Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 20.125

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

20.125.1

अपेन्द्र प्राचो मघवन्न् अमित्रान् अपापाचो अभिभूते नुदस्व ।
अपोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम ॥ २०.१२५.१ ॥

因陀罗啊,慷慨的神啊,从东方驱逐敌人;征服者啊,也从西方、北方和南方驱逐那些勇士,使我们在你广大的庇护下欢喜。

20.125.2

कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय ।
इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥ २०.१२५.२ ॥

诚然,如同有大麦者分离大麦、依次脱粒,因陀罗啊,请在此处那里为那些未从圣草上拒绝礼敬而离去的人备好食物。

20.125.3

नहि स्थूर्यृतुथा यातमस्ति नोत श्रवो विविदे संगमेषु ।
गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ॥ २०.१२५.३ ॥

强壮者未按时节离去,集会中也找不到名声;渴望牛的智者为了友谊呼唤因陀罗,渴望马与力量者呼唤那公牛。

20.125.4

युवं सुराममश्विना नमुचावासुरे सचा ।
विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् ॥ २०.१२५.४ ॥

双马童啊,你们二人在阿修罗那穆其处一同饮用苏罗酒,作为光明之主,在诸般行动中护佑了因陀罗。

20.125.5

पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः ।
यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक् ॥ २०.१२५.५ ॥

如父母守护儿子,你们双马童及因陀罗以智慧的技艺和奇妙的行为相助;当你以力量饮用苏罗酒时,萨拉斯瓦蒂为你灌顶,啊慷慨者。

20.125.6

इन्द्रः सुत्रामा स्ववामवोभिः सुमृडीको भवतु विश्ववेदाः ।
बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥ २०.१२५.६ ॥

愿因陀罗成为良好的庇护者,慈悲而全知,以他富足的助力。愿他驱除仇恨,赐予我们无畏;愿我们成为卓越英勇力量的主人。

20.125.7

स सुत्रामा स्ववामिन्द्रो अस्मदाराच्चिद्द्वेषः सनुतर्युयोतु ।
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥ २०.१२५.७ ॥

愿那位良好的庇护者、拥有自身财富的因陀罗,即使从远处也将仇恨驱离我们。愿我们安住于那值得祭祀者的恩惠之中,以及吉祥的善意之中。