阿闼婆吠陀 · 颂诗(Sūkta) 18.4
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
18.4.1
आ रोहत जनित्रीं जातवेदसः पितृयानैः सं व आ रोहयामि ।
अवाड्ढव्येषितो हव्यवाह ईजानं युक्ताः सुकृतां धत्त लोके ॥ १८.४.१ ॥
耶陀多衛夕啊,攀上你的母亲;我借祖先之路将你升起。携带祭品者,随祭品而遣,将献祭者与驾辕者一同安置于善行者的世界。
18.4.2
देवा यज्ञमृतवः कल्पयन्ति हविः पुरोडाशं स्रुचो यज्ञायुधानि ।
तेभिर्याहि पथिभिर्देवयानैर्यैरीजानाः स्वर्गं यन्ति लोकम् ॥ १८.४.२ ॥
诸神与季节备办祭祀、祭品、圣饼、勺子与祭器。你当沿神道而行,那是献祭者走向天界之路。
18.4.3
ऋतस्य पन्थामनु पश्य साध्वङ्गिरसः सुकृतो येन यन्ति ।
तेभिर्याहि पथिभिः स्वर्गं यत्रादित्या मधु भक्षयन्ति तृतीये नाके अधि वि श्रयस्व ॥ १८.४.३ ॥
好好看那宇宙秩序之道,行善的安吉罗斯沿此而行。你当沿那些道路往天界去,在那里阿底提耶们食蜜;在第三天界安住。
18.4.4
त्रयः सुपर्णा उपरस्य मायू नाकस्य पृष्ठे अधि विष्टपि श्रिताः ।
स्वर्गा लोका अमृतेन विष्ठा इषमूर्जं यजमानाय दुह्राम् ॥ १८.४.४ ॥
三只美翼之鸟栖息于天界之背、上方的维斯塔帕。愿以不死而立的天界诸世界,为献祭者挤出食物与力量。
18.4.5
जुहूर्दाधार द्यामुपभृदन्तरिक्षं ध्रुवा दाधार पृथिवीं प्रतिष्ठाम् ।
ध्रुव आ रोह पृथिवीं विश्वभोजसमन्तरिक्षमुपभृदा क्रमस्व ।
प्रतीमां लोका घृतपृष्ठाः स्वर्गाः कामंकामं यजमानाय दुह्राम् ॥ १८.४.५ ॥
Juhū 托住天空,upabhṛt 托住中界;坚固的 dhruvā 以大地为根基而托住大地。坚固者,登上大地;养育众生的中界,upabhṛt,向前迈进。愿这些背负酥油的世界、天界,为祭祀者挤出一个又一个欲望。
18.4.6
ध्रुव आ रोह पृथिवीं विश्वभोजसमन्तरिक्षमुपभृदा क्रमस्व ।
जुहु द्यां गच्छ यजमानेन साकं स्रुवेण वत्सेन दिशः प्रपीनाः सर्वा धुक्ष्वाहृण्यमानः ॥ १८.४.६ ॥
坚固者,登上大地;养育众生的中界,upabhṛt,向前迈进。Juhū,与祭祀者、勺子与小牛一同前往天界;受到召请,挤出充满乳汁的所有方向。
18.4.7
तीर्थैस्तरन्ति प्रवतो महीरिति यज्ञकृतः सुकृतो येन यन्ति ।
अत्रादधुर्यजमानाय लोकं दिशो भूतानि यदकल्पयन्त ॥ १८.४.७ ॥
'借着渡口,他们渡过广大的深渊'——行祭者、行善者借之而行。在此,当方位与众生被安排时,他们为祭祀者设立了一个世界。
18.4.8
अङ्गिरसामयनं पूर्वो अग्निरादित्यानामयनं गार्हपत्यो दक्षिणानामयनं दक्षिणाग्निः ।
महिमानमग्नेर्विहितस्य ब्रह्मणा समङ्गः सर्व उप याहि शग्मः ॥ १८.४.८ ॥
安吉罗萨的道路是东火;阿底提耶的道路是家主火;南方供品的道路是南火。以梵咒所定的阿耆尼之伟大,你们众人齐集,吉祥地来近前。
18.4.9
पूर्वो अग्निष्ट्वा तपतु शं पुरस्ताच्छं पश्चात्तपतु गार्हपत्यः ।
दक्षिणाग्निष्टे तपतु शर्म वर्मोत्तरतो मध्यतो अन्तरिक्षाद्दिशोदिशो अग्ने परि पाहि घोरात् ॥ १८.४.९ ॥
愿东方之火温暖你,从前方温和地;愿家火从后方温暖你。愿南方之火温暖你;愿它从北方、中间、虚空、每一方向成为庇护与铠甲。阿耆尼啊,请从可怖之物中四面护佑。
