Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 19.56

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

19.56.1

यमस्य लोकादध्या बभूविथ प्रमदा मर्त्यान् प्र युनक्षि धीरः ।
एकाकिना सरथं यासि विद्वान्त्स्वप्नं मिमानो असुरस्य योनौ ॥ १९.५६.१ ॥

你从阎摩的世界之上而生;坚定地,你驱使凡人。作为智者,你独自与战车同行,在阿修罗的子宫中衡量梦境。

19.56.2

बन्धस्त्वाग्रे विश्वचया अपश्यत्पुरा रात्र्या जनितोरेके अह्नि ।
ततः स्वप्नेदमध्या बभूविथ भिषग्भ्यो रूपमपगूहमानः ॥ १९.५६.२ ॥

聚集一切的束缚最先看见你——在夜晚之前,在白昼一次诞生。于是,梦啊,你出现于此,向医者隐藏了你的形貌。

19.56.3

बृहद्गावासुरेभ्योऽधि देवान् उपावर्तत महिमानमिच्छन् ।
तस्मै स्वप्नाय दधुराधिपत्यं त्रयस्त्रिंशासः स्वरानशानाः ॥ १९.५६.३ ॥

大牛(Bṛhadgāva)从阿修罗之上升起,转向诸神,渴望伟大。三十三位神将主宰权赋予那梦境,他们已到达天界。

19.56.4

नैतां विदुः पितरो नोत देवा येषां जल्पिश्चरत्यन्तरेदम् ।
त्रिते स्वप्नमदधुराप्त्ये नर आदित्यासो वरुणेनानुशिष्टाः ॥ १९.५६.४ ॥

此事父祖不知,诸神亦不知,他们的低语在其中游走。为了特里塔,他们安置了这梦,为人类的成就——受伐楼那教导的阿ditya们。

19.56.5

यस्य क्रूरमभजन्त दुष्कृतोऽस्वप्नेन सुकृतः पुण्यमायुः ।
स्वर्मदसि परमेण बन्धुना तप्यमानस्य मनसोऽधि जज्ञिषे ॥ १९.५६.५ ॥

其残酷之分由作恶者分享,而行善者借由警醒获得福德之寿。你为天界所醉,与至上的亲族同在;你生于受煎熬的心意之中。

19.56.6

विद्म ते सर्वाः परिजाः पुरस्ताद्विद्म स्वप्न यो अधिपा इहा ते ।
यशश्विनो नो यशसेह पाह्याराद्द्विषेभिरप याहि दूरम् ॥ १९.५६.६ ॥

噫,梦啊,我们从前方认识你四周环绕的一切力量,也认识你在此的主宰。诸位荣耀者,请在此以荣耀护佑我们;从远处与憎恨者一同远远离去吧。