阿闼婆吠陀 · 颂诗(Sūkta) 18.2
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
18.2.1
यमाय सोमः पवते यमाय क्रियते हविः ।
यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः ॥ १८.२.१ ॥
为阎摩流出苏摩;为阎摩准备供物。以阿耆尼为使者、装饰妥当的祭祀必定前往阎摩处。
18.2.2
यमाय मधुमत्तमं जुहोता प्र च तिष्ठत ।
इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥ १८.२.२ ॥
向阎摩献上最甘甜的供品,然后起立。此敬礼献给古代的仙人、祖先、先人以及开辟道路者。
18.2.3
यमाय घृतवत्पयो राज्ञे हविर्जुहोतन ।
स नो जीवेष्वा यमेद्दीर्घमायुः प्र जीवसे ॥ १८.२.३ ॥
向国王阎摩献上混有酥油的乳汁与供物。愿他在生者之中赐予我们长寿,使我们得以生存。
18.2.4
मैनमग्ने वि दहो माभि शूशुचो मास्य त्वचं चिक्षिपो मा शरीरम् ।
शृतं यदा करसि जातवेदोऽथेमेनं प्र हिणुतात्पितॄंरुप ॥ १८.२.४ ॥
阿耆尼啊,不要焚烧他,不要烧焦他;不要丢弃他的皮,不要抛弃他的身体。哦,迦多吠陀,当你将他烹熟之后,便将他送往祖先那里。
18.2.5
यदा शृतं कृणवो जातवेदोऽथेममेनं परि दत्तात्पितृभ्यः ।
यदो गछात्यसुनीतिमेतामथ देवानां वशनीर्भवाति ॥ १८.२.५ ॥
哦,迦多吠陀,当你将他烹熟之后,便将他交付给祖先。当他沿着这条气息之路前行时,他便成为众神所喜爱的人。
18.2.6
त्रिकद्रुकेभिः पवते षडुर्वीरेकमिद्बृहत् ।
त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आर्पिता ॥ १८.२.६ ॥
随着三个德鲁库器皿而流动;六个广阔的世界,唯一的伟大。特里斯图布、伽耶特里及一切韵律,都安立于阎摩之中。
18.2.7
सूर्यं चक्षुषा गच्छ वातमात्मना दिवं च गच्छ पृथिवीं च धर्मभिः ।
अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः ॥ १८.२.७ ॥
以眼睛前往太阳,以气息前往风;依其本性前往天界与大地。若于彼处于你有益,便去水中,或与你的身体一同留在草药之中。
18.2.8
अजो भागस्तपसस्तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः ।
यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥ १८.२.८ ॥
无生之分属于苦行之热;请你炙烤它,愿你的火焰炙烤它,愿你的光辉炙烤它。哦,Jātavedas,以你那些吉祥之形,将他带往善行者的世界。
18.2.9
यास्ते शोचयो रंहयो जातवेदो याभिरापृणासि दिवमन्तरिक्षम् ।
अजं यन्तमनु ताः समृण्वतामथेतराभिः शिवतमाभिः शृतं कृधि ॥ १८.२.९ ॥
哦,Jātavedas,愿你以充满天界与虚空的那些火焰与疾速之光,追随那前行的无生者并与之相合;然后以其余最为吉祥的火焰将他烹煮成熟。
18.2.10
अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधावान् ।
आयुर्वसान उप यातु शेषः सं गच्छतां तन्वा सुवर्चाः ॥ १८.२.१० ॥
哦,Agni,请将那被你献祭、拥有供养而行走的人再次释放给诸祖;愿披着生命的余者靠近;愿那具有美好光辉者与身体相合。
18.2.11
अति द्रव श्वानौ सारमेयौ चतुरक्षौ शबलौ साधुना पथा ।
अधा पितॄन्त्सुविदत्रामपीहि यमेन ये सधमादं मदन्ति ॥ १८.२.११ ॥
