阿闼婆吠陀 · 颂诗(Sūkta) 20.25
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
20.25.1
अश्वावति प्रथमो गोषु गच्छति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः ।
तमित्पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः ॥ २०.२५.१ ॥
拥有马匹的凡人首先走向牛群;因陀罗啊,凭借你的护佑,他获得良好的子嗣。你用丰厚的财富充盈他,犹如水充盈四面流淌的河流。
20.25.2
आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः ।
प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव ॥ २०.२५.२ ॥
如神圣的水流般,他们接近召请者(hotṛ);从下方,他们望见广阔的虚空。以东向的颂歌,诸神引导寻神者前行,使爱好祈祷者喜悦,如同那些杰出之人所做的。
20.25.3
अधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः ।
असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते ॥ २०.२५.३ ॥
对于两位手持勺子成对崇拜的人,你置上了值得赞颂的言辞。在誓约中不自律者居于你的誓约中而兴旺;对于榨取苏摩的祭主,有吉祥的力量。
20.25.4
आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया ।
सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः ॥ २०.२५.४ ॥
那时,安吉拉斯首先确立了力量,他们以善行用祭柱点燃圣火。人们从帕尼那里获得了一切食物——有马的、有牛的,以及牲畜。
20.25.5
यज्ञैरथर्वा प्रथमः पथस्तते ततः सूर्यो व्रतपा वेन आजनि ।
आ गा आजदुशना काव्यः सचा यमस्य जातममृतं यजामहे ॥ २०.२५.५ ॥
阿塔尔瓦借祭祀首先铺展道路;随后诞生了守护誓约的太阳,那光明者。诗人乌舍那斯驱来了牛群;我们崇拜从阎摩所生的不死者。
20.25.6
बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि ।
ग्रावा यत्र वदति करुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ॥ २०.२५.६ ॥
当为了良好的后代割取吉祥草时,或当歌者在天上高声诵唱颂诗时,当值得赞颂的压榨石开口说话时,因子因陀罗会在即将到来的盛宴中为他欢喜。
20.25.7
प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् ।
इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥ २०.२५.७ ॥
因陀罗啊,为你这公牛,我奉上强劲而真实的饮品;栗色骏马之主啊,这压榨的苏摩为你而备。在此与乳牛同乐吧,以一切祈祷和威力受到赞颂。