Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 19.15

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

19.15.1

यत इन्द्र भयामहे ततो नो अभयं कृधि ।
मघवंछग्धि तव त्वं न ऊतिभिर्वि द्विषो वि मृधो जहि ॥ १९.१५.१ ॥

因陀罗啊,我们所畏惧的,正从那里赐予我们无畏。摩伽梵啊,以你的护佑解救我们;驱散仇敌,击杀敌对者。

19.15.2

इन्द्रं वयमनूराधं हवामहेऽनु राध्यास्म द्विपदा चतुष्पदा ।
मा नः सेना अररुषीरुप गुर्विषूचिरिन्द्र द्रुहो वि नाशय ॥ १९.१५.२ ॥

我们呼唤不吝施予的因陀罗;愿我们以两足与四足之财富而兴旺。愿吝啬而四散的敌军不来到我们身边;因陀罗啊,毁灭那些怀有恶意者。

19.15.3

इन्द्रस्त्रातोत वृत्रहा परस्फानो वरेण्यः ।
स रक्षिता चरमतः स मध्यतः स पश्चात्स पुरस्तान् नो अस्तु ॥ १९.१५.३ ॥

因陀罗是我们的护卫,也是杀除弗栗多者,广大而最值得选择。愿他从后方、从中间、从后面、从前面守护我们。

19.15.4

उरुं नो लोकमनु नेषि विद्वान्त्स्वर्यज्ज्योतिरभयं स्वस्ति ।
उग्रा त इन्द्र स्थविरस्य बाहू उप क्षयेम शरणा बृहन्ता ॥ १९.१५.४ ॥

你以智慧将我们引向广阔的世界,引向通往天界的光明、无畏与安康。因陀罗啊,愿我们安居于你那如老者般猛烈而广大的双臂之庇护下。

19.15.5

अभयं नः करत्यन्तरिक्षमभयं द्यावापृथिवी उभे इमे ।
अभयं पश्चादभयं पुरस्तादुत्तरादधरादभयं नो अस्तु ॥ १९.१५.५ ॥

愿虚空为我们带来无畏,愿这天地二者也为我们带来无畏。愿我们从后方、前方、上方、下方皆得无畏。

19.15.6

अभयं मित्रादभयममित्रादभयं ज्ञातादभयं पुरो यः ।
अभयं नक्तमभयं दिवा नः सर्वा आशा मम मित्रं भवन्तु ॥ १९.१५.६ ॥

愿我们不惧朋友,不惧敌人,不惧熟识之人,不惧前方之人。愿我们夜里无畏,白日无畏;愿一切方位都成为我的朋友。