阿闼婆吠陀 · 颂诗(Sūkta) 18.1
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
18.1.1
ओ चित्सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान् ।
पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥ १८.१.१ ॥
愿我以友谊回到我的朋友身边,他已渡过众多水流与大海。愿创造者将父亲的孙子安置于大地之上,更加高高地光耀。
18.1.2
न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवति ।
महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥ १८.१.२ ॥
你的朋友不愿这样的友谊,因为他虽有相同的标记,却变成了不同的形态。伟大阿修罗的英勇之子,天空的承载者,广阔地向四周眺望。
18.1.3
उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य ।
नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविष्याः ॥ १८.१.३ ॥
不死者也渴望此事,甚至舍弃一个凡人。愿你的心安置于我们的心中;生育的夫君啊,进入我的身体。
18.1.4
न यत्पुरा चकृमा कद्ध नूनमृतं वदन्तो अनृतं रपेम ।
गन्धर्वो अप्स्वप्या च योषा सा नौ नाभिः परमं जामि तन् नौ ॥ १८.१.४ ॥
以前我们未曾做过的,现在怎能确定去做?言说真理时,愿我们不要陷入虚妄。生于水中的乾闼婆与女子,她是我们至高的血亲之脐,我们的身体。
18.1.5
गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः ।
नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥ १८.१.५ ॥
就在胎中,哪位神造就了生育我们二人的夫妻——特瓦斯特、萨维特里、一切形态者?无人违背他的律法;大地与天空认识他,也认识我们二人。
18.1.6
को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।
आसन्निषून् हृत्स्वसो मयोभून् य एषां भृत्यामृणधत्स जीवात् ॥ १८.१.६ ॥
今日谁将那些强健、炽烈、难以驯服的牛套上ṛta之轭?它们口中有箭,心中有福祉;能完成其职守者,愿他长寿。
18.1.7
को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत् ।
बृहन् मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नॄन् ॥ १८.१.७ ॥
谁知晓这第一日?谁见过它?谁能在此宣说?米特拉与伐嚕那的伟大居所——我该如何向世人述说那一日?
18.1.8
यमस्य मा यम्यं काम आगन्त्समाने योनौ सहशेय्याय ।
जायेव पत्ये तन्वं रिरिच्यां वि चिद्वृहेव रथ्येव चक्रा ॥ १८.१.८ ॥
阎摩的孪生欲望来到我这里,要在同一子宫中共卧。如妻子向丈夫敞开身体,我也敞开身体;如大车之轮分开,我也分开。
18.1.9
न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति ।
अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥ १८.१.९ ॥
这些在此巡行的诸神使者,不停留,也不眨眼。向他人而去,远离我,日之行者啊,快快前行;与他分离,如车轮分离一般。
18.1.10
रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुन् मिमीयात् ।
दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य विवृहादजामि ॥ १८.१.१० ॥
愿他借夜与昼赐予他;愿太阳之眼一次又一次地度量。愿他与如天地一般成对的亲族阎美同在,分开阎摩那非亲族的(女子)。
18.1.11
आ घा ता गच्छान् उत्तरा युगानि यत्र जामयः कृणवन्न् अजामि ।
उप बर्बृहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत् ॥ १८.१.११ ॥
愿二人前往后世诸时代,在那里姊妹使亲属成为非亲属。啊,有福之人,为公牛举起你的臂膀;请寻求我以外的另一位丈夫吧。
18.1.12
किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन् निर्ऋतिर्निगछात् ।
काममूता बह्वेतद्रपामि तन्वा मे तन्वं सं पिपृग्धि ॥ १८.१.१२ ॥
