阿闼婆吠陀 · 颂诗(Sūkta) 19.44
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
19.44.1
आयुषोऽसि प्रतरणं विप्रं भेषजमुच्यसे ।
तदाञ्जन त्वं शंताते शमापो अभयं कृतम् ॥ १९.४४.१ ॥
你是使寿命得以渡过的方法,被称为智者与药剂。故此,阿njana啊,你为福祉而生;诸水已确立了安宁与无畏。
19.44.2
यो हरिमा जायान्योऽङ्गभेदो विसल्पकः ।
सर्वं ते यक्ष्ममङ्गेभ्यो बहिर्निर्हन्त्वाञ्जनम् ॥ १९.४४.२ ॥
黄疸、初起的肢体撕裂痛、蔓延的肿痛——你的一切消耗之病,阿njana啊,从肢体中驱逐出去。
19.44.3
आञ्जनं पृथिव्यां जातं भद्रं पुरुषजीवनम् ।
कृणोत्वप्रमायुकं रथजूतिमनागसम् ॥ १९.४४.३ ॥
生于大地的吉祥阿njana,赋予人以生命——愿它使他免于早夭,如战车般迅捷,并且无过。
19.44.4
प्राण प्राणं त्रायस्वासो असवे मृड ।
निर्ऋते निर्ऋत्या नः पाशेभ्यो मुञ्च ॥ १९.४४.४ ॥
啊气息,守护气息;对生命之息施以恩惠。啊尼唎底,把我们从尼唎底的罗网中解脱出来。
19.44.5
सिन्धोर्गर्भोऽसि विद्युतां पुष्पम् ।
वातः प्राणः सूर्यश्चक्षुर्दिवस्पयः ॥ १९.४४.५ ॥
你是河海之胎,闪电之花。风是气息,太阳是眼睛,你是天界的乳汁精华。
19.44.6
देवाञ्जन त्रैककुद परि मा पाहि विश्वतः ।
न त्वा तरन्त्योषधयो बाह्याः पर्वतीया उत ॥ १९.४४.६ ॥
啊神圣的阿njana,三峰者,请从四面八方护佑我。外来的草药和山中所生的草药,都无法胜过你。
19.44.7
वीदं मध्यमवासृपद्रक्षोहामीवचातनः ।
अमीवाः सर्वाश्चातयन् नाशयदभिभा इतः ॥ १९.४४.७ ॥
它爬入中间,是罗刹的杀者、疾病的驱逐者;它驱散了一切疾病,并从此处毁灭了阿毗部。
19.44.8
बह्विदं राजन् वरुणानृतमाह पूरुषः ।
तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः ॥ १९.४४.८ ॥
啊,国王伐樓那!人在此说了许多谎言;因此,啊,千力者,请将我们从罪中解脱。
19.44.9
यदापो अघ्न्या इति वरुणेति यदूचिम ।
तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः ॥ १९.४४.९ ॥
当我们说“水,不可杀害”与“伐樓那”时;因此,啊,千力者,请将我们从罪中解脱。
19.44.10
मित्रश्च त्वा वरुणश्चानुप्रेयतुराञ्जन ।
तौ त्वानुगत्य दूरं भोगाय पुनरोहतुः ॥ १९.४४.१० ॥
啊,膏药!密多罗与伐樓那追随你而派遣你;他二者远远追随你,又为了福祉将你带回。