृभ्यश्च नमस्कुरु ॥ १४.२.२० ॥

当此新娘首先供奉家居之火时,那么,哦女子,向萨拉斯瓦蒂与祖先们致敬吧。

14.2.21

शर्म वर्मैतदा हरास्यै नार्या उपस्तिरे ।
सिनीवालि प्र जायतां भगस्य सुमतावसत् ॥ १४.२.२१ ॥

此乃庇护与铠甲;为此女子将它带到铺开的床榻上。哦西尼瓦利(Sinīvālī),愿子嗣诞生;愿她处于婆伽(Bhaga)的善意之中。

14.2.22

यं बल्बजं न्यस्यथ चर्म चोपस्तृणीथन ।
तदा रोहतु सुप्रजा या कन्या विन्दते पतिम् ॥ १४.२.२२ ॥

你们所放置的巴尔巴贾草与铺设的皮革,愿它届时生长;愿获得丈夫的那位少女得享善子。

14.2.23

उप स्तृणीहि बल्बजमधि चर्मणि रोहिते ।
तत्रोपविश्य सुप्रजा इममग्निं सपर्यतु ॥ १४.२.२३ ॥

将巴尔巴贾草铺在赭红色的皮革上。坐在那里,愿得善子的女子供奉此火。

14.2.24

आ रोह चर्मोप सीदाग्निमेष देवो हन्ति रक्षांसि सर्वा ।
इह प्रजां जनय पत्ये अस्मै सुज्यैष्ठ्यो भवत्पुत्रस्त एषः ॥ १४.२.२४ ॥

登上皮革坐下;此神阿耆尼击杀一切罗刹。在此为这位夫君生育子嗣;愿你的这个儿子有良好的长子长女。

14.2.25

वि तिष्ठन्तां मातुरस्या उपस्थान् नानारूपाः पशवो जायमानाः ।
सुमङ्गल्युप सीदेममग्निं संपत्नी प्रति भूषेह देवान् ॥ १४.२.२५ ॥

愿从此母的腹中,诞生的各色牲畜各自站立。吉祥的女子啊,坐在这火旁;在此如同众妻一般装饰诸神。

14.2.26

सुमङ्गली प्रतरणी गृहाणां सुशेवा पत्ये श्वशुराय शंभूः ।
स्योना श्वश्र्वै प्र गृहान् विशेमान् ॥ १४.२.२६ ॥

吉祥的女子,能使家室渡过难关,对夫君殷勤,对公公有益;对婆婆和悦,进入这些家中吧。

14.2.27

स्योना भव श्वशुरेभ्यः स्योना पत्ये गृहेभ्यः ।
स्योनास्यै सर्वस्यै विशे स्योना पुष्टायैषां भव ॥ १४.२.२७ ॥

对公公要和悦;对夫君与家室要和悦。对她自己、对众人要和悦;为这些人的繁荣而和悦。

14.2.28

सुमङ्गलीरियं वधूरिमां समेत पश्यत ।
सौभाग्यमस्यै दत्त्वा दौर्भाग्यैर्विपरेतन ॥ १४.२.२८ ॥

此新妇吉祥;请大家聚集来看她。赐予她福分,驱散不幸吧。

14.2.29

या दुर्हार्दो युवतयो याश्चेह जरतीरपि ।
वर्चो न्वस्यै सं दत्ताथास्तं विपरेतन ॥ १४.२.२९ ॥

凡心怀恶意的少女,以及此处的老妇,都把光彩赐予她;然后把她们驱逐回家。

14.2.30

रुक्मप्रस्तरणं वह्यं विश्वा रूपाणि बिभ्रतम् ।
आरोहत्सूर्या सावित्री बृहते सौभगाय कम् ॥ १४.२.३० ॥

被抬上金色床榻、披戴万般形相的苏尔雅·萨维特丽登上床榻,以求大福与喜乐。

14.2.31

आ रोह तल्पं सुमनस्यमानेह प्रजां जनय पत्ये अस्मै ।
इन्द्राणीव सुबुधा बुध्यमाना ज्योतिरग्रा उषसः प्रति जागरासि ॥ १४.२.३१ ॥

