阿闼婆吠陀 · 颂诗(Sūkta) 19.49
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
19.49.1
इषिरा योषा युवतिर्दमूना रात्री देवस्य सवितुर्भगस्य ।
अश्वक्षभा सुहवा संभृतश्रीरा पप्रौ द्यावापृथिवी महित्वा ॥ १९.४९.१ ॥
啊夜,你是迅捷的少女,驯服家室的女子;你是天神萨维特里与婆伽的夜,制止骏马,易于呼唤,充满光辉,你以你的伟大充满天与地。
19.49.2
अति विश्वान्यरुहद्गम्भिरो वर्षिष्ठमरुहन्त श्रविष्ठाः ।
उशती रात्र्यनु सा भद्राभि तिष्ठते मित्र इव स्वधाभिः ॥ १९.४९.२ ॥
深沉的夜超越了一切;它使最高者与最负盛名者升起。那光耀的夜是吉祥的;以她自己的力量,她如同密特拉般站立在我们面前。
19.49.3
वर्ये वन्दे सुभगे सुजात आजगन् रात्रि सुमना इह स्याम् ।
अस्मांस्त्रायस्व नर्याणि जाता अथो यानि गव्यानि पुष्ट्या ॥ १९.४९.३ ॥
啊夜,值得选择、吉祥、出身高贵者,我赞美你。请来到这里,愿我们心中欢喜。请保护我们,免于为人而生者,并保护属于牲畜以求繁盛的事物。
19.49.4
सिंहस्य रात्र्युशती पींषस्य व्याघ्रस्य द्वीपिनो वर्च आ ददे ।
अश्वस्य ब्रध्नं पुरुषस्य मायुं पुरु रूपाणि कृणुषे विभाती ॥ १९.४९.४ ॥
啊光耀的夜,我取得狮子、野猪、老虎与豹的光辉;取得马的根本之力,也取得人的生命之声。你闪耀着,化成众多的形态。
19.49.5
शिवां रात्रिमनुसूर्यं च हिमस्य माता सुहवा नो अस्तु ।
अस्य स्तोमस्य सुभगे नि बोध येन त्वा वन्दे विश्वासु दिक्षु ॥ १९.४९.५ ॥
愿吉祥的夜与太阳同在,寒冷之母,对我们易于呼唤。啊吉祥者,请留意这赞歌,我借此在一切方位赞颂你。
19.49.6
स्तोमस्य नो विभावरि रात्रि राजेव जोषसे ।
असाम सर्ववीरा भवाम सर्ववेदसो व्युच्छन्तीरनूषसः ॥ १९.४९.६ ॥
光明的夜啊,你像国王一样接受我们的赞颂。愿我们在黎明(乌莎)相继破晓时,拥有一切英雄之子与一切财富。
19.49.7
शम्या ह नाम दधिषे मम दिप्सन्ति ये धना ।
रात्रीहि तान् असुतपा य स्तेनो न विद्यते यत्पुनर्न विद्यते ॥ १९.४९.७ ॥
夜啊,你为我以“沙姆亚”之名被持守。那些想损害我财富、不压榨苏摩的人,夜啊,请消灭他们。盗贼不可再被找到。
19.49.8
भद्रासि रात्रि चमसो न विष्टो विष्वङ्गोरूपं युवतिर्बिभर्षि ।
चक्षुष्मती मे उशती वपूम्षि प्रति त्वं दिव्या न क्षाममुक्थाः ॥ १९.४९.८ ॥
夜啊,你吉祥,充盈如杯。你以少女之姿承载遍布四方的牛的形象。为我,你明眸闪耀,显露你的诸般形相;你是天界的,如大地一般受赞颂。
19.49.9
यो अद्य स्तेन आयत्यघायुर्मर्त्यो रिपुः ।
रात्री तस्य प्रतीत्य प्र ग्रीवाः प्र शिरो हनत् ॥ १९.४९.९ ॥
今日到来的盗贼,那怀有恶意的凡人仇敌——夜啊,追上他,请砍断他的颈与头。
19.49.10
प्र पादौ न यथायति प्र हस्तौ न यथाशिषत् ।
यो मलिम्लुरुपायति स संपिष्टो अपायति ।
अपायति स्वपायति शुष्के स्थाणावपायति ॥ १९.४९.१० ॥
如同他迈步前行的双足,如同他索求的双手(请斩断)。走近的盗贼被碾碎而返;他远去,躺下睡去,走向干枯的木桩而去。