Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 19.57

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

19.57.1

यथा कलां यथा शफं यथा र्णं सन्नयन्ति ।
एवा दुष्वप्न्यं सर्वमप्रिये सं नयामसि ॥ १९.५७.१ ॥

如同把碎片、蹄子、债务聚在一起,我们也把一切恶梦聚集起来,送给敌人。

19.57.2

सं राजानो अगुः समृणाम्यगुः सं कुष्ठा अगुः सं कला अगुः ।
समस्मासु यद्दुष्वप्न्यं निर्द्विषते दुष्वप्न्यं सुवाम ॥ १९.५७.२ ॥

诸王已聚集,我把它们聚合;库夏草聚来,碎片也聚来。其中的恶梦,我们送给憎恨者。

19.57.3

देवानां पत्नीनां गर्भ यमस्य कर यो भद्रः स्वप्न ।
स मम यः पापस्तद्द्विषते प्र हिण्मः ।
मा तृष्टानामसि कृष्णशकुनेर्मुखम् ॥ १९.५७.३ ॥

诸神妻子的胎,阎摩的手——吉祥之梦啊,我身上的罪,我们送给憎恨者。你不属于勇敢者;你是黑鸟之口。

19.57.4

तं त्वा स्वप्न तथा सं विद्म स त्वं स्वप्नाश्व इव कायमश्व इव नीनाहम् ।
अनास्माकं देवपीयुं पियारुं वप यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे ॥ १९.५७.४ ॥

梦啊,我们就这样认识你;你就是那梦。如同马束缚身躯,我如此束缚你。那不属于我们的、与神为敌的、有害者,播散并驱逐之:那存在于我们、牛群和我们家中的恶梦。

19.57.5

अनास्माकस्तद्देवपीयुः पियारुर्निष्कमिव प्रति मुञ्चताम् ।
नवारत्नीन् अपमया अस्माकं ततः परि ।
दुष्वप्न्यं सर्वं द्विषते निर्दयामसि ॥ १९.५७.५ ॥

那不属于我们的、与神为敌的、有害者,让他如金项链一般将其归还。九肘之远,让它远离我们。一切恶梦,我们驱逐给憎恨者。