沿着善道飞快越过萨拉玛之子那两只四眼斑纹之犬。然后回到此处,回到诸祖与慷慨者那里,他们与阎摩共同宴饮而欢乐。
18.2.12
यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिषदी नृचक्षसा ।
ताभ्यां राजन् परि धेह्येनं स्वस्त्यस्मा अनमीवं च धेहि ॥ १८.२.१२ ॥
阎摩啊,你的两只守护犬,四只眼睛,坐在路上观望众人;国王啊,请将他置于它们的守护之下;赐予他安康,使他无病。
18.2.13
उरूणसावसुतृपावुदुम्बलौ यमस्य दूतौ चरतो जनामनु ।
तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् ॥ १८.२.१३ ॥
阎摩的两位使者,宽鼻、以气息为满足、赤色,在人群中游行;愿这两位在此再次赐予我们伴随气息的福祉,使我们得以见到太阳。
18.2.14
सोम एकेभ्यः पवते घृतमेक उपासते ।
येभ्यो मधु प्रधावति तांश्चिदेवापि गच्छतात् ॥ १८.२.१४ ॥
苏摩为某些人流淌,另一些人则供奉酥油;愿他也去往那些甘蜜向其涌流的人那里。
18.2.15
ये चित्पूर्व ऋतसाता ऋतजाता ऋतावृधः ।
ऋषीन् तपस्वतो यम तपोजामपि गच्छतात् ॥ १८.२.१५ ॥
那些古昔的人,因真理而得胜,由真理而生,增长真理者:阎摩啊,愿他也去往苦行的仙人那里,去往由苦行而生者那里。
18.2.16
तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः ।
तपो ये चक्रिरे महस्तांश्चिदेवापि गच्छतात् ॥ १८.२.१६ ॥
那些因苦行而不可侵犯者,因苦行而升天者,行大苦行者:愿他也去往他们那里。
18.2.17
ये युध्यन्ते प्रधनेषु शूरासो ये स्वर्तनूत्यजः ।
ये वा सहस्रदक्षिणास्तां चिदेवापि गच्छतात् ॥ १८.२.१७ ॥
那些在争夺财物的战斗中奋战的勇士,为天界舍弃身体者,或施舍千份供物者:愿他也去往他们那里。
18.2.18
सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् ।
ऋषीन् तपस्वतो यम तपोजामपि गच्छतात् ॥ १८.२.१८ ॥
那些有千颂的智者守护太阳,守护苦行的仙人——哦,阎摩,愿他也去到由苦行所生者那里。
18.2.19
स्योनास्मै भव पृथिव्यनृक्षरा निवेशनी ।
यछास्मै शर्म सप्रथाः ॥ १८.२.१९ ॥
哦,大地,对他温和吧;无刺而成为他的安息之所吧;赐予他宽广的庇护。
18.2.20
असंबाधे पृथिव्या उरौ लोके नि धीयस्व ।
स्वधा याश्चकृषे जीवन् तास्ते सन्तु मधुश्चुतः ॥ १८.२.२० ॥
在大地宽广无窘迫的世界中安住吧;你生前所行的斯瓦陀,愿它们为你滴落蜜汁。
18.2.21
ह्वयामि ते मनसा मन इहेमान् गृहामुप जुजुषाण एहि ।
सं गच्छस्व पितृभिः सं यमेन स्योनास्त्वा वाता उप वान्तु शग्माः ॥ १८.२.२१ ॥
我以心念呼唤你的心,来吧,享受这些住处。与祖先们、与阎摩相聚;愿温和令人愉悦的风吹向你。
18.2.22
उत्त्वा वहन्तु मरुत उदवाहा उदप्रुतः ।
अजेन कृण्वन्तः शीतं वर्षेणोक्षन्तु बालिति ॥ १८.२.२२ ॥
愿摩录多们将你载向高处;愿向上载运与向上涌流者将你抬起;与山羊一同造出清凉,愿以雨水洒你——巴利提。
18.2.23
उदह्वमायुरायुषे क्रत्वे दक्षाय जीवसे ।
स्वान् गच्छतु ते मनो अधा पितॄंरुप द्रव ॥ १८.२.२३ ॥
为了寿命、为了坚定、为了力量、为了生存而起来;愿你的心归向自己的亲人;然后奔向祖先。
18.2.24
मा ते मनो मासोर्माङ्गानां मा रसस्य ते ।