18.4.10
यूयमग्ने शंतमाभिस्तनूभिरीजानमभि लोकं स्वर्गम् ।
अश्वा भूत्वा पृष्टिवाहो वहाथ यत्र देवैः सधमादं मदन्ति ॥ १८.४.१० ॥
阿耆尼啊,以你们最为吉祥的身体,将祭祀者引向天界之世界。化作马匹,驮负于背上,带他去到诸神共同欢宴喜乐之处。
18.4.11
शमग्ने पश्चात्तप शं पुरस्ताच्छमुत्तराच्छमधरात्तपैनम् ।
एकस्त्रेधा विहितो जातवेदः सम्यगेनं धेहि सुकृतामु लोके ॥ १८.४.११ ॥
阿耆尼啊,请从后方温和地温暖他;从前、从北、从下温和地温暖他。阿耆尼·耶陀吠陀啊,你唯一而又以三种形态安立,请将他妥善安置于善人之界。
18.4.12
शमग्नयः समिद्धा आ रभन्तां प्राजापत्यं मेध्यं जातवेदसः ।
शृतं कृण्वन्त इह माव चिक्षिपन् ॥ १८.४.१२ ॥
愿已点燃的诸火温和地接受属于生主、耶陀吠陀的清净供物。在此制作熟食之分,不要将我抛弃。
18.4.13
यज्ञ एति विततः कल्पमान ईजानमभि लोकं स्वर्गम् ।
तमग्नयः सर्वहुतं जुषन्तां प्राजापत्यं मेध्यं जातवेदसः ॥ १८.४.१३ ॥
展开的祭祀,变得有效,携带祭祀者走向天界之世界。愿诸火欢喜地接受那全部献供——属于生主、耶陀吠陀的清净之分。
18.4.14
ईजानश्चितमारुक्षदग्निं नाकस्य पृष्ठाद्दिवमुत्पतिष्यन् ।
तस्मै प्र भाति नभसो ज्योतिषीमान्त्स्वर्गः पन्थाः सुकृते देवयानः ॥ १८.४.१४ ॥
将要向上飞升的祭祀者从那伽的背脊登上阿耆尼,升往天界。为他,从虚空中照耀出光明的天路,那是善行者的天神之道(天神道)。
18.4.15
अग्निर्होताध्वर्युष्टे बृहस्पतिरिन्द्रो ब्रह्मा दक्षिणतस्ते अस्तु ।
हुतोऽयं संस्थितो यज्ञ एति यत्र पूर्वमयनं हुतानाम् ॥ १८.४.१५ ॥
愿阿耆尼为呼唤者(荷塔),阿特瓦尤为你所有;愿布里哈斯帕提、因陀罗与梵主位于你的右侧。这已献出、已完成的祭祀,走向诸供物先前的道路所在之处。
18.4.16
अपूपवान् क्षीरवांश्चरुरेह सीदतु ।
लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १८.४.१६ ॥
愿带有饼与乳的祭饭(chāru)坐于此处。我们祭祀创造世界者与开辟道路者,你们作为诸神供物的分享者而在此。
18.4.17
अपूपवान् दधिवांश्चरुरेह सीदतु ।
लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १८.४.१७ ॥
愿带有饼与凝乳(酸奶)的祭饭(chāru)坐于此处。我们祭祀创造世界者与开辟道路者,你们作为诸神供物的分享者而在此。
18.4.18
अपूपवान् द्रप्सवांश्चरुरेह सीदतु ।
लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १८.४.१८ ॥
愿带有饼与滴汁(drapsa)的祭饭(chāru)坐于此处。我们祭祀创造世界者与开辟道路者,你们作为诸神供物的分享者而在此。
18.4.19
अपूपवान् घृतवांश्चरुरेह सीदतु ।
लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १८.४.१९ ॥
愿带有饼与酥油(ghṛta)的祭饭(chāru)坐于此处。我们祭祀创造世界者与开辟道路者,你们作为诸神供物的分享者而在此。
18.4.20
अपूपवान् मांसवांश्चरुरेह सीदतु ।
लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १८.४.२० ॥
愿盛有饼与肉的祭鼎在此安坐。我们祭祀那些创造世界与道路、分享诸神献祭之份的,你们这些在此者。
18.4.21
अपूपवान् अन्नवांश्चरुरेह सीदतु ।
लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १८.४.२१ ॥
愿盛有饼与食物的祭鼎在此安坐。我们祭祀那些创造世界与道路、分享诸神献祭之份的,你们这些在此者。
18.4.22
अपूपवान् मधुमांश्चरुरेह सीदतु ।
लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १८.४.२२ ॥
愿盛有饼与蜜的祭鼎在此安坐。我们祭祀那些创造世界与道路、分享诸神献祭之份的,你们这些在此者。
18.4.23
अपूपवान् रसवांश्चरुरेह सीदतु ।
लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १८.४.२३ ॥
愿盛有饼与汁液的祭鼎在此安坐。我们祭祀那些创造世界与道路、分享诸神献祭之份的,你们这些在此者。
18.4.24
अपूपवान् अपवांश्चरुरेह सीदतु ।
लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १८.४.२४ ॥
愿盛有饼与饮料的祭鼎在此安坐。我们祭祀那些创造世界与道路、分享诸神献祭之份的,你们这些在此者。
18.4.25
अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन् ।
ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥ १८.४.२५ ॥
诸神为你安置的、以饼覆盖的瓮,愿它们充满斯瓦达,富含蜂蜜,滴落酥油。
18.4.26
यास्ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः ।
तास्ते सन्तूद्भ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥ १८.४.२६ ॥
我为你撒下的与芝麻混合、充满斯瓦达的谷物,愿它们对你崇高而强大;愿国王阎摩认可它们。
18.4.27
अक्षितिं भूयसीम् ॥ १८.४.२७ ॥
不竭且更加丰盛。
18.4.28
द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः ।
समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥ १८.४.२८ ॥
一滴落在大地与天空之上;这滴在此处与先前之处同一处流动者,我在七位荷托之后献上。
18.4.29
शतधारं वायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते रयिम् ।
ये पृनन्ति प्र च यच्छन्ति सर्वदा ते दुह्रते दक्षिणां सप्तमातरम् ॥ १८.४.२९ ॥
那百流之财,风与光明,寻得天界者,人间的先见者注视着它;那些常常充满并施予的人,挤取七母之布施。
18.4.30
कोशं दुहन्ति कलशं चतुर्बिलमिडां धेनुं मधुमतीं स्वस्तये ।
ऊर्जं मदन्तीमदितिं जनेष्वग्ने मा हिंसीः परमे व्योमन् ॥ १८.४.३० ॥
他们挤取宝库,那四孔之瓶,为了吉祥挤取甘美的伊达牛,给人间力量的阿底提。阿耆尼啊,在至高的天空中不要伤害他们。
18.4.31
एतत्ते देवः सविता वासो ददाति भर्तवे ।
तत्त्वं यमस्य राज्ये वसानस्तार्प्यं चर ॥ १८.४.३१ ॥
天神萨维特里将此衣赐予你穿着;穿着它,在阎摩的国度中以塔尔普亚之衣行走吧。
18.4.32
धाना धेनुरभवद्वत्सो अस्यास्तिलोऽभवत् ।
तां वै यमस्य राज्ये अक्षितामुप जीवति ॥ १८.४.३२ ॥
炒米变成了母牛,它的小牛变成了芝麻。他与这头不朽的母牛一同生活在阎摩的国度里。
18.4.33
एतास्ते असौ धेनवः कामदुघा भवन्तु ।
एनीः श्येनीः सरूपा विरूपास्तिलवत्सा उप तिष्ठन्तु त्वात्र ॥ १८.४.३३ ॥
愿这些牛,以及那边的牛,成为你的满愿之牛。愿黑眼的、鹰色的、同形的、异形的、带芝麻小牛的母牛,在这里站在你身边。
