Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 2.5

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.5.1

इन्द्र जुषस्व प्र वहा याहि शूर हरिभ्याम् ।
पिबा सुतस्य मतेरिह मधोश्चकानश्चारुर्मदाय ॥ २.५.१ ॥

因陀罗啊,请你喜悦;英雄啊,驾着你的两匹枣红马前来。在此饮用压榨的苏摩与甘美之酒,渴望而可爱,为了欢畅,因虔诚之念而满足。

2.5.2

इन्द्र जठरं नव्यो न पृणस्व मधोर्दिवो न ।
अस्य सुतस्य स्वर्णोप त्वा मदाः सुवाचो अगुः ॥ २.५.२ ॥

因陀罗啊,像新鲜的苏摩、像天上的蜜一样充满你的腹部。由此压榨的苏摩,如金般光辉,甘美言语的欢畅已来到你身边。

2.5.3

इन्द्रस्तुराषाण्मित्रो वृत्रं यो जघान यतीर्न ।
बिभेद वलं भृगुर्न ससहे शत्रून् मदे सोमस्य ॥ २.५.३ ॥

因陀罗,迅速的征服者与朋友,击杀了弗栗多,如奔流之水;他如婆利古般劈开了伐罗,在苏摩的欢畅中征服了敌人。

2.5.4

आ त्वा विशन्तु सुतास इन्द्र पृणस्व कुक्षी विड्ढि शक्र धियेह्या नः ।
श्रुधी हवं गिरो मे जुषस्वेन्द्र स्वयुग्भिर्मत्स्वेह महे रणाय ॥ २.५.४ ॥

愿压榨的苏摩汁液进入你,因陀罗;充满你的两腹。有力者啊,以心念来此,来到我们这里。听我的呼唤,因我的歌而喜悦;因陀罗啊,与你自己的驾马一同在此欢喜,以获大乐。

2.5.5

इन्द्रस्य नु प्र वोचं वीर्याणि यानि चकार प्रथमानि वज्री ।
अहन्न् अहिमनु अपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् ॥ २.५.५ ॥

现在我要宣说因陀罗的英雄事迹,那执金刚者最初所作:他击杀了蛇,然后释放了诸水,劈开群山,让河流奔涌而出。

2.5.6

अहन्न् अहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।
वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥ २.५.६ ॥

他击杀了盘踞在山上的蛇阿希。特瓦什特里为他锻造了光耀的金刚杵。水流如哞叫的母牛,径直奔向大海。

2.5.7

वृषायमाणो अवृणीत सोमं त्रिकद्रुकेषु अपिबत्सुतस्य ।
आ सायकं मघवादत्त वज्रमहन्न् एनं प्रथमजामहीनाम् ॥ २.५.७ ॥

他如公牛般欢腾,选取了苏摩,并饮下三个特里卡德鲁卡杯中压榨的苏摩。慷慨的摩伽梵执起箭与金刚杵,击杀了诸蛇中的长子。