मा ते हास्त तन्वः किं चनेह ॥ १८.२.२४ ॥
愿你的心意、气息、肢体的精华不失;愿你身体的任何部分在此都不致缺失。
18.2.25
मा त्वा वृक्षः सं बाधिष्ट मा देवी पृथिवी मही ।
लोकं पितृषु वित्त्वैधस्व यमराजसु ॥ १८.२.२५ ॥
愿树木不压迫你,伟大的女神大地也不压迫你;得到祖先的世界,在阎摩王处兴旺吧。
18.2.26
यत्ते अङ्गमतिहितं पराचैरपानः प्राणो य उ वा ते परेतः ।
तत्ते संगत्य पितरः सनीडा घासाद्घासं पुनरा वेशयन्तु ॥ १८.२.२६ ॥
你被置于远处的肢体,离你而去的下行气与上行气——愿同巢的祖先们聚集起来,归还于你,从食到食,再将你安置。
18.2.27
अपेमं जीवा अरुधन् गृहेभ्यस्तं निर्वहत परि ग्रामादितः ।
मृत्युर्यमस्यासीद्दूतः प्रचेता असून् पितृभ्यो गमयां चकार ॥ १८.२.२७ ॥
活着的人已将他拦在屋外;请从此处将他带出村庄之外。阎摩的使者、明智的死神,已将生命之气送往祖先那里。
18.2.28
ये दस्यवः पितृषु प्रविष्टा ज्ञातिमुखा अहुतादश्चरन्ति ।
परापुरो निपुरो ये भरन्त्यग्निष्टान् अस्मात्प्र धमाति यज्ञात् ॥ १८.२.२८ ॥
那些混入祖先之中、以亲族面目游荡、食用未献之物、前后背负重负的盗贼——愿火神将他们从此祭祀中吹走。
18.2.29
सं विशन्त्विह पितरः स्वा नः स्योनं कृण्वन्तः प्रतिरन्त आयुः ।
तेभ्यः शकेम हविषा नक्षमाणा ज्योग्जीवन्तः शरदः पुरूचीः ॥ १८.२.२९ ॥
愿我们自己的祖先在此一同降临,赐予我们安乐,延长我们的寿命。以祭供亲近他们,愿我们能活过许多个秋天。
18.2.30
यां ते धेनुं निपृणामि यमु क्षीर ओदनम् ।
तेना जनस्यासो भर्ता योऽत्रासदजीवनः ॥ १८.२.३० ॥
我为你献上那头牛和以乳煮成的饭;愿你借此成为人们的养育者,凡此处无生命之物,也归你所有。
18.2.31
अश्वावतीं प्र तर या सुशेवा र्क्षाकं वा प्रतरं नवीयः ।
यस्त्वा जघान वध्यः सो अस्तु मा सो अन्यद्विदत भागधेयम् ॥ १८.२.३१ ॥
请将富有骏马、最为慈善的那位渡过彼岸,或渡过比Ṛkṣāka更远的新者;击伤你的人应当被杀,愿他得不到别的份额。
18.2.32
यमः परोऽवरो विवस्वान् ततः परं नाति पश्यामि किं चन ।
यमे अध्वरो अधि मे निविष्टो भुवो विवस्वान् अन्वाततान ॥ १८.२.३२ ॥
阎摩是更高者,毗婆娑特是更低者;在那之外我一无所见。我的祭祀确立于阎摩之中;毗婆娑特展开了世界。
18.2.33
अपागूहन्न् अमृतां मर्त्येभ्यः कृत्वा सवर्णामदधुर्विवस्वते ।
उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥ १८.२.३३ ॥
他们将不死藏匿于凡人之外,化为同色之物,交给毗婆娑特;他也带来了双马童。当那存在时,萨兰尤遗弃了两对。
18.2.34
ये निखाता ये परोप्ता ये दग्धा ये चोद्धिताः ।
सर्वांस्तान् अग्न आ वह पितॄन् हविषे अत्तवे ॥ १८.२.३४ ॥
凡被埋葬者、被远抛者、被焚烧者、被高举者——阿耆尼啊,请把他们全部,祖先们,带到这里来享用祭品。
18.2.35
ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते ।
त्वं तान् वेत्थ यदि ते जातवेदः स्वधया यज्ञं स्वधितिं जुषन्ताम् ॥ १८.२.३५ ॥