18.4.34
एनीर्धाना हरिणीः श्येनीरस्य कृष्णा धाना रोहिणीर्धेनवस्ते ।
तिलवत्सा ऊर्जमस्मै दुहाना विश्वाहा सन्त्वनपस्फुरन्तीः ॥ १८.४.३४ ॥
黑眼的、炒米色的、赤褐色的、鹰色的,他的黑色、炒米色和红色的母牛都属于你。愿带芝麻小牛的母牛为他挤出力量,永远在此,不踢人。
18.4.35
वैश्वानरे हविरिदं जुहोमि साहस्रं शतधारमुत्सम् ।
स बिभर्ति पितरं पितामहान् प्रपितामहान् बिभर्ति पिन्वमानः ॥ १८.४.३५ ॥
我向毗首婆那献上这份供物,献给千流百流的泉源。他滋养着,承载着父亲,承载着祖父,承载着曾祖父。
18.4.36
सहस्रधारं शतधारमुत्समक्षितं व्यच्यमानं सलिलस्य पृष्ठे ।
ऊर्जं दुहानमनपस्फुरन्तमुपासते पितरः स्वधाभिः ॥ १८.४.३६ ॥
祖先们以斯瓦德哈供奉千流百流的泉源,它不朽,铺展于水面之上,挤出力量,不踢人。
18.4.37
इदं कसाम्बु चयनेन चितं तत्सजाता अव पश्यतेत ।
मर्त्योऽयममृतत्वमेति तस्मै गृहान् कृणुत यावत्सबन्धु ॥ १८.४.३७ ॥
这卡桑布是通过堆砌而成的。同族们,向下看它吧。这个凡人获得不死;为他建造房屋,与他所有的亲族一同。
18.4.38
इहैवैधि धनसनिरिहचित्त इहक्रतुः ।
इहैधि वीर्यवत्तरो वयोधा अपराहतः ॥ १८.४.३८ ॥
就在此处兴旺吧,获取财富者;愿你的心念与志向都在此处。就在此处变得更加有力,赐予寿命,无伤无害,无人能敌。
18.4.39
पुत्रं पौत्रमभितर्पयन्तीरापो मधुमतीरिमाः ।
स्वधां पितृभ्यो अमृतं दुहाना आपो देवीरुभयांस्तर्पयन्तु ॥ १८.४.३९ ॥
这些甘甜之水,滋养子与孙,为祖先挤出斯瓦陀与甘露——愿神圣之水使二者皆得满足。
18.4.40
आपो अग्निं प्र हिणुत पितॄंरुपेमं यज्ञं पितरो मे जुषन्ताम् ।
आसीनामूर्जमुप ये सचन्ते ते नो रयिं सर्ववीरं नि यछान् ॥ १८.४.४० ॥
水啊,请将祖先送往阿耆尼;愿祖先接受我的这场祭祀。那些端坐于滋养之力旁的祖先,愿赐予我们连同所有英雄之子的财富。
18.4.41
समिन्धते अमर्त्यं हव्यवाहं घृतप्रियम् ।
स वेद निहितान् निधीन् पितॄन् परावतो गतान् ॥ १८.४.४१ ॥
他们点燃不死的阿耆尼,他承载祭品,喜爱酥油;他知晓隐藏的宝藏,以及远去的祖先。
18.4.42
यं ते मन्थं यमोदनं यन् मांसं निपृणामि ते ।
ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥ १८.४.४२ ॥
我为你所献的麦粥、熟饭和肉——愿它们充满斯瓦陀,甘甜,滴落酥油。
18.4.43
यास्ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः ।
तास्ते सन्तूद्भ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥ १८.४.४३ ॥
我为你撒下的炒谷,混以芝麻,充满斯瓦陀——愿它们对你崇高而有力;愿国王阎摩认可它们。
18.4.44
इदं पूर्वमपरं नियानं येना ते पूर्वे पितरः परेताः ।
पुरोगवा ये अभिसाचो अस्य ते त्वा वहन्ति सुकृतामु लोकम् ॥ १८.४.४४ ॥
这是先前与后来的道路,你的古代祖先沿此而去。走在前面并伴随此路的人,将你带往善行者的世界。
18.4.45
सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने ।
सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात् ॥ १८.४.४५ ॥