若兄长无依无靠,将会如何?或若姊妹遭遇厄运(Nirṛti),又将如何?我因欲望所驱,言之甚多;请以你的身体与我的身体相合。
18.1.13
न ते नाथं यम्यत्राहमस्मि न ते तनूं तन्वा सं पपृच्याम् ।
अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत् ॥ १८.१.१३ ॥
啊,夜美(Yamī),我在此并非你的保护者,也不会将你的身体与我的身体相合。请与我以外的他人寻求欢乐吧;啊,有福之人,你的兄长并不愿意此事。
18.1.14
न वा उ ते तनूं तन्वा सं पिपृच्यां पापमाहुर्यः स्वसारं निगच्छात् ।
असंयदेतन् मनसो हृदो मे भ्राता स्वसुः शयने यच्छयीय ॥ १८.१.१४ ॥
我绝不会将你的身体与我的身体相合;人们称那去找姊妹的人为罪人。这并非我心与意的放纵,即兄长躺在姊妹的床上。
18.1.15
बतो बतासि यम नैव ते मनो हृदयं चाविदामा ।
अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजातौ लिबुजेव वृक्षम् ॥ १८.१.१५ ॥
唉,唉!啊,阎摩,你并非如此;我们未曾见到你的心意与内心。另一女子将拥抱你,如缰绳缚住驾车的马,如藤蔓缠绕树木。
18.1.16
अन्यमू षु यम्यन्य उ त्वां परि ष्वजातौ लिबुजेव वृक्षम् ।
तस्य वा त्वं मन इछा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥ १८.१.१६ ॥
另一人,啊阎美,另一人拥抱你,如蔓藤缠绕树木。愿你渴望他的心,或他渴望你的心;然后立下吉祥的盟约。
18.1.17
त्रीणि च्छन्दांसि कवयो वि येतिरे पुरुरूपं दर्शतं विश्वचक्षणम् ।
आपो वाता ओषधयस्तान्येकस्मिन् भुवन आर्पितानि ॥ १८.१.१७ ॥
诸先知展开了三种韵律——多形、可见、遍观一切。水、风与草木,皆安置于同一世界之中。
18.1.18
वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः ।
विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजति यज्ञियामृतून् ॥ १८.१.१८ ॥
降雨之牛为牛从天空挤出乳汁——赐予乳浆,乃阿底提伟大而不竭的滋养。伐楼那以智慧知晓一切;他值得献祭,向祭祀的季节献祭。
18.1.19
रपद्गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु नो मनः ।
इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥ १८.१.१९ ॥
愿乾闼婆女、阿普萨拉斯与众女,在河流的咆哮声中守护我们的心。在祭祀之中,愿阿底提使我们安立;愿我们的长兄,那首先者,宣说此事。
18.1.20
सो चित्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्वती ।
यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन् ॥ १८.१.२० ॥
那吉祥、饶于食物、光荣的曙光,确实为摩奴充满光明地升起,那时求愿者随其所愿,为祭祀生出了作为祭司的火神阿耆尼。
18.1.21
अध त्यं द्रप्सं विभ्वं विचक्षनं विराभरदिषिरः श्येनो अध्वरे ।
यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥ १८.१.२१ ॥
于是迅捷的鹰将那如水滴般、遍在而远见的神带到祭礼中;当众部族与雅利安人选择奇妙的阿耆尼为祭司时,智慧便诞生。
18.1.22
सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः ।
विप्रस्य वा यच्छशमान उक्थ्यो वाजं ससवामुपयासि भूरिभिः ॥ १८.१.२२ ॥
阿耆尼啊,你总是令人喜悦,如草般滋长于人的善祭之中,伴随诸供品。智者当受赞颂的阿耆尼啊,当你被赞美时,你借众多手段获得力量而来到近前。
18.1.23
उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति ।
विवक्ति वह्निः स्वपस्यते मखस्तविष्यते असुरो वेपते मती ॥ १८.१.२३ ॥
唤醒二位父母吧;所爱之人想为自己的份额而祭祀。他发自心中渴望;承载者开口,祭主巧妙行事,有力者变得强壮,因思想而颤动。
18.1.24
यस्ते अग्ने सुमतिं मर्तो अख्यत्सहसः सूनो अति स प्र शृण्वे ।
