阿闼婆吠陀 · 颂诗(Sūkta) 2.12
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.12.1
द्यावापृथिवी उर्वन्तरिक्षं क्षेत्रस्य पत्न्युरुगायोऽद्भुतः ।
उतान्तरिक्षमुरु वातगोपं त इह तप्यन्तां मयि तप्यमाने ॥ २.१२.१ ॥
天与地、广阔的中间空界,田地的女主人,被广泛赞颂而奇妙;以风为守护的广阔中间空界——愿它们在此,在燃烧的我之中燃烧。
2.12.2
इदं देवाः शृणुत ये यज्ञिया स्थ भरद्वाजो मह्यमुक्थानि शंसति ।
पाशे स बद्धो दुरिते नि युज्यतां यो अस्माकं मन इदं हिनस्ति ॥ २.१२.२ ॥
诸神啊,值得献祭的你们,请听——跋罗德瓦遵为我诵念乌克提。愿伤害我们此心的人被套索缚住,被轭入厄运之中。
2.12.3
इदमिन्द्र शृणुहि सोमप यत्त्वा हृदा शोचता जोहवीमि ।
वृश्चामि तं कुलिशेनेव वृक्षं यो अस्माकं मन इदं हिनस्ति ॥ २.१२.३ ॥
饮苏摩的因陀罗啊,请听——我以燃烧的心呼唤你。伤害我们此心的人,我将他斩断,如以金刚杵砍倒一棵树。
2.12.4
अशीतिभिस्तिसृभिः सामगेभिरादित्येभिर्वसुभिरङ्गिरोभिः ।
इष्टापूर्तमवतु नः पितॄणामामुं ददे हरसा दैव्येन ॥ २.१२.४ ॥
与八十三位唱颂娑摩的阿迪提亚、婆苏与安吉拉斯同在,愿祖先的祭祀与功德保护我们;我以神力执取那一物。
2.12.5
द्यावापृथिवी अनु मा दीधीथां विश्वे देवासो अनु मा रभध्वम् ।
अङ्गिरसः पितरः सोम्यासः पापमार्छत्वपकामस्य कर्ता ॥ २.१२.५ ॥
天与地,请在我身后照耀;诸神,请在我身后护持。安吉拉斯祖先与娑摩祖先——愿恶行降临于怀恶意者的施行者。
2.12.6
अतीव यो मरुतो मन्यते नो ब्रह्म वा यो निन्दिषत्क्रियमाणम् ।
तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषं द्यौरभिसंतपाति ॥ २.१२.६ ॥
诸摩录多啊,凡轻视我们、或诽谤正在进行的梵(咒祷之事)的人,愿他遭受灼热的苦痛与恶业;愿天空烧灼那憎恶梵者。
2.12.7
सप्त प्राणान् अष्टौ मन्यस्तांस्ते वृश्चामि ब्रह्मणा ।
अया यमस्य सादनमग्निदूतो अरंकृतः ॥ २.१२.७ ॥
我以梵咒斩断他的七气与八筋;如此,以阿耆尼为使者,他被备妥前往阎摩的居所。
2.12.8
आ दधामि ते पदं समिद्धे जातवेदसि ।
अग्निः शरीरं वेवेष्ट्वसुं वागपि गच्छतु ॥ २.१२.८ ॥
我将你的脚步安置在燃烧的迦陀吠陀(阿耆尼)之中;愿阿耆尼包裹你的身体,愿言语也随气息而去。