渴望诸神者在进行中的祭祀中呼唤萨罗室伐蒂,呼唤萨罗室伐蒂。善行者呼唤萨罗室伐蒂;愿萨罗室伐蒂赐予施主所求的财富。
18.4.46
सरस्वतीं पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः ।
आसद्यास्मिन् बर्हिषि मादयध्वमनमीवा इष आ धेह्यस्मे ॥ १८.४.४६ ॥
祖先们呼唤萨罗室伐蒂,带着供奉走近祭祀。请坐在这圣草上欢喜吧;赐予我们无病的食物。
18.4.47
सरस्वति या सरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती ।
सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि ॥ १८.४.४७ ॥
萨罗室伐蒂啊,你乘着车,借颂歌与供奉与祖先同乐而行;女神啊,请在此赐予祭主千倍的祭品之分和财富的增长。
18.4.48
पृथिवीं त्वा पृथिव्यामा वेशयामि देवो नो धाता प्र तिरात्यायुः ।
परापरैता वसुविद्वो अस्त्वधा मृताः पितृषु सं भवन्तु ॥ १८.४.४८ ॥
我将你安置于大地之上,安置于大地之中;愿我们的安排者天神延长你的寿命。你走远近的道路,成为获得财富的人;愿死者与祖先们相聚。
18.4.49
आ प्र च्यवेथामप तन् मृजेथां यद्वामभिभा अत्रोचुः ।
अस्मादेतमघ्न्यौ तद्वशीयो दातुः पितृष्विहभोजनौ मम ॥ १८.४.४९ ॥
你们二位前来,远离此处,抹去你们在此所说的灾祸。愿从此人处,两头不可杀之牛取得施主所愿之物;愿在诸祖先中,有两位为我在此享用供养。
18.4.50
एयमगन् दक्षिणा भद्रतो ना अनेन दत्ता सुदुघा वयोधाः ।
यौवने जीवान् उपपृञ्चती जरा पितृभ्य उपसंपराणयादिमान् ॥ १८.४.५० ॥
此布施吉祥而来;由此人所施,易挤之乳,赐予活力。愿衰老在青春中联结众生,使他们靠近诸祖先。
18.4.51
इदं पितृभ्यः प्र भरामि बर्हिर्जीवं देवेभ्य उत्तरं स्तृणामि ।
तदा रोह पुरुष मेध्यो भवन् प्रति त्वा जानन्तु पितरः परेतम् ॥ १८.४.५१ ॥
我为诸祖先取来此圣草;我在上方为诸神铺开活祭。那时,人啊,你变得清净,便登上此草;愿诸祖先认出你,你这已离去者。
18.4.52
एदं बर्हिरसदो मेध्योऽभूः प्रति त्वा जानन्तु पितरः परेतम् ।
यथापरु तन्वं सं भरस्व गात्राणि ते ब्रह्मणा कल्पयामि ॥ १८.४.५२ ॥
你坐在此圣草上,已变得清净;愿诸祖先认出你,你这已离去者。请你逐节聚合你的身体;我以梵(圣咒)为你安排肢体。
18.4.53
पर्णो राजापिधानं चरूणामूर्जो बलं सह ओजो न आगन् ।
आयुर्जीवेभ्यो विदधद्दीर्घायुत्वाय शतशारदाय ॥ १८.४.५३ ॥
帕尔纳王,乃煮饭器皿之盖;愿滋养之力、刚强与活力归于我们。赐予生灵以寿命,得享百秋之长寿。
18.4.54
ऊर्जो भागो य इमं जजानाश्मान्नानामाधिपत्यं जगाम ।
तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात् ॥ १८.४.५४ ॥
那作为力量之分者,生出此物并获得对石头与谷物的统治权——愿众友以祭物敬奉他。愿那阎摩赐予我们更长的生命。
18.4.55
यथा यमाय हर्म्यमवपन् पञ्च मानवाः ।
एवा वपामि हर्म्यं यथा मे भूरयोऽसत ॥ १८.४.५५ ॥
如同五个人为阎摩建造了住所,我也如此建造住所,愿我有众多(子孙)。
18.4.56
इदं हिरण्यं बिभृहि यत्ते पिताबिभः पुरा ।
स्वर्गं यतः पितुर्हस्तं निर्मृड्ढि दक्षिणम् ॥ १८.४.५६ ॥
承载这黄金,它是你的父亲从前所承载的;从天界,净化父亲的右手。
