Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 20.21

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

20.21.1

न्यू षु वाचं प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः ।
नू चिद्धि रत्नं ससतामिवाविदन् न दुष्टुतिर्द्रविणोदेषु शस्यते ॥ २०.२१.१ ॥

如今我们为因陀罗高声献上言语,在毗婆娑特的居所献上颂歌。如同沉睡者得不到宝物,恶劣的赞颂在施予财富者之间也不受称赞。

20.21.2

दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस्पतिः ।
शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गृणीमसि ॥ २०.२१.२ ॥

啊因陀罗,你是马的门户,牛的门户,大麦的门户;你是财富的主人。你是教导的首领,古老者的守护者,驱逐不愿之敌者,朋友中的朋友:我们以此颂赞你。

20.21.3

शचीव इन्द्र पुरुकृद्द्युमत्तम तवेदिदमभितश्चेकिते वसु ।
अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः काममूनयीः ॥ २०.२१.३ ॥

啊威力强大的因陀罗,多功之主,最为光明者!你的这份财富四面显现。因此,啊征服者,把它聚集起来带到这里;不要让渴望你的歌者之愿落空。

20.21.4

एभिर्द्युभिर्सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना ।
इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसः समिषा रभेमहि ॥ २०.२१.४ ॥

以这些光明的日子,以欢悦的心,以这些苏摩之滴,与牛群一同驱除匮乏,啊双马童!与因陀罗一同撕裂黑暗的敌人,以苏摩之滴消除憎恨,我们与食物相连。

20.21.5

समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः ।
सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि ॥ २०.२१.५ ॥

啊因陀罗,我们与财富和食物相连;与众多欢悦而光明的力量相连。与神圣的智慧、英雄的威力、以牛马为首的丰饶相连。

20.21.6

ते त्वा मदा अमदन् तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते ।
यत्कारवे दश वृत्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥ २०.२१.६ ॥

善主啊,那些陶醉使你欢喜,那些英勇之举,以及在杀伐弗栗多时的那些苏摩滴使你欢喜。当为了在圣草上无可比拟的歌者,你击倒了十个障碍和成千上万的敌人时。

20.21.7

युधा युधमुप घेदेषि धृष्णुया पुरा पुरं समिदं हंस्योजसा ।
नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम् ॥ २०.२१.७ ॥

你勇猛地从一场战斗走向另一场战斗,一座城堡接着一座城堡,你以力量击碎这一切。因陀罗啊,当你以友情从远方将名叫那目支的幻术师压弯击倒时。

20.21.8

त्वं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्य वर्तनी ।
त्वं शता वङ्गृदस्याभिनत्पुरोऽनानुदः परिषूता ऋजिश्वना ॥ २०.२१.८ ॥

你击倒了甘达树与波尔那耶树,并以最锐利的力量击破了阿提提格瓦的道路。你劈开了缚栗多的百座堡垒,它们不屈且被包围,与里吉什梵一同。

20.21.9

त्वमेतां जनराज्ञो द्विर्दशाबन्धुना सुश्रवसोपजग्मुषः ।
षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक् ॥ २०.२१.९ ॥

你击倒了这些无亲族的民众之王,他们与苏什拉瓦斯同来,共二十位;六万又九十九,即闻名的苏什拉瓦斯;以轮子,以战车之轮,你包围了恶足的敌人。

20.21.10

त्वमाविथ सुश्रवसं तवोतिभिस्तव त्रामभिरिन्द्र तूर्वयाणम् ।
त्वमस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः ॥ २०.२१.१० ॥

你以你的援助护佑苏什拉瓦斯;因陀罗啊,以你的庇护护佑图尔瓦延那。为了他,你将库特萨、阿提提格瓦与阿尤赐予伟大的国王和年轻人作为助力。

20.21.11

य उदृचीन्द्र देवगोपाः सखायस्ते शिवतमा असाम ।
त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥ २०.२१.११ ॥

因陀罗啊,愿我们成为你的朋友,最为吉祥,受那升起的诸神守护;愿我们赞颂你,并借你之力,携带优秀的英雄子嗣,将长寿延续得更远。