阿闼婆吠陀 · 颂诗(Sūkta) 20.143
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
20.143.1
तं वां रथं वयमद्या हुवेम पृथुज्रयमश्विना संगतिं गोः ।
यः सूर्यां वहति वन्धुरायुर्गिर्वाहसं पुरुतमं वसूयुम् ॥ २०.१४३.१ ॥
双马神啊,今日我们呼唤你们那辆奔驰宽广的战车,它驶向群牛相会之处。它载着作为生命依托的苏尔雅;它由赞颂驱动,渴求最多的财富。
20.143.2
युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः ।
युवोर्वपुरभि पृक्षः सचन्ते वहन्ति यत्ककुहासो रथे वाम् ॥ २०.१४३.२ ॥
双马神啊,你们二位是神圣的,是天之孙;凭借你们的神力,你们获得那份光辉。当高扬的旗帜被载于你们的战车上时,多汁的供品便粘附于你们的身形。
20.143.3
को वामद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः ।
ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत् ॥ २०.१४३.३ ॥
双马神啊,今日谁以祭品、以颂歌向你们致敬,为求庇护,为饮压榨的苏摩,或为获得古老的天则(ṛta)?愿那节制其礼敬的祭者转而归向你们。
20.143.4
हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् ।
पिबाथ इन् मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥ २०.१४३.४ ॥
纳萨提亚啊,请乘你们金色、多形的战车来到此祭。你们确实饮用甘如蜜的压榨苏摩,并将财富之宝赐予敬拜的人们。
20.143.5
आ नो यातं दिवो अच्छ पृथिव्या हिरण्ययेन सुवृता रथेन ।
मा वामन्ये नि यमन् देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम् ॥ २०.१४३.५ ॥
请从天与地来到我们这里,乘你们金色而易于转向的战车。愿那些渴求诸神的其他人不要阻拦你们,当你们古老的车毂被共同握住时。
20.143.6
नू नो रयिं पुरुवीरं बृहन्तं दस्रा मिमाथामुभयेष्वस्मे ।
नरो यद्वामश्विना स्तोममावन्त्सधस्तुतिमाजमील्हासो अग्मन् ॥ २०.१४३.६ ॥
哦,奇妙者,现在请赐予我们富含众英雄的伟大财富;为我们在两边增长它。哦,领袖阿濕文,当你们二位护佑赞歌时,阿遮密陀人带着共同的颂歌而来。
20.143.7
इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना ।
उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥ २०.१४३.७ ॥
此处,此处,当我与你们二位同心相连时,愿我们这份善意富含胜利的战利品。哦,那娑提亚,愿你们二位护佑歌者;愿依托于你们的愿望永不缺失。
20.143.8
मधुमतीरोषधीर्द्याव आपो मधुमन् नो भवत्वन्तरिक्षम् ।
क्षेत्रस्य पतिर्मधुमान् नो अस्त्वरिष्यन्तो अन्वेनं चरेम ॥ २०.१४३.८ ॥
愿草木甘美,愿天与水甘美;愿虚空对我们甘美。愿田地之主对我们甘美;愿我们无伤地跟随他。
20.143.9
पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः ।
सहस्रं शंसा उत ये गविष्टौ सर्वामित्तामुप याता पिबध्यै ॥ २०.१४३.९ ॥
哦,阿濕文,你们的那件功业值得赞美;你们二位是天、虚空和大地的公牛。愿千首赞歌以及寻牛之中的一切都来到你们二位面前,前来饮用。