Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 19.50

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

19.50.1

अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु ।
अक्षौ वृकस्य निर्जह्यास्तेन तं द्रुपदे जहि ॥ १९.५०.१ ॥

现在,夜啊,把他变成一条有苦烟、无头的蛇;挖出狼的双眼,用它们在木枷中将他击杀。

19.50.2

ये ते रात्र्यनड्वाहस्तीक्ष्णशृङ्गाः स्वाशवः ।
तेभिर्नो अद्य पारयाति दुर्गाणि विश्वहा ॥ १९.५०.२ ॥

夜啊,凭你那尖角、奔驰迅捷的牵引牛,今日及永远把我们渡过艰难之处。

19.50.3

रात्रिंरात्रिमरिष्यन्तस्तरेम तन्वा वयम् ।
गम्भीरमप्लवा इव न तरेयुररातयः ॥ १९.५०.३ ॥

夜夜无伤,愿我们以身躯渡过;如同无舟之人不能渡过深水,愿敌人也不能渡过我们。

19.50.4

यथा शाम्याकः प्रपतन्न् अपवान् नानुविद्यते ।
एवा रात्रि प्र पातय यो अस्मामभ्यघायति ॥ १९.५०.४ ॥

如同落失的沙米亚卡箭再也找不到,夜啊,请推倒那谋害我们的人。

19.50.5

अप स्तेनं वासयो गोअजमुत तस्करम् ।
अथो यो अर्वतः शिरोऽभिधाय निनीषति ॥ १९.५०.५ ॥

驱走盗贼,以及偷窃牛羊的强盗;还有那想抬起马头牵走它的人。

19.50.6

यदद्य रात्रि सुभगे विभजन्त्ययो वसु ।
यदेतदस्मान् भोजय यथेदन्यान् उपायसि ॥ १९.५०.६ ॥

吉祥的夜啊,今日众人分配财物时,请让我们也享用;你如何走向他人,也请来到我们这里。

19.50.7

उषसे नः परि देहि सर्वान् रात्र्यनागसः ।
उषा नो अह्ने आ भजादहस्तुभ्यं विभावरि ॥ १९.५०.७ ॥

啊夜神,请把我们这些无过失者交给黎明女神乌莎。愿乌莎分给我们白昼的份额;光辉的女神啊,白昼也属于你。