इषं दधानो वहमानो अश्वैरा स द्युमाममवान् भूषति द्यून् ॥ १८.१.२४ ॥
阿耆尼啊,凡有死者见到你的善意,力之子啊,他便远播名声;承载食物,以马匹运来,他光辉而强壮,装点着日子。
18.1.25
श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम् ।
आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः ॥ १८.१.२५ ॥
阿耆尼啊,请听我们;在共同的座位上套上不死者的疾车。为我们带来两界,诸神之子;你切勿远离诸神,留在这里。
18.1.26
यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र ।
रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥ १८.१.२६ ॥
阿耆尼啊,当此神圣集会在诸神之中成为可敬之所,持自养者啊,当你分配宝物时,愿这里赐予我们富饶的一份。
18.1.27
अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः ।
अनु सूर्य उषसो अनु रश्मीन् द्यावापृथिवी आ विवेश ॥ १८.१.२७ ॥
阿耆尼看见了黎明之前的景象;首位遍知者随后望向诸日。太阳随黎明与光线而行,进入天与地之中。
18.1.28
प्रत्यग्निरुषसामग्रमख्यत्प्रत्यहानि प्रथमो जातवेदाः ।
प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥ १८.१.२८ ॥
阿耆尼望向黎明的前方;首位遍知者望向诸日。注视太阳的众多光线,他展开了天与地。
18.1.29
द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा ।
देवो यन् मर्तान् यजथाय कृण्वन्त्सीदद्धोता प्रत्यङ्स्वमसुं यन् ॥ १८.१.२९ ॥
天与地首先依循天则而立,应和真实之言的召唤。神前行,使凡人准备祭献;祭司坐下,转向自己的生命气息。
18.1.30
देवो देवान् परिभूर्ऋतेन वहा नो हव्यं प्रथमश्चिकित्वान् ।
धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥ १८.१.३० ॥
啊,以天则环绕诸神的神啊,为我们带来祭品吧。你是首位的、智慧的、以烟为旗的、以薪柴而辉耀的、令人欢喜的祭司,永恒的,以言语最值得崇拜。
18.1.31
अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे ।
अहा यद्देवा असुनीतिमायन् मध्वा नो अत्र पितरा शिशीताम् ॥ १८.१.३१ ॥
我为增长而赞颂你们二者,为滴落酥油的水。天与地,请听我的呼唤。当诸神在日子里来到气息之路时,请以甘甜在此磨砺我们,诸位父祖。
18.1.32
स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी ।
विश्वे देवा अनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः ॥ १८.१.३२ ॥
那自转之神的甘露,来自牛,诞生者承载广大;当黑牛为你们挤出天上的酥油时,诸神便依此歌唱你们的祭祀颂文。
18.1.33
किं स्विन् नो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद ।
मित्रस्चिद्धि ष्मा जुहुराणो देवां छ्लोको न यातामपि वाजो अस्ति ॥ १८.१.३३ ॥
我们的王究竟接受了什么?超越他的誓愿,我们做了什么?谁能真正知晓?密特拉也确实向诸神献祭,如名声般前行;力量也在其中。
18.1.34
दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद्विषुरूपा भवाति ।
यमस्य यो मनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुच्छन् ॥ १८.१.३४ ॥
此处不死者之名为杜曼度;它虽带同一标记,却化为种种形相。对于阎摩思者而言为善思者的那一位,火神啊,尊贵者,请护持他,不要松手。
18.1.35
यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते ।
सूर्ये ज्योतिरदधुर्मास्यक्तून् परि द्योतनिं चरतो अजस्रा ॥ १८.१.३५ ॥
诸神在哪一场神圣集会中欢喜,便在毗婆娑特之座上承持它;他们把光明置于太阳,把黎明置于月份,在光辉周围不息地运行。
18.1.36
यस्मिन् देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म ।
