Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 20.16

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

20.16.1

उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः ।
गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिमभ्यर्का अनावन् ॥ २०.१६.१ ॥

如从水中升起守护的飞鸟,如雷云的喧鸣,如山上闪耀的波浪,欢欣地,颂歌向布里哈斯帕蒂响起。

20.16.2

सं गोभिरङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय ।
जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूंरिवाजौ ॥ २०.१६.२ ॥

安吉罗斯携带牛群(光线)而来,如薄伽一般引来阿耶曼;如弥多罗在人间结合夫妻,哦布里哈斯帕蒂,请如竞赛中的快马引导我们前行。

20.16.3

साध्वर्या अतिथिनीरिषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः ।
बृहस्पतिः पर्वतेभ्यो वितूर्या निर्गा ऊपे यवमिव स्थिविभ्यः ॥ २०.१६.३ ॥

善行的祭祀,引导客人,迅捷,可欲,金色,形貌无瑕;布里哈斯帕蒂从山中破开,把牛群赶出圈栏,如同从仓库中取出大麦。

20.16.4

आप्रुषायन् मधुना ऋतस्य योनिमवक्षिपन्न् अर्क उल्कामिव द्योः ।
बृहस्पतिरुद्धरन्न् अश्मनो गा भूम्या उद्नेव वि त्वचं बिभेद ॥ २०.१६.४ ॥

以蜜洒向秩序(ṛta)之源而来;如天上投下火把般投出光线;布里哈斯帕蒂从石中举起牛群,如同水剖开大地的皮肤,劈开了覆盖。

20.16.5

अप ज्योतिषा तमो अन्तरिक्षदुद्नः शीपालमिव वात आजत् ।
बृहस्पतिरनुमृश्या वलस्याभ्रमिव वात आ चक्र आ गाः ॥ २०.१६.५ ॥

以光明驱散空中的黑暗,如风吹散水中的水草;布里哈斯帕蒂寻得伐罗,使牛群折返,如风转动云朵。

20.16.6

यदा वलस्य पीयतो जसुं भेद्बृहस्पतिरग्नितपोभिरर्कैः ।
दद्भिर्न जिह्वा परिविष्टमाददाविर्निधींरकृणोदुस्रियाणाम् ॥ २०.१६.६ ॥

当布利哈斯帕蒂以阿耆尼的热力和颂歌劈开瓦拉所饮的隐藏之物时,他抓住了如牙齿间舌头般被环绕的东西,并显露了牛的宝藏。

20.16.7

बृहस्पतिरमत हि त्यदासां नाम स्वरीणां सदने गुहा यत् ।
आण्डेव भित्वा शकुनस्य गर्भमुदुस्रियाः पर्वतस्य त्मनाजत् ॥ २०.१६.७ ॥

布利哈斯帕蒂确实知晓那些斯瓦里之牛的名字,它们在洞穴内的居所中隐藏着;如破开蛋壳、如鸟的胚胎一般,山自身驱出了曙光之牛。

20.16.8

अश्नापिनद्धं मधु पर्यपश्यन् मत्स्यं न दीन उदनि क्षियन्तम् ।
निष्टज्जभार चमसं न वृक्षाद्बृहस्पतिर्विरवेणा विकृत्य ॥ २०.१६.८ ॥

他们看见被石头束缚的蜜,犹如穷人望见水中的鱼;布利哈斯帕蒂怒吼着切断它,如从树上取下杯子一般将它取出。

20.16.9

सोषामविन्दत्स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि ।
बृहस्पतिर्गोवपुषो वलस्य निर्मज्जानं न पर्वणो जभार ॥ २०.१६.९ ॥

他得到了黎明,得到了光明天界,得到了阿耆尼;以颂歌驱散了黑暗。布利哈斯帕蒂取出了那牛身的瓦拉沉没的肢体,如同从关节中取出一般。

20.16.10

हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद्वलो गाः ।
अनानुकृत्यमपुनश्चकार यात्सूर्यामासा मिथ उच्चरातः ॥ २०.१६.१० ॥

如同霜雪夺去树叶,森林被夺走;布利哈斯帕蒂为了牛群而使瓦拉颤抖。他完成了一件无法撤销的事业;太阳与月亮向上运行,彼此环绕。

20.16.11

अभि श्यावं न कृशनेभिरश्वं नक्षत्रेभिः पितरो द्यामपिंशन् ।
रात्र्यां तमो अदधुर्ज्योतिरहन् बृहस्पतिर्भिनदद्रिं विदद्गाः ॥ २०.१६.११ ॥

如同以锐利的缰绳装饰黑褐色的马,祖先以星辰装饰天空。他们在夜间安置黑暗,在白昼安置光明。布里哈斯帕蒂劈开山岩,找到了牛群。

20.16.12

इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति ।
बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर्नो वयो धात् ॥ २०.१६.१२ ॥

我们向这位云之神致以此敬礼——他反复赞颂古代的祖先。愿这位布里哈斯帕蒂通过牛群、马匹、英勇的子嗣和人众,赐予我们食物与力量。