心怀欢喜地登上床榻,在此为这位丈夫生育子嗣。如因陀罗尼那般善于思辨、保持清醒,与黎明诸晨的前沿光明一同醒来。

14.2.32

देवा अग्रे न्यपद्यन्त पत्नीः समस्पृशन्त तन्वस्तनूभिः ।
सूर्येव नारि विश्वरूपा महित्वा प्रजावती पत्या सं भवेह ॥ १४.२.३२ ॥

起初诸神安置了妻子们,以身触身。女子啊,如苏尔雅那般具备万般形相,凭你的威德多子多孙,在此与你的丈夫合为一体。

14.2.33

उत्तिष्ठेतो विश्वावसो नमसेडामहे त्वा ।
जामिमिच्छ पितृषदं न्यक्तां स ते भागो जनुषा तस्य विद्धि ॥ १४.२.३३ ॥

维史瓦瓦苏啊,起来吧;我们以敬礼赞颂你。寻求那坐在祖先之座上、受膏的亲属女子——她是你的份额;凭出身认识她。

14.2.34

अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्यं च ।
तास्ते जनित्रमभि ताः परेहि नमस्ते गन्धर्वर्तुना कृणोमि ॥ १४.२.३४ ॥

天女们在供桌车与太阳之间一同欢乐。她们朝向你的出生之地;请离开她们。依照乾达婆的季节,我向你致敬。

14.2.35

नमो गन्धर्वस्य नमसे नमो भामाय चक्षुषे च कृण्मः ।
विश्वावसो ब्रह्मणा ते नमोऽभि जाया अप्सरसः परेहि ॥ १४.२.३५ ॥

向乾达婆致敬,向敬礼致敬;我们向光耀者与眼睛致敬。维史瓦瓦苏啊,以圣言向你致敬;去往天女之妻那边吧。

14.2.36

राया वयं सुमनसः स्यामोदितो गन्धर्वमावीवृताम ।
अगन्त्स देवः परमं सधस्थमगन्म यत्र प्रतिरन्त आयुः ॥ १४.२.३६ ॥

愿我们以财富而心意欢喜;升起之时,使乾闼婆转向我们。那神已来到至高之座;我们已前往延长寿命之处。

14.2.37

सं पितरावृत्विये सृजेथां माता पिता च रेतसो भवाथः ।
मर्य इव योषामधि रोहयैनां प्रजां कृण्वाथामिह पुष्यतं रयिम् ॥ १४.२.३७ ॥

父母啊,在适当的时节共同创造;愿母亲与父亲成为精液的源泉。如同男子登上女子,你们也让她登上;在此生育子嗣,在财富中兴旺。

14.2.38

तां पूषं छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति ।
या न ऊरू उशती विश्रयाति यस्यामुशन्तः प्रहरेम शेपः ॥ १४.२.३८ ॥

哗普善啊,请遣送那最吉祥的女子,人们在其中播种种子;她满怀渴望为我们敞开双股,我们怀着欲望将己之器官送入其中。

14.2.39

आ रोहोरुमुप धत्स्व हस्तं परि ष्वजस्व जायां सुमनस्यमानः ।
प्रजां कृण्वाथामिह मोदमानौ दीर्घं वामायुः सविता कृणोतु ॥ १४.२.३९ ॥

登上大腿,伸出你的手;以欢喜之心拥抱你的妻子。在此欢欣地生育子嗣;愿萨维特利使你们二人的寿命长久。

14.2.40

आ वां प्रजां जनयतु प्रजापतिरहोरात्राभ्यां समनक्त्वर्यमा ।
अदुर्मङ्गली पतिलोकमा विशेमं शं नो भव द्विपदे शं चतुष्पदे ॥ १४.२.४० ॥

