Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 19.53

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

19.53.1

कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः ।
तमा रोहन्ति कवयो विपश्चितस्तस्य चक्रा भुवनानि विश्वा ॥ १९.५३.१ ॥

时间是一匹七缰的马,千目,不老,精液丰盛;智慧的先知登上它,而一切世界都是它的轮子。

19.53.2

सप्त चक्रान् वहति काल एष सप्तास्य नाभीरमृतं न्वक्षः ।
स इमा विश्वा भुवनान्यञ्जत्कालः स ईयते प्रथमो नु देवः ॥ १९.५३.२ ॥

时间驱动这七个轮子;它有七个轮毂,车轴是不死的。他装饰了这一切世界;那时间作为第一位神而运行。

19.53.3

पूर्णः कुम्भोऽधि काल आहितस्तं वै पश्यामो बहुधा नु सन्तम् ।
स इमा विश्वा भुवनानि प्रत्यङ्कालं तमाहुः परमे व्योमन् ॥ १९.५३.३ ॥

时间之上安放着一只满盈的罐;我们看到他以多种方式存在。他面向这一切世界;人们称那时间为居于至高天空者。

19.53.4

स एव सं भुवनान्याभरत्स एव सं भुवनानि पर्यैत् ।
पिता सन्न् अभवत्पुत्र एषां तस्माद्वै नान्यत्परमस्ति तेजः ॥ १९.५३.४ ॥

他自己聚集一切世界,他自己环绕一切世界。虽是它们的父,却也成了它们的子;因此在他之外,没有别的至高光明。

19.53.5

कालोऽमूं दिवमजनयत्काल इमाः पृथिवीरुत ।
काले ह भूतं भव्यं चेषितं ह वि तिष्ठते ॥ १९.५३.५ ॥

时间生出了那天空,时间也生出了这些大地。在时间之中,过去、未来与被激发者确实各自独立地存在。

19.53.6

कालो भूतिमसृजत काले तपति सूर्यः ।
काले ह विश्वा भूतानि काले चक्षुर्वि पश्यति ॥ १९.५३.६ ॥

时间创造了繁荣;在时间之中太阳照耀。在时间之中确实有一切众生;在时间之中眼睛清楚地看见。

19.53.7

काले मनः काले प्राणः काले नाम समाहितम् ।
कालेन सर्वा नन्दन्त्यागतेन प्रजा इमाः ॥ १९.५३.७ ॥

在时间中有心,在时间中有气息,在时间中名字被确立。借着时间,借着来临的时间,所有这些众生都欢喜。

19.53.8

काले तपः काले ज्येष्ठं काले ब्रह्म समाहितम् ।
कालो ह सर्वस्येश्वरो यः पितासीत्प्रजापतेः ॥ १९.५३.८ ॥

在时间中有苦行,在时间中有至上者,在时间中梵被确立。时间本身即是万有之主,他曾是生主的父亲。

19.53.9

तेनेषितं तेन जातं तदु तस्मिन् प्रतिष्ठितम् ।
कालो ह ब्रह्म भूत्वा बिभर्ति परमेष्ठिनम् ॥ १९.५३.९ ॥

由他推动,由他而生,而此事立足于他。时间本身化为梵,承载着至高的居者。

19.53.10

कालः प्रजा असृजत कालो अग्रे प्रजापतिम् ।
स्वयंभूः कश्यपः कालात्तपः कालादजायत ॥ १९.५३.१० ॥

时间创造了众生;时间在起初创造了生主。自生的迦叶波生于时间;苦行生于时间。