18.4.57
ये च जीवा ये च मृता ये जाता ये च यज्ञियाः ।
तेभ्यो घृतस्य कुल्यैतु मधुधारा व्युन्दती ॥ १८.४.५७ ॥
为那些活着的、死去的、已出生的以及值得献祭的人们,愿酥油之渠为他们流淌,愿蜜之流涌出。
18.4.58
वृषा मतीनां पवते विचक्षणः सूरो अह्नां प्रतरीतोषसां दिवः ।
प्राणः सिन्धूनां कलशामचिक्रददिन्द्रस्य हार्दिमाविशन् मनीषया ॥ १८.४.५८ ॥
思想之公牛,全知者,自我净化而流动;日子的太阳,引渡众晨与天空者;诸河之气息在罐中咆哮,以智慧进入因陀罗之心。
18.4.59
त्वेषस्ते धूम ऊर्णोतु दिवि षं छुक्र आततः ।
सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥ १८.४.५९ ॥
愿你炽烈的烟雾吉祥地遍布天空;啊,净火,你如太阳般以光辉闪耀。
18.4.60
प्र वा एतीन्दुरिन्द्रस्य निष्कृतिं सखा सख्युर्न प्र मिनाति संगिरः ।
मर्य इव योषाः समर्षसे सोमः कलशे शतयामना पथा ॥ १८.४.६० ॥
苏摩之滴向因陀罗的清净之境前行,如朋友不破坏朋友的赞颂之言;如女子奔向男子,苏摩在罐中循百条路流动。
18.4.61
अक्षन्न् अमीमदन्त ह्यव प्रियामधूषत ।
अस्तोषत स्वभानवो विप्रा यविष्ठा ईमहे ॥ १८.४.६१ ॥
他们饮食而欢喜;确实,他们使亲爱者降临并使其喜悦。自光的、智慧的、最年轻的仙人赞颂;我们寻求他们。
18.4.62
आ यात पितरः सोम्यासो गम्भीरैः पथिभिः पितृयाणैः ।
आयुरस्मभ्यं दधतः प्रजां च रायश्च पोषैरभि नः सचध्वम् ॥ १८.४.६२ ॥
爱苏摩的祖先们啊,请经由深远的祖先之道而来。赐予我们寿命、子嗣与财富,以滋养与我们相连。
18.4.63
परा यात पितरः सोम्यासो गम्भीरैः पथिभिः पूर्याणैः ।
अधा मासि पुनरा यात नो गृहान् हविरत्तुं सुप्रजसः सुवीराः ॥ १८.४.६३ ॥
爱苏摩的祖先们啊,请经深远之道离去;然后在月中再回到我们的家中食用祭品,因良好的子嗣与英勇的儿子而富足。
18.4.64
यद्वो अग्निरजहादेकमङ्गं पितृलोकं गमयं जातवेदाः ।
तद्व एतत्पुनरा प्याययामि साङ्गाः स्वर्गे पितरो मादयध्वम् ॥ १८.४.६४ ॥
当阇陀吠陀之火将你们引向祖先之界时所遗留的那一肢,我再将它为你们复原;祖先们啊,带着全身在天界欢喜吧。
18.4.65
अभूद्दूतः प्रहितो जातवेदाः सायं न्यह्न उपवन्द्यो नृभिः ।
प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥ १८.४.६५ ॥
遍知者阿耆尼被遣为使者,在傍晚、白日将尽时受人礼敬。你以娑陀(svadhā)供给祖先;他们已经饱食。神啊,你也请享用所献的祭品吧。
18.4.66
असौ हा इह ते मनः ककुत्सलमिव जामयः ।
अभ्येनं भूम ऊर्णुहि ॥ १८.४.६६ ॥
你的心,那边的,确实来到这里,就像亲属围绕着人。大地啊,覆盖他吧。
18.4.67
शुम्भन्तां लोकाः पितृषदनाः पितृषदने त्वा लोक आ सादयामि ॥ १८.४.६७ ॥
愿作为祖先座位的诸世界得到庄严。在祖先之座,在这个世界,我为你安座。
18.4.68
ये अस्माकं पितरस्तेषां बर्हिरसि ॥ १८.४.६८ ॥
凡是我们的祖先,你就是他们的神草(barhis)。
18.4.69
उदुत्तमं वरुण पाशमस्मदवाधमं श्रथाय ।
अधा वयमादित्य व्रते तवानागसो अदितये स्याम ॥ १८.४.६९ ॥
婆罗那啊,从我们身上解开最高与最低的索套。然后,阿提亚啊,愿我们在你的律法中无罪,归属于阿底提。