被火焚烧的与未被火焚烧的,在天界中央借svadhā而欢喜。若你认识他们,耆多韦达啊,愿他们借svadhā享用祭祀与svadhiti。
18.2.36
शं तप माति तपो अग्ने मा तन्वं तपः ।
वणेषु शुष्मो अस्तु ते पृथिव्यामस्तु यद्धरः ॥ १८.२.३६ ॥
啊,阿耆尼,温和地燃烧吧;不要过度灼烧身体。愿你的力量在伤口中;愿你猛烈的热焰在大地上。
18.2.37
ददाम्यस्मा अवसानमेतद्य एष आगन् मम चेदभूदिह ।
यमश्चिकित्वान् प्रत्येतदाह ममैष राय उप तिष्ठतामिह ॥ १८.२.३७ ॥
我把这安息之所给他,若此人来到这里是属于我的。作为回报,明智的阎摩说:愿我的这份财富站立在此近处。
18.2.38
इमां मात्रां मिमीमहे यथापरं न मासातै ।
शते शरत्सु नो पुरा ॥ १८.२.३८ ॥
我们衡量这个尺度,使超出它的一切不会从我们身上失去;直到百个秋天,在我们之前。
18.2.39
प्रेमां मात्रां मिमीमहे यथापरं न मासातै ।
शते शरत्सु नो पुरा ॥ १८.२.३९ ॥
我们向前衡量这个尺度,使超出它的一切不会从我们身上失去;直到百个秋天,在我们之前。
18.2.40
अपेमां मात्रां मिमीमहे यथापरं न मासातै ।
शते शरत्सु नो पुरा ॥ १८.२.४० ॥
我们向后衡量这个尺度,使超出它的一切不会从我们身上失去;直到百个秋天,在我们之前。
18.2.41
वीमां मात्रां मिमीमहे यथापरं न मासातै ।
शते शरत्सु नो पुरा ॥ १८.२.४१ ॥
我们横向衡量这个尺度,使超出它的一切不会从我们身上失去;直到百个秋天,在我们之前。
18.2.42
निरिमां मात्रां मिमीमहे यथापरं न मासातै ।
शते शरत्सु नो पुरा ॥ १८.२.४२ ॥
我们量度此寿限,使其不如彼岸之物般消逝;愿我们在百个秋天中得享寿命。
18.2.43
उदिमां मात्रां मिमीमहे यथापरं न मासातै ।
शते शरत्सु नो पुरा ॥ १८.२.४३ ॥
我们高举此量而度之,使其不如彼岸之物般消逝;愿我们在百个秋天中得享寿命。
18.2.44
समिमां मात्रां मिमीमहे यथापरं न मासातै ।
शते शरत्सु नो पुरा ॥ १८.२.४४ ॥
我们共同量度此寿限,使其不如彼岸之物般消逝;愿我们在百个秋天中得享寿命。
18.2.45
अमासि मात्रां स्वरगामायुष्मान् भूयासम् ।
यथापरं न मासातै शते शरत्सु नो पुरा ॥ १८.२.४५ ॥
我量度此寿限:愿我长寿,升往天界;不如彼岸之物般消逝,愿我们在百个秋天中得享寿命。
18.2.46
प्राणो अपानो व्यान आयुश्चक्षुर्दृशये सूर्याय ।
अपरिपरेण पथा यमराज्ञः पितॄन् गच्छ ॥ १८.२.४६ ॥
气息、下行气、遍行气、寿命、眼睛——为了视见,为了太阳。循不绕行之道,去往阎摩王的祖先之处。
18.2.47
ये अग्रवः शशमानाः परेयुर्हित्वा द्वेषांस्यनपत्यवन्तः ।
ते द्यामुदित्याविदन्त लोकं नाकस्य पृष्ठे अधि दीध्यानाः ॥ १८.२.४७ ॥
那些先行者,努力前行,舍弃怨恨,虽无子嗣:他们升越天空,得到天界,在天之背上光辉闪耀。
18.2.48
उदन्वती द्यौरवमा पीलुमतीति मध्यमा ।
तृतीया ह प्रद्यौरिति यस्यां पितर आसते ॥ १८.२.४८ ॥
水之天最低,满是pīlu之天居中;第三重名为远天,诸祖灵在其中安坐。
18.2.49
ये न पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् ।
य आक्षियन्ति पृथिवीमुत द्यां तेभ्यः पितृभ्यो नमसा विधेम ॥ १८.२.४९ ॥
那些非父之父者、即祖父辈者、进入广大虚空者、遍及大地与天空者——愿以敬礼尊奉那些祖灵。
18.2.50
