Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 19.11

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

19.11.1

शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः ।
शं न ऋभवः सुकृतः सुहस्ताः शं नो भवतु पितरो हवेषु ॥ १९.११.१ ॥

愿真理的主宰们赐我们安宁。愿疾驰的骏马赐我们安宁,愿牛群也安宁。愿善作、巧手的Ṛbhu们赐我们安宁;愿祖先们在呼唤中赐我们安宁。

19.11.2

शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु ।
शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥ १९.११.२ ॥

愿一切天神赐我们安宁。愿萨拉斯瓦蒂与她的慧心一同赐我们安宁。愿近处来犯者不再侵害,远处来犯者也不再侵害。愿天上的、地上的、水中的神力赐我们安宁。

19.11.3

शं नो अज एकपाद्देवो अस्तु शमहिर्बुध्न्यः शं समुद्रः ।
शं नो अपां नपात्पेरुरस्तु शं नः पृष्णिर्भवतु देवगोपा ॥ १९.११.३ ॥

愿独足的不生之神赐我们安宁。愿深渊之蛇安宁。愿大海赐我们安宁。愿水之孙、强大的Peru赐我们安宁。愿受诸神守护的Pṛśni赐我们安宁。

19.11.4

आदित्या रुद्रा वसवो जुषन्तामिदं ब्रह्म क्रियमाणं नवीयः ।
सृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥ १९.११.४ ॥

愿阿提耶、楼陀罗与婆苏接受此刻新作的祷词。愿天上地上生于牛、值得献祭的诸神聆听我们。

19.11.5

ये देवानामृत्विजो यज्ञियासो मनोर्यजत्रा अमृता ऋतज्ञाः ।
ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥ १९.११.५ ॥

愿那些作为诸神祭司、值得献祭、为摩奴所敬拜、不死并知晓宇宙秩序者,今日赐予我们备受颂扬的恩赐。愿你们以吉祥永远护佑我们。

19.11.6

तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम् ।
अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥ १९.११.६ ॥

哦,弥陀罗与伐runa,愿此为我们所有;哦,阿耆尼,愿此吉祥与安康属于我们,愿此赞颂亦属于我们。愿我们获得坚实的根基与稳固的立足之地;向广大的天空及其居所致敬。