Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 2.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.10.1

क्षेत्रियात्त्वा निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात् ।
अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥ २.१०.१ ॥

我将你从遗传之病、尼嘱提(Nirṛti)、亲族的诅咒与背叛中解脱;将你从婆罗那(Varuṇa)的绳索中释放。以梵(brahman)使你无罪;愿天与地对你都吉祥。

2.10.2

शं ते अग्निः सहाद्भिरस्तु शं सोमः सहौषधीभिः ।
एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात् ।
अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥ २.१०.२ ॥

愿阿耆尼(Agni)与诸水对你吉祥;愿苏摩(Soma)与诸草药对你吉祥。如此,我将你从遗传之病、尼嘱提(Nirṛti)、亲族的诅咒与背叛中解脱;将你从婆罗那(Varuṇa)的绳索中释放。以梵(brahman)使你无罪;愿天与地对你都吉祥。

2.10.3

शं ते वातो अन्तरिक्षे वयो धाच्छं ते भवन्तु प्रदिशश्चतस्रः ।
एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात् ।
अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥ २.१०.३ ॥

愿风神(Vāta)在虚空中赐你活力;愿四方对你吉祥。如此,我将你从遗传之病、尼嘱提(Nirṛti)、亲族的诅咒与背叛中解脱;将你从婆罗那(Varuṇa)的绳索中释放。以梵(brahman)使你无罪;愿天与地对你都吉祥。

2.10.4

इमा या देवीः प्रदिशश्चतस्रो वातपत्नीरभि सूर्यो विचष्टे ।
एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात् ।
अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥ २.१०.४ ॥

这些神圣的方位,风之妻,太阳所注视的——如此,我将你从遗传之病、涅利提、族人的诅咒、恶意与伐楼那的绳索中解脱。以梵使你无罪;愿天地二者都对你吉祥。

2.10.5

तासु त्वान्तर्जरस्या दधामि प्र यक्ष्म एतु निर्ऋतिः पराचैः ।
एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात् ।
अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥ २.१०.५ ॥

我在其中将你安置于内,直到衰老;愿痨病离去,愿涅利提远远离去。如此,我将你从遗传之病、涅利提、族人的诅咒、恶意与伐楼那的绳索中解脱。以梵使你无罪;愿天地二者都对你吉祥。

2.10.6

अमुक्था यक्ष्माद्दुरितादवद्याद्द्रुहः पाशाद्ग्राह्याश्चोदमुक्थाः ।
एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात् ।
अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥ २.१०.६ ॥

愿你从痨病、厄运、耻辱、恶意、绳索以及攫取之力中解脱;起身,获得解脱。如此,我将你从遗传之病、涅利提、族人的诅咒、恶意与伐楼那的绳索中解脱。以梵使你无罪;愿天地二者都对你吉祥。

2.10.7

अहा अरातिमविदः स्योनमप्यभूर्भद्रे सुकृतस्य लोके ।
एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात् ।
अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥ २.१०.७ ॥

啊(病人),你曾不知敌人;如今你也得安宁,在善业吉祥的世界中。我如此将你从遗传之病、涅利提、亲族的咒诅与恶意中解脱,从伐楼那的索套中释放。以神圣的咒语使你无过;愿天地二者都为你吉祥。

2.10.8

सूर्यमृतं तमसो ग्राह्या अधि देवा मुञ्चन्तो असृजन् निरेनसः ।
एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात् ।
अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥ २.१०.८ ॥

诸神将太阳与天则从黑暗的抓取(疾病)中解放,使其脱离罪过而出。如此我将你从遗传之病、涅利提、亲族的咒诅与恶意中解脱,从伐楼那的索套中释放。以神圣的咒语使你无过;愿天地二者都为你吉祥。