Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 19.34

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

19.34.1

जाङ्गिडोऽसि जङ्गिडो रक्षितासि जङ्गिडः ।
द्विपाच्चतुष्पादस्माकं सर्वं रक्षतु जङ्गिडः ॥ १९.३४.१ ॥

你是 Jāṅgiḍa,你是 Jaṅgiḍa,你是保护者。愿 Jaṅgiḍa 保护我们一切,无论两足或四足。

19.34.2

या गृत्स्यस्त्रिपञ्चाशीः शतं कृत्याकृतश्च ये ।
सर्वान् विनक्तु तेजसोऽरसां जङ्गिडस्करत् ॥ १९.३४.२ ॥

格里特萨的五十三种与咒术所造的一百种——愿 Jaṅgiḍa 以其光辉将它们尽数击碎;他已使它们失去力量。

19.34.3

अरसं कृत्रिमं नादमरसाः सप्त विस्रसः ।
अपेतो जङ्गिडामतिमिषुमस्तेव शातय ॥ १९.३४.३ ॥

人造之声无力;七种无力之声已经消散。Jaṅgiḍa 啊,驱散恶意;如射手射落箭矢,便将它射落。

19.34.4

कृत्यादूषण एवायमथो अरातिदूषणः ।
अथो सहस्वाञ्जङ्गिडः प्र न आयूंषि तारिषत् ॥ १९.३४.४ ॥

这株 Jaṅgiḍa 能毁灭咒术,也能毁灭敌人的恶意。愿强大的 Jaṅgiḍa 延长我们的寿命。

19.34.5

स जङ्गिडस्य महिमा परि णः पातु विश्वतः ।
विष्कन्धं येन सासह संस्कन्धमोज ओजसा ॥ १९.३४.५ ॥

愿 Jaṅgiḍa 那伟大的力量从四面八方护佑我们,你凭它以力量制服了散开的肩与合拢的肩。

19.34.6

त्रिष्ट्वा देवा अजनयन् निष्ठितं भूम्यामधि ।
तमु त्वाङ्गिरा इति ब्राह्मणाः पूर्व्या विदुः ॥ १९.३४.६ ॥

诸神三次将你生出,安立于大地之上;古老的婆罗门正是把你认作阿阳哥罗(Aṅgiras)。

19.34.7

न त्वा पूर्वा ओषधयो न त्वा तरन्ति या नवाः ।
विबाध उग्रो जङ्गिडः परिपाणः सुमङ्गलः ॥ १९.३४.७ ॥

古老的草药与新的草药都不能胜过你。猛烈的遮尼迪(jaṅgiḍa)驱散障碍,是守护者,也是吉祥之物。

19.34.8

अथोपदान भगवो जाङ्गिडामितवीर्य ।
पुरा त उग्रा ग्रसत उपेन्द्रो वीर्यं ददौ ॥ १९.३४.८ ॥

那么,尊贵的遮尼迪(jaṅgiḍa),力量无限的你啊:从前猛烈之物攫取你;那时因陀罗之弟乌彭德罗赐予你力量。

19.34.9

उग्र इत्ते वनस्पत इन्द्र ओज्मानमा दधौ ।
अमीवाः सर्वाश्चातयं जहि रक्षांस्योषधे ॥ १९.३४.९ ॥

林中之主啊,猛烈的你之中,因陀罗安置了活力。我驱除一切疾病;草药啊,摧毁罗刹吧。

19.34.10

आशरीकं विशरीकं बलासं पृष्ट्यामयम् ।
तक्मानं विश्वशारदमरसां जङ्गिडस्करत् ॥ १९.३४.१० ॥

阿沙利迦、毗沙利迦、巴拉萨、普里施提亚摩耶、塔克马那,以及一切秋季热症与无味之病,遮尼迪使它们全部消亡。