阿闼婆吠陀 · 颂诗(Sūkta) 20.126
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
20.126.1
वि हि सोतोरसृक्षत नेन्द्रं देवममंसत ।
यत्रामदद्वृषाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्र उत्तरः ॥ २०.१२६.१ ॥
苏摩被榨出并流淌,然而他们不尊敬天神因陀罗。在那里,作为主人和欢乐伴侣的毗湿阿迦毗在富足者之中欢喜。因陀罗高于一切。
20.126.2
परा हीन्द्र धावसि वृषाकपेरति व्यथिः ।
नो अह प्र विन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः ॥ २०.१२६.२ ॥
因陀罗啊,你因恐惧而逃离毗湿阿迦毗,除了饮用苏摩,你在别处找不到喜悦。因陀罗高于一切。
20.126.3
किमयं त्वां वृषाकपिश्चकार हरितो मृगः ।
यस्मा इरस्यसीदु न्वर्यो वा पुष्टिमद्वसु विश्वस्मादिन्द्र उत्तरः ॥ २०.१२६.३ ॥
这毗湿阿迦毗对你做了什么,金色的鹿啊?你所赐予财富与兴盛的那人,如今已成了主人。因陀罗高于一切。
20.126.4
यमिमं त्वं वृषाकपिं प्रियमिन्द्राभिरक्षसि ।
श्वा न्वस्य जम्भिषदपि कर्णे वराहयुर्विश्वस्मादिन्द्र उत्तरः ॥ २०.१२६.४ ॥
因陀罗啊,你所护佑的这位可爱的毗湿阿迦毗,紧紧纠缠着他,如同猎犬咬住野猪的耳朵。因陀罗高于一切。
20.126.5
प्रिया तष्टानि मे कपिर्व्यक्ता व्यदूदुषत् ।
शिरो न्वस्य राविषं न सुगं दुष्कृते भुवं विश्वस्मादिन्द्र उत्तरः ॥ २०.१२६.५ ॥
我可爱的雕刻之物,猴子明显地使它们充满了欢喜。如今我献上他的头;我不会为作恶者成为一条容易的路。因陀罗高于一切。
20.126.6
न मत्स्त्री सुभसत्तरा न सुयाशुतरा भुवत् ।
न मत्प्रतिच्यवीयसी न सक्थ्युद्यमीयसी विश्वस्मादिन्द्र उत्तरः ॥ २०.१२६.६ ॥
没有比我更美的妻子,也没有比我更快带着爱意前来的;没有人远离我,也没有人迈步时高抬大腿。在一切之上,因陀罗最高。
20.126.7
उवे अम्ब सुलाभिके यथेवाङ्गं भविष्यति ।
भसन् मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्मादिन्द्र उत्तरः ॥ २०.१२६.७ ॥
啊母亲,易于获得的人,身体将会如何就如何;我的母亲,我的臀、大腿和头,像鸟一样欢欣颤动。在一切之上,因陀罗最高。
20.126.8
किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने ।
किं शूरपत्नि नस्त्वमभ्यमीषि वृषाकपिं विश्वस्मादिन्द्र उत्तरः ॥ २०.१२६.८ ॥
啊,美臂的、美肢的、宽臀的、宽腿的英雄之妻,你为何到我们这里来?为何朝向牛猴(Vṛṣākapi)?在一切之上,因陀罗最高。
20.126.9
अवीरामिव मामयं शरारुरभि मन्यते ।
उताहमस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः ॥ २०.१२६.९ ॥
这个恶人把我看作没有英雄的女人;而我却有英雄,是因陀罗之妻,是摩录多的朋友。在一切之上,因陀罗最高。
20.126.10
संहोत्रं स्म पुरा नारी समनं वाव गच्छति ।
वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः ॥ २०.१२६.१० ॥
往昔女子同心前往共同祭祀;秩序的安排者、拥有英雄的因陀罗之妻受到尊崇。在一切之上,因陀罗最高。
20.126.11
इन्द्राणीमासु नारिषु सुभगामहमश्रवम् ।
नह्यस्या अपरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः ॥ २०.१२६.११ ॥
在这些女子之中,我听说因陀罗尼是有福的:她的丈夫不会因衰老而死,也不会因他人而死。在一切之上,因陀罗最高。
20.126.12
नाहमिन्द्राणि रारण सख्युर्वृषाकपेर्ऋते ।