愿生主为你们二人生育子嗣;愿阿利耶曼以昼夜使你们结合。不带凶兆地,进入这夫之世界;为我们、为两足与四足之众带来吉祥。

14.2.41

देवैर्दत्तं मनुना साकमेतद्वाधूयं वासो वध्वश्च वस्त्रम् ।
यो ब्रह्मणे चिकितुषे ददाति स इद्रक्षांसि तल्पानि हन्ति ॥ १४.२.४१ ॥

诸神与摩奴一同赐下此物:新娘的衣裳与布匹。施与有智慧的婆罗门者,便击退罗刹及其床榻。

14.2.42

यं मे दत्तो ब्रह्मभागं वधूयोर्वाधूयं वासो वध्वश्च वस्त्रम् ।
युवं ब्रह्मणेऽनुमन्यमानौ बृहस्पते साकमिन्द्रश्च दत्तम् ॥ १४.२.४२ ॥

赐予我的婆罗门份额——新娘的衣裳与布匹。你们二者,允许给婆罗门,哦布利哈斯巴蒂,与因陀罗一同施予。

14.2.43

स्योनाद्योनेरधि बध्यमानौ हसामुदौ महसा मोदमानौ ।
सुगू सुपुत्रौ सुगृहौ तराथो जीवावुषसो विभातीः ॥ १४.२.४३ ॥

从安乐之家结缚,笑中欢悦,因光辉而喜乐,有善行、善子与善家——你们二人,活着越过明亮的晨曦。

14.2.44

नवं वसानः सुरभिः सुवासा उदागां जीव उषसो विभातीः ।
आण्डात्पतत्रीवामुक्षि विश्वस्मादेनसस्परि ॥ १४.२.४४ ॥

身着新衣、芬芳华美,活着,我已在明亮的晨曦中起身;如鸟出卵,我已从一切罪恶中解脱。

14.2.45

शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते ।
आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः ॥ १४.२.४५ ॥

装饰的天与地,内处恩惠与大誓之中;七道神圣之水涌流——愿它们使我们脱离罪恶。

14.2.46

सूर्यायै देवेभ्यो मित्राय वरुणाय च ।
ये भूतस्य प्रचेतसस्तेभ्य इदमकरं नमः ॥ १४.२.४६ ॥

向苏利耶、诸神、密特拉与伐楼那,以及那万物中的智者——我向他们致此敬礼。

14.2.47

य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः ।
संधाता संधिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः ॥ १४.२.४७ ॥

无端之时,他先前驱除从锁骨刺入的苦痛——他是接合者,富饶的摩ghavan,多财者,把脱位的部分重新接好。

14.2.48

अपास्मत्तम उच्छतु नीलं पिशङ्गमुत लोहितं यत् ।
निर्दहनी या पृषातक्यस्मिन् तां स्थाणावध्या सजामि ॥ १४.२.४८ ॥

愿那黑暗离开我们——蓝色的、黄褐色的,以及红色的;那焚烧的普利沙塔基,我将她牢牢系缚于此柱。

14.2.49

यावतीः कृत्या उपवासने यावन्तो राज्ञो वरुणस्य पाशाः ।
व्यृद्धयो या असमृद्धयो या अस्मिन् ता स्थाणावधि सादयामि ॥ १४.२.४९ ॥

凡在斋戒之处的诅咒巫术,凡王者伐楼那的绳索,凡衰败与不兴旺者——我把这一切都安置在这根柱子上。

14.2.50

या मे प्रियतमा तनूः सा मे बिभाय वाससः ।
तस्याग्रे त्वं वनस्पते नीविं कृणुष्व मा वयं रिषाम ॥ १४.२.५० ॥

我最心爱的身体因衣物而惊惧。哦,林木之主,请在它前面打一个结,使我们不受伤害。

14.2.51

ये अन्ता यावतीः सिचो य ओतवो ये च तन्तवः ।
वासो यत्पत्नीभिरुतं तन् न स्योनमुप स्पृशात् ॥ १४.२.५१ ॥

