Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 2.14

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.14.1

निःसालां धृष्णुं धिषणमेकवाद्यां जिघत्स्वम् ।
सर्वाश्चण्डस्य नप्त्यो नाशयामः सदान्वाः ॥ २.१४.१ ॥

我们驱逐尼希萨拉,那大胆、攻击、唯一的诽谤者、吞噬者。旃陀的所有孙女,哦萨丹婆们,我们将之摧毁。

2.14.2

निर्वो गोष्ठादजामसि निरक्षान् निरुपानशात् ।
निर्वो मगुन्द्या दुहितरो गृहेभ्यश्चातयामहे ॥ २.१४.२ ॥

我们把你们赶出牛栏;也赶出那有车轴者和穿鞋者。麻衮迪的女儿们,我们把你们从房屋中驱走。

2.14.3

असौ यो अधराद्गृहस्तत्र सन्त्वराय्यः ।
तत्र सेदिर्न्युच्यतु सर्वाश्च यातुधान्यः ॥ २.१४.३ ॥

那下面的房子,让阿拉耶们待在那里。让塞迪在那里沉下,所有食人的女罗刹亦然。

2.14.4

भूतपतिर्निरजत्विन्द्रश्चेतः सदान्वाः ।
गृहस्य बुध्न आसीनास्ता इन्द्रो वज्रेणाधि तिष्ठतु ॥ २.१४.४ ॥

愿众生之主驱逐她们;愿因陀罗驱逐她们,哦警醒的萨丹婆们。坐在屋基之下的她们,愿因陀罗以金刚杵立于其上。

2.14.5

यदि स्थ क्षेत्रियाणां यदि वा पुरुषेषिताः ।
यदि स्थ दस्युभ्यो जाता नश्यतेतः सदान्वाः ॥ २.१४.५ ॥

若你们是田间之病,或是人所遣,或是盗贼所生——哦萨丹婆们,从此处灭亡吧。

2.14.6

परि धामान्यासामाशुर्गाष्ठामिवासरम् ।
अजैषं सर्वान् आजीन् वो नश्यतेतः सदान्वाः ॥ २.१४.६ ॥

绕其居所,迅速如绕牛栏——你们的一切争斗我都已战胜。哦萨丹婆们,从此处灭亡吧。