यस्येदमप्यं हविः प्रियं देवेषु गच्छति विश्वस्मादिन्द्र उत्तरः ॥ २०.१२६.१२ ॥
因陀罗尼啊,没有我的朋友 Vṛṣākapi,我便不感到喜乐;他那可爱的供物抵达诸神。因陀罗高于一切。
20.126.13
वृषाकपायि रेवति सुपुत्र आदु सुस्नुषे ।
घसत्त इन्द्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिन्द्र उत्तरः ॥ २०.१२६.१३ ॥
Vṛṣākapi 之妻啊,富有者,诸善子之母,贤淑的儿媳!愿因陀罗食用你那可爱的公牛,以及某种制成的可爱供物。因陀罗高于一切。
20.126.14
उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंसतिम् ।
उताहमद्मि पीव इदुभा कुक्षी पृणन्ति मे विश्वस्मादिन्द्र उत्तरः ॥ २०.१२६.१४ ॥
为我一同烹煮公牛的十五份与二十份;我吃那丰盛的食物,它充满我的两个腹部。因陀罗高于一切。
20.126.15
वृषभो न तिग्मशृङ्गोऽन्तर्यूथेषु रोरुवत् ।
मन्थस्त इन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्र उत्तरः ॥ २०.१२६.१५ ॥
如尖角之牛在群中咆哮,愿为你渴望而榨取的 mantha,啊因陀罗,给你的心带来安慰。因陀罗高于一切。
20.126.16
न सेशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत् ।
सेदीशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्मादिन्द्र उत्तरः ॥ २०.१२६.१६ ॥
其阴具垂于两股之间者不能胜任;而其有毛之阴具为坐者而挺起者,乃能胜任。因陀罗高于一切。
20.126.17
न सेशे यस्य रोमशं निषेदुषो विजृम्भते ।
सेदीशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत्विश्वस्मादिन्द्र उत्तरः ॥ २०.१२६.१७ ॥
那毛茸茸的身体在坐者身上打哈欠,他不睡觉;两股之间悬着 kapṛt 的人睡得很好。因陀罗高于一切。
20.126.18
अयमिन्द्र वृषाकपिः परस्वन्तं हतं विदत् ।
असिं सूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः ॥ २०.१२६.१८ ॥
因陀罗啊,看哪,瓦里沙卡皮找到了持斧而被杀的人;屠杀者的新剑,新的杯子,装在车上的 ādhedhasya。因陀罗高于一切。
20.126.19
अयमेमि विचाकशद्विचिन्वन् दासमार्यम् ।
पिबामि पाकसुत्वनोऽभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः ॥ २०.१२६.१९ ॥
我在此行进,四处张望,寻找敌人与雅利安人;我饮用以熟食压榨者的供酒,望向智者。因陀罗高于一切。
20.126.20
धन्व च यत्कृन्तत्रं च कति स्वित्ता वि योजना ।
नेदीयसो वृषाकपेऽस्तमेहि गृहामुप विश्वस्मादिन्द्र उत्तरः ॥ २०.१२६.२० ॥
弓与切割的武器——有多少距离被分别套在一起?瓦里沙卡皮啊,到最近的那人身边来,回家,回你的屋里来。因陀罗高于一切。
20.126.21
पुनरेहि वृषाकपे सुविता कल्पयावहै ।
य एष स्वप्ननंशनोऽस्तमेषि पथा पुनर्विश्वस्मादिन्द्र उत्तरः ॥ २०.१२६.२१ ॥
回来吧,瓦里沙卡皮啊,让我们安排吉祥;这位破坏梦境者沿着道路再次回家。因陀罗高于一切。
20.126.22
यदुदञ्चो वृषाकपे गृहमिन्द्राजगन्तन ।
क्व स्य पुल्वघो मृगः कमगं जनयोपनो विश्वस्मादिन्द्र उत्तरः ॥ २०.१२६.२२ ॥
瓦里沙卡皮啊,因陀罗啊,你升起回到家时——那只多杀之鹿在哪里?它朝哪个方向去?你生出随从。因陀罗高于一切。
20.126.23
पर्शुर्ह नाम मानवी साकं ससूव विंशतिम् ।
भद्रं भल त्यस्या अभूद्यस्या उदरमामयद्विश्वस्मादिन्द्र उत्तरः ॥ २०.१२६.२३ ॥
一位名叫帕尔舒的凡间女子一次生下二十个孩子。腹中生病的那位女子得到了福祉;因陀罗高于一切。