凡有多少线端、褶皱、纬线与经线,妻子们所织之衣——愿它不吉之物不触及我们。

14.2.52

उशतीः कन्यला इमाः पितृलोकात्पतिं यतीः ।
अव दीक्षामसृक्षत स्वाहा ॥ १४.२.५२ ॥

这些渴望的少女,从祖灵之界走向夫君,已放下了誓愿——斯瓦哈。

14.2.53

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
वर्चो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥ १४.२.५३ ॥

由布里哈斯帕蒂所遣,诸神共同承载了她。以那进入牛群之中的光辉(varcas),我们将她与之结合。

14.2.54

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
तेजो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥ १४.२.५४ ॥

由布里哈斯帕蒂所遣,诸神共同承载了她。以那进入牛群之中的光明(tejas),我们将她与之结合。

14.2.55

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
भजो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि ॥ १४.२.५५ ॥

由布里哈斯帕蒂所遣,诸神共同承载了她。以那进入牛群之中的份额(bhaja),我们将她与之结合。

14.2.56

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
यशो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥ १४.२.५६ ॥

由布里哈斯帕蒂所遣,诸神共同承载了她。以那进入牛群之中的荣耀(yaśas),我们将她与之结合。

14.2.57

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
पयो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥ १४.२.५७ ॥

由布里哈斯帕蒂所遣,诸神共同承载了她。以那进入牛群之中的乳汁与滋养(payas),我们将她与之结合。

14.2.58

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
रसो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि ॥ १४.२.५८ ॥

由布里哈斯帕蒂所遣,诸神共同承载了她。以那进入牛群之中的精华(rasa),我们将她与之结合。

14.2.59

यदीमे केशिनो जना गृहे ते समनर्तिषू रोदेन कृण्वन्तोऽघम् ।
अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥ १४.२.५९ ॥

若你家中这些长发之人哭泣起舞、造成灾祸,愿阿耆尼与萨维德里从那罪过中释放你。

14.2.60

यदीयं दुहिता तव विकेश्यरुदद्गृहे रोदेन कृण्वत्यघम् ।
अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥ १४.२.६० ॥

若你这女儿散发在家中哭泣、造成灾祸,愿阿耆尼与萨维德里从那罪过中释放你。

14.2.61

यज्जामयो यद्युवतयो गृहे ते समनर्तिषू रोदेन कृण्वतीरघम् ।
अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥ १४.२.६१ ॥

若你的族中女子与少女在家中哭泣起舞、造成灾祸,愿阿耆尼与萨维德里从那罪过中释放你。

14.2.62

यत्ते प्रजायां पशुषु यद्वा गृहेषु निष्ठितमघकृद्भिरघं कृतम् ।
अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥ १४.२.६२ ॥

无论你的子嗣、牲畜或房屋中所积存的罪过,还是作恶者所造的罪过,愿阿耆尼与萨维德里从那罪过中释放你。

14.2.63

इयं नार्युप ब्रूते पूल्यान्यावपन्तिका ।
दीर्घायुरस्तु मे पतिर्जीवाति शरदः शतम् ॥ १४.२.६३ ॥

此女撒着谷壳说:愿我的丈夫长寿,活满百个秋天。

14.2.64

इहेमाविन्द्र सं नुद चक्रवाकेव दंपती ।
प्रजयैनौ स्वस्तकौ विश्वमायुर्व्यश्नुताम् ॥ १४.२.६४ ॥

因陀罗啊,请在此将这二人如赤麻鸭般结合;愿他们与子嗣同享吉祥,度过完整的寿命。

14.2.65

यदासन्द्यामुपधाने यद्वोपवासने कृतम् ।
विवाहे कृत्यां यां चक्रुरास्नाने तां नि दध्मसि ॥ १४.२.६५ ॥

凡在座位、枕头或卧具上所行,以及在婚礼和沐浴时他们所作的咒害(kṛtyā),我们在此放下。

14.2.66

यद्दुष्कृतं यच्छमलं विवाहे वहतौ च यत् ।
तत्संभलस्य कम्बले मृज्महे दुरितं वयम् ॥ १४.२.६६ ॥

