Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 19.47

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

19.47.1

आ रात्रि पार्थिवं रजः पितुरप्रायि धामभिः ।
दिवः सदांसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ॥ १९.४७.१ ॥

夜啊,父(天空)的光辉充满了大地的空间。广大的你铺展在天空的座位上;猛烈的黑暗涌来。

19.47.2

न यस्याः पारं ददृशे न योयुवद्विश्वमस्यां नि विशते यदेजति ।
अरिष्टासस्त उर्वि तमस्वति रात्रि पारमशीमहि भद्रे पारमशीमहि ॥ १९.४७.२ ॥

她的边际不可见,她从不分离,凡是动的一切都在她之中安息。广大幽暗的夜啊,愿我们无损地到达彼岸;吉祥的女神啊,愿我们到达彼岸。

19.47.3

ये ते रात्रि नृचक्षसो द्रष्टारो नवतिर्नव ।
अशीतिः सन्त्यष्टा उतो ते सप्त सप्ततिः ॥ १९.४७.३ ॥

夜啊,你那注视世人的观察者:九十九,八十,八,以及你的七十七。

19.47.4

षष्टिश्च षट्च रेवति पञ्चाशत्पञ्च सुम्नयि ।
चत्वारश्चत्वारिंशच्च त्रयस्त्रिंशच्च वाजिनि ॥ १९.४७.४ ॥

六十六,富有的女神啊;五十五,施予恩惠的女神啊;四十四,还有三十三,丰盛的女神啊。

19.47.5

द्वौ च ते विंशतिश्च ते रात्र्येकादशावमाः ।
तेभिर्नो अद्य पायुभिर्नु पाहि दुहितर्दिवः ॥ १९.४७.५ ॥

你的二十二和十一是最低的。以那些守护,今日就护佑我们吧,天之女啊。

19.47.6

रक्षा माकिर्नो अघशंस ईशत मा नो दुःशंस ईशत ।
मा नो अद्य गवां स्तेनो मावीनां वृक ईशत ॥ १९.४७.६ ॥

请保护我们;愿恶意者不能得势于我们,愿怀恶者不能得势于我们。今日愿盗牛者不能得势于我们,愿羊群之狼不能得势于我们。

19.47.7

माश्वानां भद्रे तस्करो मा नृणां यातुधान्यः ।
परमेभिः पथिभि स्तेनो धावतु तस्करः ।
परेण दत्वती रज्जुः परेणाघायुरर्षतु ॥ १९.४७.७ ॥

啊吉祥的夜啊,愿偷马贼不要制服我们,愿食人女妖不要制服众人。愿盗贼由远道奔逃。愿有齿的绳索远离;愿怀恶意者远去。

19.47.8

अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु ।
हनू वृकस्य जम्भया स्तेनं द्रुपदे जहि ॥ १९.४७.८ ॥

现在,啊夜,把它化作一条没有头、烟雾猛烈的蛇。碾碎狼的颚骨,把盗贼击杀在木枷之中。

19.47.9

त्वयि रात्रि वसामसि स्वपिष्यामसि जागृहि ।
गोभ्यो नः शर्म यछाश्वेभ्यः पुरुषेभ्यः ॥ १९.४७.९ ॥

啊夜,我们寄居在你之中;我们将入睡,你请保持清醒。请赐予我们的牛、马和人以庇护。