मित्रो नो अत्रादितिरनागान्त्सविता देवो वरुणाय वोचत् ॥ १८.१.३६ ॥
诸神在其中于心中游行,于隐秘之处,我们在此并不知晓其秘密。愿密特拉、阿底提与无罪者在此为我们向伐楼那说明;愿神萨维德里宣告。
18.1.37
सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे ।
स्तुष ऊ षु नृतमाय धृष्णवे ॥ १८.१.३७ ॥
朋友们,我们向持金刚的因陀罗祈求神圣的祷词。愿我好好赞颂那位最勇猛、无畏的(因陀罗)。
18.1.38
शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा ।
मघैर्मघोनो अति शूर दाशसि ॥ १८.१.३८ ॥
你确实以力量而闻名,以斩杀弗栗多而为斩弗栗多者。以财富超越富有者,啊英雄,你施予。
18.1.39
स्तेगो न क्षामत्येषि पृथिवीं मही नो वाता इह वान्तु भूमौ ।
मित्रो नो अत्र वरुणो युजमानो अग्निर्वने न व्यसृष्ट शोकम् ॥ १८.१.३९ ॥
如窃贼般你行于大地之上,你行于广大的大地。愿风在此为我们吹拂于这片土地;愿密特拉与伐楼那在此为我们结合,如阿耆尼在森林中释放火焰。
18.1.40
स्तुहि श्रुतं गर्तसदं जनानां राजानं भीममुपहत्नुमुग्रम् ।
मृडा जरित्रे रुद्र स्तवानो अन्यमस्मत्ते नि वपन्तु सेन्यम् ॥ १८.१.४० ॥
赞颂那位闻名的、坐于坑中的、人类之王、可畏的、隐伏的、猛烈的(神)。楼陀罗啊,受赞颂后,请慈悯赞颂者;愿你的箭落于他人,而非我们。
18.1.41
सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने ।
सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात् ॥ १८.१.४१ ॥
渴望诸神者在祭祀进行时呼唤萨拉斯瓦蒂,呼唤萨拉斯瓦蒂。行善者呼唤萨拉斯瓦蒂;愿萨拉斯瓦蒂赐予施主所愿的福分。
18.1.42
सरस्वतीं पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः ।
आसद्यास्मिन् बर्हिषि मादयध्वमनमीवा इष आ धेह्यस्मे ॥ १८.१.४२ ॥
诸祖先召唤萨罗室伐蒂,带着祭礼趋近祭祀。请坐在这圣草之上,欢喜吧,赐予我们无病之食。
18.1.43
सरस्वति या सरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती ।
सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि ॥ १८.१.४३ ॥
萨罗室伐蒂啊,你乘着战车,与诸祖先一同欢喜,伴随颂诗与斯瓦陀的供奉而行——女神啊,请在此赐予施祭者价值千倍的伊达分与财富的增长。
18.1.44
उदीरतामवर उत्परास उन् मध्यमाः पितरः सोम्यासः ।
असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥ १८.१.४४ ॥
愿下面的、远方的与中间的饮苏摩的诸祖先升起。愿那些已往生气息之处、无害而知晓真理(ṛta)的祖先,在召唤之中护佑我们。
18.1.45
आहं पितॄन्त्सुविदत्रामवित्सि नपातं च विक्रमणं च विष्णोः ।
बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥ १८.१.४५ ॥
我在此获得善施的诸祖先,以及孙辈与毗湿奴的大步。愿那些坐于圣草之上、借斯瓦陀分享压榨苏摩者,最先来到此处。
18.1.46
इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो ये अपरास ईयुः ।
ये पार्थिवे रजस्या निषक्ता ये वा नूनं सुवृजनासु दिक्षु ॥ १८.१.४६ ॥
愿今日此敬礼归于诸祖先——先行者与后去者;栖于地上虚空者,或确在善序诸方者。
18.1.47
मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिर्ऋक्वभिर्वावृधानः ।
यांश्च देवा वावृधुर्ये च देवांस्ते नोऽवन्तु पितरो हवेषु ॥ १८.१.४७ ॥
与诗人摩多利、与安吉罗斯的阎摩、与瑞克伐的brihaspati一同增长;诸神所增长者,亦增长诸神者——愿那些祖先在呼唤中保佑我们。
18.1.48
स्वादुष्किलायं मधुमाँ उतायं तीव्रः किलायं रसवाँ उतायम् ।
उतो न्वस्य पपिवांसमिन्द्रं न कश्चन सहत आहवेषु ॥ १८.१.४८ ॥
