阿闼婆吠陀 · 颂诗(Sūkta) 15.11
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
15.11.1
तद्यस्यैवं विद्वान् व्रात्योऽतिथिर्गृहान् आगच्छेत् ॥ १५.११.१ ॥
若有如此知晓的婆罗多(Vrātya)作为客人来到某人的家中……
15.11.2
स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्य क्वावात्सीर्व्रात्योदकं व्रात्य तर्पयन्तु व्रात्य यथा ते प्रियं तथास्तु व्रात्य यथा ते वशस्तथास्तु व्रात्य यथा ते निकामस्तथास्त्विति ॥ १५.११.२ ॥
他应亲自走近他,说:“婆罗多啊,你曾住在何处?婆罗多啊,请饮水。婆罗多啊,愿它使你满足。婆罗多啊,愿你所喜爱的如你所愿。婆罗多啊,愿你的意愿如此。婆罗多啊,愿你的欲望如此。”
15.11.3
यदेनमाह व्रात्य क्वावात्सीरिति पथ एव तेन देवयानान् अव रुन्धे ॥ १५.११.३ ॥
当对他说“婆罗多啊,你曾住在何处?”时,凭此他便确实得到了诸神之道。
15.11.4
यदेनमाह व्रात्योदकमित्यप एव तेनाव रुन्धे ॥ १५.११.४ ॥
当对他说“婆罗多啊,水!”时,凭此他便确实得到了诸水。
15.11.5
यदेनमाह व्रात्य तर्पयन्त्विति प्राणमेव तेन वर्षीयांसं कुरुते ॥ १५.११.५ ॥
当对他说“婆罗多啊,愿他们使你满足!”时,凭此便使他在生气中更加充盈。
15.11.6
यदेनमाह व्रात्य यथा ते प्रियं तथास्त्विति प्रियमेव तेनाव रुन्धे ॥ १५.११.६ ॥
当对他说“婆罗多啊,愿你所喜爱的如你所愿!”时,凭此他便确实得到了所爱之物。
15.11.7
ऐनं प्रियं गच्छति प्रियः प्रियस्य भवति य एवं वेद ॥ १५.११.७ ॥
所爱之物来到他身边;如此知晓者,成为众所爱者中的所爱。
15.11.8
यदेनमाह व्रात्य यथा ते वशस्तथास्त्विति वशमेव तेनाव रुन्धे ॥ १५.११.८ ॥
若有人对他说:“哦,婆罗多人,愿你的权力如其所是。”他便因此而获得权力。
15.11.9
ऐनं वशो गच्छति वशी वशिनां भवति य एवं वेद ॥ १५.११.९ ॥
掌控之力来到他身边;如此知晓者,在掌控者之中成为掌控者。
15.11.10
यदेनमाह व्रात्य यथा ते निकामस्तथास्त्विति निकाममेव तेनाव रुन्धे ॥ १५.११.१० ॥
若有人对他说:“哦,婆罗多人,愿你的心愿如其所是。”他便因此而获得心愿本身。
15.11.11
ऐनं निकामो गच्छति निकामे निकामस्य भवति य एवं वेद ॥ १५.११.११ ॥
欲望来到他身边;如此知晓者,在诸欲之中成为欲望的主人。