阿闼婆吠陀 · 颂诗(Sūkta) 19.6
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
19.6.1
सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥ १९.६.१ ॥
原人有千臂、千目、千足。他从四面包裹大地,超出十指之宽而立。
19.6.2
त्रिभिः पद्भिर्द्यामरोहत्पादस्येहाभवत्पुनः ।
तथा व्यक्रामद्विष्वङशनानशने अनु ॥ १९.६.२ ॥
他以三足升上天界;他的一足又再次出现在此。随后他向四面八方展开,遍及能食与不能食的一切。
19.6.3
तावन्तो अस्य महिमानस्ततो ज्यायांश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ १९.६.३ ॥
他的伟大如此,而原人更为伟大。他的一足是一切众生;三足者的甘露在天界。
19.6.4
पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् ।
उतामृतत्वस्येश्वरो यदन्येनाभवत्सह ॥ १९.६.४ ॥
这一切都是原人本身——已经存在的与将要存在的。他也是不死的主宰,与食物一同增长。
19.6.5
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्य किं बाहू किमूरू पादा उच्यते ॥ १९.६.५ ॥
当他们分割原人时,将他分成了多少部分?他的口称为什么,双臂是什么,双股与双足又是什么?
19.6.6
ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्योऽभवत् ।
मध्यं तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥ १९.६.६ ॥
婆罗门是他的口,刹帝利成为他的双臂。他的中部成为吠舍;从他的双足生出首陀罗。
19.6.7
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥ १९.६.७ ॥
月亮生于意,太阳生于目。因陀罗与阿耆尼生于口,风神伐由生于气息。
19.6.8
नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकामकल्पयन् ॥ १९.६.८ ॥
从肚脐生出虚空,从头顶生出天。从双足生出大地,从耳生出方位;如此他们安立了诸世界。
19.6.9
विराडग्रे समभवद्विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥ १९.६.९ ॥
起初生出毗罗阇(Virāj),从毗罗阇生出补卢沙(Puruṣa)。他既生,便超然殊胜;此后他造出大地,又造出前方。
19.6.10
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ १९.६.१० ॥
诸天以补卢沙为祭品而行祀时,春为其酥油,夏为其薪,秋为其供品。
19.6.11
तं यज्ञं प्रावृषा प्रौक्षन् पुरुषं जातमग्रशः ।
तेन देवा अयजन्त साध्या वसवश्च ये ॥ १९.६.११ ॥
雨季时,他们以那作为祭祀、最先所生的补卢沙洒水灌顶;诸天、萨陀耶与婆薮借他而行祭祀。
19.6.12
तस्मादश्वा अजायन्त ये च के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥ १९.६.१२ ॥
马由彼而生,凡两旁有齿之兽亦然;牛确由彼而生;山羊与绵羊亦由彼而生。
19.6.13
तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।
छन्दो ह जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ १९.६.१३ ॥
从那完全献祭的祭祀中生出了ṛc与sāman;从中生出了韵律;从中生出了yajus。
19.6.14
तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् ।
पशूंस्तांश्चक्रे वायव्यान् आरण्या ग्राम्याश्च ये ॥ १९.६.१४ ॥
从那完全献祭的祭祀中收集了凝乳与酥油的混合物。他们创造了那些属于伐由神的动物,既有野生的,也有家养的。
19.6.15
सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ १९.६.१५ ॥
他有七根围木;三倍七根燃木被准备好。诸神行祭祀时,将原人缚为祭牲。
19.6.16
मूर्ध्नो देवस्य बृहतो अंशवः सप्त सप्ततीः ।
राज्ञः सोमस्याजायन्त जातस्य पुरुषादधि ॥ १९.६.१६ ॥
从伟大之神的头部生出了七十七道光线。国王苏摩的,从所生的原人中生出。