アタルヴァ・ヴェーダ · スークタ 20.137
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
20.137.1
यद्ध प्राचीरजगन्तोरो मण्डूरधाणिकीः ।
हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥ २०.१३७.१ ॥
蛙と ダーニキーの類いが東へ行ったとき、インドラの敵はことごとく打たれた。泡立つように速いものどもは皆。
20.137.2
कपृन् नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये ।
निष्टिग्र्यः पुत्रमा च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥ २०.१३७.२ ॥
人々よ、茶色のものどもを、カプリタを奮い立たせよ、促せ、押せ、賞を得るために;ニシュティグリヤの息子をここで震わせよ;ソーマを飲むために、サバーダとともにインドラをここへ。
20.137.3
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः ।
सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत् ॥ २०.१३७.३ ॥
ダディクラーヴァンの勝利の、速い馬のために私は供物を捧げた;それが我らの口を香らせ、我らの寿命を延ばしますように。
20.137.4
सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः ।
पवित्रवन्तो अक्षरन् देवान् गच्छन्तु वो मदाः ॥ २०.१३७.४ ॥
搾られた、最も甘く蜜に満ちたソーマの汁はインドラを喜ばせる;浄められて、それらは流れ出た。汝らの歓喜が神々に届きますように。
20.137.5
इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् ।
वाचस्पतिर्मखस्यते विश्वस्येशान ओजसा ॥ २०.१३७.५ ॥
「ソーマの滴はインドラのために流れる」と神々は言った。ヴァーチャスパティは供犠の主、その力によってすべてを統べる者。
20.137.6
सहस्रधारः पवते समुद्रो वाचमीङ्खयः ।
सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे ॥ २०.१३७.६ ॥
千の流れの大海であるソーマが流れ、言葉を揺り動かす;富の主であり、インドラの友であるソーマは、日々に。
20.137.7
अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः ।
आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥ २०.१३७.७ ॥
滴は アṃśumatī の上に降り立った。黒き者は万の千を伴って来た。インドラは力をもって吹く者を止め、人々を喜ばせる神は敵対する流れを退けた。
20.137.8
द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः ।
नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥ २०.१३७.८ ॥
私は アṃśumatī 川の窪みに広がって動く滴を見た。空のように黒く、低く立つそれを、あなたがたのために送ろう。勇ましき者よ、戦いで戦え。
20.137.9
अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः ।
विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥ २०.१३७.९ ॥
そして滴は輝きながら、 アṃśumatī の懐に己の身を保った。ブリハスパティを伴として、インドラは攻めかかる非神の軍勢に勝った。
20.137.10
त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र ।
गूल्हे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥ २०.१३७.१० ॥
インドラよ、あなたは七人の友のために生まれ、敵でない者たちの敵となった。隠れた天と地をあなたは見出し、力に満ちた諸世界のために場所を置いた。
20.137.11
त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन् धृषितो जघन्थ ।
त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ॥ २०.१३७.११ ॥
金剛を持つ者よ、あなたは比べるもののない力を金剛で大胆に打ち倒した。あなたは武器でシュシュナを越え、インドラよ、力によって牛を取り戻した。
20.137.12
तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
स वृषा वृषभो भुवत् ॥ २०.१३७.१२ ॥
そのインドラを、我々は偉大なヴリトラを殺すために励ます。彼は力強い牡牛となった。
20.137.13
३ इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।
द्युम्नी श्लोकी स सोम्यः ॥ २०.१३७.१३ ॥
そのインドラは束縛のために作られ、最も力強く、歓喜の中に置かれている。彼は輝き、名高く、ソーマに属する。
20.137.14
गिरा वज्रो न संभृतः सबलो अनपच्युतः ।
ववक्ष ऋष्वो अस्तृतः ॥ २०.१३७.१४ ॥
賛歌によって雷霆のように集められ、力を備え、揺るがない。彼は偉大で高く、征服されない者として現れる。