在婚礼与迎亲中所行的恶行与污秽,我们在 saṃbhala 的毛毯中洗净;我们洗净厄运(durita)。

14.2.67

संभले मलं सादयित्वा कम्बले दुरितं वयम् ।
अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत् ॥ १४.२.६७ ॥

我们把污秽放在 saṃbhala 中,把厄运放在毛毯中,于是成为可供祭祀且清净的人;愿他引导我们的寿命度过。

14.2.68

कृत्रिमः कण्टकः शतदन् य एषः ।
अपास्याः केश्यं मलमप शीर्षण्यं लिखात् ॥ १४.२.६८ ॥

此人为的百齿之刺——愿发上的污秽与头上的污秽被除去;愿它刮除之。

14.2.69

अङ्गादङ्गाद्वयमस्या अप यक्ष्मं नि दध्मसि ।
तन् मा प्रापत्पृथिवीं मोत देवान् दिवं मा प्रापदुर्वन्तरिक्षम् ।
अपो मा प्रापन् मलमेतदग्ने यमं मा प्रापत्पितॄंश्च सर्वान् ॥ १४.२.६९ ॥

我们从她的每一肢体上将消耗之病(yakṣma)放置远处。愿它不要到达我,也不要到达大地、诸神、天空;愿它不要到达广阔的虚空。愿水不要到达此污秽;哦阿耆尼,愿它不要到达阎摩和所有祖先。

14.2.70

सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्यामि पयसौषधीनाम् ।
सं त्वा नह्यामि प्रजया धनेन सा संनद्धा सनुहि वाजमेमम् ॥ १४.२.७० ॥

我以大地的乳汁(滋养)束缚你;以草木的乳汁束缚你;以子嗣与财富束缚你。被束缚的你,且得此力(vāja)。

14.2.71

अमोऽहमस्मि सा त्वं सामाहमस्म्यृक्त्वं द्यौरहं पृथिवी त्वम् ।
ताविह सं भवाव प्रजामा जनयावहै ॥ १४.२.७१ ॥

我是'阿摩'(力量),你是'娑摩'(歌咏);我是'娑摩',你是'梨俱'(颂诗);我是天(dyauḥ),你是地(pṛthivī)。让我们二人在此结合,共生子嗣。

14.2.72

जनियन्ति नावग्रवः पुत्रियन्ति सुदानवः ।
अरिष्टासू सचेवहि बृहते वाजसातये ॥ १४.२.७२ ॥

愿我们的先祖引导我们获得子嗣;愿慷慨的人渴望男儿。愿我们二人无伤地结合,以求大力与丰饶。

14.2.73

ये पितरो वधूदर्शा इमं वहतुमागमन् ।
ते अस्यै वध्वै संपत्न्यै प्रजावच्छर्म यच्छन्तु ॥ १४.२.७३ ॥

曾见过新娘的先祖来到此婚礼行列;愿他们赐予此新娘与její 共妻子女兴旺的庇佑与福乐。

14.2.74

येदं पूर्वागन् रशनायमाना प्रजामस्यै द्रविणं चेह दत्त्वा ।
तां वहन्त्वगतस्यानु पन्थां विराडियं सुप्रजा अत्यजैषीत् ॥ १४.२.७४ ॥

愿先前来到此地、执掌缰绳、在此赐予她子嗣与财富的先祖,引导她走上尚未行过的道路;这位光辉、子嗣众多的女子已经得胜。

14.2.75

प्र बुध्यस्व सुबुधा बुध्यमाना दीर्घायुत्वाय शतशारदाय ।
गृहान् गच्छ गृहपत्नी यथासो दीर्घं त आयुः सविता कृणोतु ॥ १४.२.७५ ॥

醒来吧,聪慧的女子,为百年秋的长寿而醒来。回到家中,成为主持家务的主妇;愿萨维特里延长你的寿命。