Vedyatra वेदयात्रा
検索

アタルヴァ・ヴェーダ · スークタ 19.17

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

19.17.1

अग्निर्मा पातु वसुभिः पुरस्तात्तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ १९.१७.१ ॥

アグニがヴァス神群とともに前方から私を守りますように。その歩みにおいて、その庇護のうちに、私はあの都へ向かう。彼が私を守り、私を護りますように。私は自らを彼に委ねきる。スヴァーハー。

19.17.2

वायुर्मान्तरिक्षेणैतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ १९.१७.२ ॥

ヴァーユが中空を通じてこの方角から私を守りますように。その歩みにおいて、その庇護のうちに、私はあの都へ向かう。彼が私を守り、私を護りますように。私は自らを彼に委ねきる。スヴァーハー。

19.17.3

सोमो मा रुद्रैर्दक्षिणाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ १९.१७.३ ॥

ソーマがルドラ神群とともに南の方角から私を守りますように。その歩みにおいて、その庇護のうちに、私はあの都へ向かう。彼が私を守り、私を護りますように。私は自らを彼に委ねきる。スヴァーハー。

19.17.4

वरुणो मादित्यैरेतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ १९.१७.४ ॥

ヴァルナがアーディティヤ神群とともにこの方角から私を守りますように。その歩みにおいて、その庇護のうちに、私はあの都へ向かう。彼が私を守り、私を護りますように。私は自らを彼に委ねきる。スヴァーハー。

19.17.5

सूर्यो मा द्यावापृथिवीभ्यां प्रतीच्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ १९.१७.५ ॥

太陽が天と地を通じて、西の方角から私を守りますように。その歩みにおいて、その庇護において、私はあの都へ向かいます。彼が私を守り、彼が私を保護しますように。私は自らを彼に完全に捧げます。スヴァーハー。

19.17.6

आपो मौषधीमतीरेतस्या दिशः पान्तु तासु क्रमे तासु श्रये तां पुरं प्रैमि ।
ता मा रक्षन्तु ता मा गोपायन्तु ताभ्य आत्मानं परि ददे स्वाहा ॥ १९.१७.६ ॥

薬草に富む水々がこの方角で私を守りますように。その水々の中で、その庇護において、私はあの都へ向かいます。それらが私を守り、私を保護しますように。私は自らをそれらに完全に捧げます。スヴァーハー。

19.17.7

विश्वकर्मा मा सप्तऋषिभिरुदीच्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ १९.१७.७ ॥

ヴィシュヴァカルマンが七仙とともに、北の方角から私を守りますように。その歩みにおいて、その庇護において、私はあの都へ向かいます。彼が私を守り、彼が私を保護しますように。私は自らを彼に完全に捧げます。スヴァーハー。

19.17.8

इन्द्रो मा मरुत्वान् एतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ १९.१७.८ ॥

マルトたちを伴うインドラが、この方角で私を守りますように。その歩みにおいて、その庇護において、私はあの都へ向かいます。彼が私を守り、彼が私を保護しますように。私は自らを彼に完全に捧げます。スヴァーハー。

19.17.9

प्रजापतिर्मा प्रजननवान्त्सह प्रतिष्ठया ध्रुवाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ १९.१७.९ ॥

子孫に富むプラジャーパティが、堅固さとともに、不動の方角で私を守りますように。その一歩において、その庇護において、私はその都市へと進みます。彼が私を守り、彼が私を護りますように。その方に私は自らを全く捧げます。スヴァーハー。

19.17.10

बृहस्पतिर्मा विश्वैर्देवैरूर्ध्वाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ १९.१७.१० ॥

ブリハスパティが諸神とともに、上方の方角で私を守りますように。その一歩において、その庇護において、私はその都市へと進みます。彼が私を守り、彼が私を護りますように。その方に私は自らを全く捧げます。スヴァーハー。