Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 2.30

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.30.1

यथेदं भूम्या अधि तृणं वातो मथायति ।
एवा मथ्नामि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥ २.३०.१ ॥

犹如风吹动大地上的这根草,我也这样搅动你的心,使你爱慕我,不离开我。

2.30.2

सं चेन् नयाथो अश्विना कामिना सं च वक्षथः ।
सं वां भगासो अग्मत सं चित्तानि समु व्रता ॥ २.३०.२ ॥

阿溯那二神啊,若你们将彼此渴慕的一对带来并使之相合;愿你们二者的福运一同降临,心意与誓愿也相合。

2.30.3

यत्सुपर्णा विवक्षवो अनमीवा विवक्षवः ।
तत्र मे गच्छताद्धवं शल्य इव कुल्मलं यथा ॥ २.३०.३ ॥

当羽翼美好的鸟想要鸣叫,无病的鸟想要鸣叫时;愿我的呼唤从那里抵达她,如箭中靶。

2.30.4

यदन्तरं तद्बाह्यं यद्बाह्यं तदन्तरम् ।
कन्यानां विश्वरूपाणां मनो गृभायौषधे ॥ २.३०.४ ॥

内者即外,外者即内;草药啊,请攫取诸般形貌的少女之心。

2.30.5

एयमगन् पतिकामा जनिकामोऽहमागमम् ।
अश्वः कनिक्रदद्यथा भगेनाहं सहागमम् ॥ २.३०.५ ॥

此女来求夫婿,我来求子嗣;如骏马嘶鸣,我带着福运来到她身边。