此物确实甘美,充满蜜;此物确实辛烈,充满汁液;饮此之因陀罗,在呼唤中无人能胜。
18.1.49
परेयिवांसं प्रवतो महीरिति बहुभ्यः पन्थामनुपस्पशानम् ।
वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥ १८.१.४९ ॥
以祭供敬拜国王阎摩——毗婆娑之子,人类的聚会之所;他已越过高山,为众人看见无阻之路。
18.1.50
यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ ।
यत्रा नः पूर्वे पितरः परेता एना जज्ञानाः पथ्या अनु स्वाः ॥ १८.१.५० ॥
阎摩首先为我们找到了道路;此段距离无法折返。我们先祖所去之处,这些新生者亦沿着各自的道路前往。
18.1.51
बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् ।
त आ गतावसा शंतमेनाधा नः शं योररपो दधात ॥ १८.१.५१ ॥
坐于圣草上的祖先们,请来此相助;我们为你们备好了这些祭供,请接受。以最吉祥的庇护前来,然后赐予我们福祉、健康与无害。
18.1.52
आच्या जानु दक्षिणतो निषद्येदं नो हविरभि गृणन्तु विश्वे ।
मा हिंसिष्ट पितरः केन चिन् नो यद्व आगः पुरुषता कराम ॥ १८.१.५२ ॥
屈膝向右而坐;愿诸祖先接受我们的这份供物。哎,祖先们,因为人的本性我们对你们犯了过错,请不要以任何方式伤害我们。
18.1.53
त्वष्टा दुहित्रे वहतुं कृणोति तेनेदं विश्वं भुवनं समेति ।
यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥ १८.१.५३ ॥
特瓦湿多为其女儿安排迎亲队伍;由此整个世界聚集在一起。阎摩之母,伟大的毗婆娑特之妻,在被引导绕行时消逝了。
18.1.54
प्रेहि प्रेहि पथिभिः पूर्याणैर्येना ते पूर्वे पितरः परेताः ।
उभा राजानौ स्वधया मदन्तौ यमं पश्यासि वरुणं च देवम् ॥ १८.१.५४ ॥
前行,前行,走那些先祖们曾经走过的古老道路。你将见到阎摩与天神伐楼那,这两位以斯瓦陀为乐的君王。
18.1.55
अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन् ।
अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥ १८.१.५५ ॥
走开,离去,从此处移开;祖先们为他创造了这个世界。阎摩赐予他一处以白昼、水流与黑夜为界标的安息之所。
18.1.56
उशन्तस्त्वेधीमह्युशन्तः समिधीमहि ।
उशन्न् उशत आ वह पितॄन् हविषे अत्तवे ॥ १८.१.५६ ॥
我们渴望着你,点燃你;我们渴望着,以柴薪燃起你。欲望的阿耆尼啊,把渴望的祖先带到这里来,食用供物吧。
18.1.57
द्युमन्तस्त्वेधीमहि द्युमन्तः समिधीमहि ।
द्युमान् द्युमत आ वह पितॄन् हविषे अत्तवे ॥ १८.१.५७ ॥
我们光明灿烂地点燃你;以柴薪光明地燃起你。光耀的阿耆尼啊,把光耀的祖先带到这里来,食用供物吧。
18.1.58
अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः ।
तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥ १८.१.५८ ॥
安吉罗斯、那婆格瓦、阿闼婆与婆利古,我们这些爱苏摩的祖先啊:愿我们处于那些值得献祭者的善意与吉祥的和悦之中。
18.1.59
अङ्गिरोभिर्यज्ञियैरा गहीह यम वैरूपैरिह मादयस्व ।
विवस्वन्तं हुवे यः पिता तेऽस्मिन् बर्हिष्या निषद्य ॥ १८.१.५९ ॥
请与值得献祭的安吉罗斯一同来此,阎摩啊;与韦鲁帕一同在此欢喜。我呼唤你的父亲毗婆娑特;请坐在这圣草之上。
18.1.60
इमं यम प्रस्तरमा हि रोहाङ्गिरोभिः पितृभिः संविदानः ।
आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन् हविषो मादयस्व ॥ १८.१.६० ॥
阎摩啊,请登上这铺设的圣草,与安吉罗斯和祖先们相合。愿诗人所赞的颂歌将你带到这里;国王啊,请因祭品而欢喜。
18.1.61
इत एत उदारुहन् दिवस्पृष्ठान्वारुहन् ।
प्र भूर्जयो यथा पथा द्यामङ्गिरसो ययुः ॥ १८.१.६१ ॥
他们从此处向上攀登,登上天穹之背。如同布尔贾耶人沿路前行,安吉罗斯便向天空而去。