18.4.70
प्रास्मत्पाशान् वरुण मुञ्च सर्वान् यैः समामे बध्यते यैर्व्यामे ।
अधा जीवेम शरदं शतानि त्वया राजन् गुपिता रक्षमाणाः ॥ १८.४.७० ॥
婆罗那啊,请从我们身上解除所有人在集会与家中被束缚的索套。然后,国王啊,在你的护佑与守卫之下,愿我们活过百个秋天。
18.4.71
अग्नये कव्यवाहनाय स्वधा नमः ॥ १८.४.७१ ॥
致负载祖先供品的火神:斯瓦达,致敬。
18.4.72
सोमाय पितृमते स्वधा नमः ॥ १८.४.७२ ॥
致与祖先同在的月神苏摩:斯瓦达,致敬。
18.4.73
पितृभ्यः सोमवद्भ्यः स्वधा नमः ॥ १८.४.७३ ॥
致拥有苏摩的祖先:斯瓦达,致敬。
18.4.74
यमाय पितृमते स्वधा नमः ॥ १८.४.७४ ॥
致与祖先同在的阎摩:斯瓦达,致敬。
18.4.75
एतत्ते प्रततामह स्वधा ये च त्वामनु ॥ १८.४.७५ ॥
啊,曾祖父,此为你的斯瓦达,也为那些在你之后的人。
18.4.76
एतत्ते ततामह स्वधा ये च त्वामनु ॥ १८.४.७६ ॥
啊,祖父,此为你的斯瓦达,也为那些在你之后的人。
18.4.77
एतत्ते तत स्वधा ॥ १८.४.७७ ॥
父亲啊,这是献给你的斯瓦德哈。
18.4.78
स्वधा पितृभ्यः पृथिविषद्भ्यः ॥ १८.४.७८ ॥
献给坐于大地之上的祖先的斯瓦德哈。
18.4.79
स्वधा पितृभ्यो अन्तरिक्षसद्भ्यः ॥ १८.४.७९ ॥
献给坐于虚空之中的祖先的斯瓦德哈。
18.4.80
स्वधा पितृभ्यो दिविषद्भ्यः ॥ १८.४.८० ॥
献给坐于天界的祖先的斯瓦德哈。
18.4.81
नमो वः पितर ऊर्जे नमो वः पितरो रसाय ॥ १८.४.८१ ॥
向你们致敬,诸位祖先,为了力量;向你们致敬,诸位祖先,为了甘露。
18.4.82
नमो वः पितरो भामाय नमो वः पितरो मन्यवे ॥ १८.४.८२ ॥
向你们致敬,诸位祖先,为了怒气;向你们致敬,诸位祖先,为了刚烈之气。
18.4.83
नमो वः पितरो यद्घोरं तस्मै नमो वः पितरो यत्क्रूरं तस्मै ॥ १८.४.८३ ॥
向你们致敬,诸父啊,向你们之中可怖之处致敬;向你们致敬,诸父啊,向你们之中残酷之处致敬。
18.4.84
नमो वः पितरो यच्छिवं तस्मै नमो वः पितरो यत्स्योनं तस्मै ॥ १८.४.८४ ॥
向你们致敬,诸父啊,向你们之中吉祥之处致敬;向你们致敬,诸父啊,向你们之中安乐舒适之处致敬。
18.4.85
नमो वः पितरः स्वधा वः पितरः ॥ १८.४.८५ ॥
向你们致敬,诸父啊;为你们献上斯瓦达,诸父啊。
18.4.86
येऽत्र पितरः पितरो येऽत्र यूयं स्थ युष्मांस्तेऽनु यूयं तेषां श्रेष्ठा भूयास्थ ॥ १८.४.८६ ॥
此处的诸父,你们在此;愿他们跟随你们;愿你们在他们之中居首。
18.4.87
य इह पितरो जीवा इह वयं स्मः ।
अस्मांस्तेऽनु वयं तेषां श्रेष्ठा भूयास्म ॥ १८.४.८७ ॥
此处活着的诸父,以及我们在此之人;愿他们跟随我们;愿我们在他们之中居首。
18.4.88
आ त्वाग्न इधीमहि द्युमन्तं देवाजरम् ।
यद्घ सा ते पनीयसी समिद्दीदयति द्यवि ।
इषं स्तोतृभ्य आ भर ॥ १८.४.८८ ॥
光辉不老的阿耆尼神啊,我们燃起你;你那更值得赞颂的薪柴在天空中闪耀。请为赞颂者带来食物。
18.4.89
चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि ।
न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥ १८.४.८९ ॥
月亮在水中穿行,如同有美丽翅膀的飞鸟,在天空奔驰。金色轮缘的闪电找不到你们的足迹;愿天地(罗达西)赐予我此中的知识。