इदमिद्वा उ नापरं दिवि पश्यसि सूर्यम् ।
माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥ १८.२.५० ॥
正是此一,别无他者——于天中你看见太阳。如母以衣覆子,故此,大地啊,请覆盖他。
18.2.51
इदमिद्वा उ नापरं जरस्यन्यदितोऽपरम् ।
जाया पतिमिव वाससाभ्येनं भूम ऊर्णुहि ॥ १८.२.५१ ॥
正是此一,别无他者——老时由此而有另一。如妻以衣覆夫,故此,大地啊,请覆盖他。
18.2.52
अभि त्वोर्णोमि पृथिव्या मातुर्वस्त्रेण भद्रया ।
जीवेषु भद्रं तन् मयि स्वधा पितृषु सा त्वयि ॥ १८.२.५२ ॥
我以大地母亲吉祥的衣袍覆盖你。活人之中的吉祥,愿在我身;祖灵之中的斯瓦达,愿在你身。
18.2.53
अग्नीषोमा पथिकृता स्योनं देवेभ्यो रत्नं दधथुर्वि लोकम् ।
उप प्रेष्यन्तं पूषणं यो वहात्यञ्जोयानैः पथिभिस्तत्र गच्छतम् ॥ १८.२.५३ ॥
啊,阿耆尼与苏摩,开辟道路者,你们为诸神设立愉悦的珍宝与广阔的世界。请将被遣的普薰,及以直路引导之者,带往那里,前往彼处。
18.2.54
पूषा त्वेतश्च्यावयतु प्र विद्वान् अनष्टपशुर्भुवनस्य गोपाः ।
स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥ १८.२.५४ ॥
愿知晓道路、牲畜不失的世界守护者Pūṣan将你从此处引开。愿他将你交予这些祖先,愿Agni将你交予诸神与慷慨之人。
18.2.55
आयुर्विश्वायुः परि पातु त्वा पूषा त्वा पातु प्रपथे पुरस्तात् ।
यत्रासते सुकृतो यत्र त ईयुस्तत्र त्वा देवः सविता दधातु ॥ १८.२.५५ ॥
愿寿命、满寿命全然护佑你;愿Pūṣan在前行的路上护佑你。愿神Savitṛ将你安置于善人所坐之处、善人所去之地。
18.2.56
इमौ युनज्मि ते वह्नी असुनीताय वोढवे ।
ताभ्यां यमस्य सादनं समितिश्चाव गच्छतात् ॥ १८.२.५६ ॥
我为你驾上这两头载运者,用以承载引导生气者。你便与这二者一同下往阎摩的座位与集会之处。
18.2.57
एतत्त्वा वासः प्रथमं न्वागन्न् अपैतदूह यदिहाबिभः पुरा ।
इष्टापूर्तमनुसंक्राम विद्वान् यत्र ते दत्तं बहुधा विबन्धुषु ॥ १८.२.५७ ॥
先前来到你身上的这件衣服,如今便脱下,就是你先前在此穿着的那件。知晓之人啊,请追随祭祀与功德,前往你的布施已在亲族中以多种方式施予的地方。
18.2.58
अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोर्णुष्व मेदसा पीवसा च ।
नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधृग्विधक्षन् परीङ्खयातै ॥ १८.२.५८ ॥
以火神Agni的甲胄与光芒将自己环绕;以脂膏与丰盈将自己覆盖。愿那勇猛、以热力燃烧焚烧的神不离开你,而是环绕你四周。
18.2.59
दण्डं हस्तादाददानो गतासोः सह श्रोत्रेण वर्चसा बलेन ।
अत्रैव त्वमिह वयं सुवीरा विश्वा मृधो अभिमातीर्जयेम ॥ १८.२.५९ ॥
你从气息已逝者的手中取过杖,与听力、光辉和力量同在,就留在此处吧;愿我们拥有优秀的英勇子孙,战胜一切敌人与敌意之人。
18.2.60
धनुर्हस्तादाददानो मृतस्य सह क्षत्रेण वर्चसा बलेन ।
समागृभाय वसु भूरि पुष्टमर्वाङ्त्वमेह्युप जीवलोकम् ॥ १८.२.६० ॥
你从亡者的手中取过弓,与刹帝利之力、光辉和力量同在,聚集丰厚的财富与兴旺;你来此处吧,走近生者的世界。